🕉️ 24 November 2026, Tuesday · 08:21:56 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 60/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

देवार्चा

अथ देवार्चा। तत्र प्रत्युपचारमाद्यन्तयोरपो दद्यादित्युक्तं वृत्तौ स्मृत्यर्थसारे च। हेमाद्रौ ब्राह्मे- 'आसनेष्वासनं दद्याद्वामे वा दक्षिणेऽपि वा। पितृकर्मणि वामे च दैवे दद्यात्तु दक्षिणे॥' प्रचेताः- 'आसनेष्वासनं दद्यान्न तु पाणौ कदाचन। धर्मोऽसीत्यथ मन्त्रेण गृह्णीयुस्ते तु तान् कुशान्॥' 'धर्मोऽसि विशिराजा प्रतिष्ठितः' इति मन्त्रः। गालवः- 'दर्भानादाय हस्ताभ्यां गृहीत्वा दक्षिणे करे। दैवे क्षणः क्रियतां तु निरङ्गुष्ठं करं ततः॥ ओं तथेति द्विजा ब्रूयुस्ते प्राप्नोतु भवानिति। कर्ता ब्रूयात्ततो विप्रः प्राप्नवानीति वै वदेत्॥' पृथ्वीचन्द्रोदये बृहन्नारदीये- 'यवैर्दर्भैश्च विश्वेषां देवानामिदमासनम्। दत्त्वेति भूयो दद्याद्वै दैवे क्षण इति क्षणम्॥', 'तच्च षष्ठ्या चतुर्थ्या वा कार्यम्' इति स एव। 'ततोऽर्घ्यं कल्पयेत्' इति मन्वादयः; शौनक-जयन्ताभ्यामर्ध्यरहितस्य देवार्चनस्योक्तेः।‘आश्वलायनानां दैवेऽर्घ्यदानं न' इति बोपदेवः-तन्न; परिशिष्टप्रयोगपारिजातविरोधात्। वृद्धिश्राद्धे तु दैवेऽप्यर्ध्यं दद्यात्। 'देवेभ्योऽपि पृथग्दद्यादिहार्ध्यं श्रुतिचोदनात्।' इति शौनकोक्तेः॥

आर्ध्यपात्रम्

अथार्ध्यपात्रम्। पृथ्वीचन्द्रोदये मात्स्य-पाद्मयोः- 'पात्रं वनस्पतिमयं तथा पर्णमयं पुनः। जलजं वापि कुर्वीत तथा सागरसम्भवम्॥' ब्राह्मे - 'सौवर्णताम्ररौप्याश्मस्फाटिकं शङ्खशुक्तयः। भिन्नान्यपि हि योज्यानि पात्राणि पितृकर्मणि॥' हेमाद्रौ प्रजापति:- 'सौवर्ण राजतं ताम्रं खाङ्गं मणिमयं तथा। यज्ञियं चमसं वापि अर्ध्यार्थं पूरयेद्बुधः॥' अत्र विप्रैकत्वचतुष्ट्वादावर्घ्यपात्रे द्वे एव। मानवसूत्रे तु- 'द्वे वैश्वदेविके त्रीणि पित्र्ये एकैकमुभयत्र वा' इत्युक्तम्, तदेकविप्रपरं पात्रालाभपरं वेति हेमाद्रिः। मदनरत्ने तु दैवे एकं पात्रमुक्तम्। पृथ्वीचन्द्रोदयोऽपि- 'त्रीणि पैतृकपात्राणि द्वे द्वे वै वैश्वदेविके।' इति वृहत्पराशरोक्तेर्द्वे एवेत्याह। बह्वृचानां तु दैवे विप्रद्वित्वेऽप्येकमर्ध्यपात्रमर्धशो दद्यादित्युक्तं परिशिष्टे प्रयोगपारिजाते च। कलिकायां हारीतः-'दत्तमक्षय्यतां याति खड्गे नार्ध्य तु यत्कृतम्।' वृद्धमनुः- 'मृन्मयं दारुजं पात्रमयःपात्रं च यद्भवेत्। राजतं दैविके कार्ये शिलापात्रं च वर्जयेत्॥' पुराणसमुच्चये- 'मृत्स्नाभवं तथा कांस्यभारक्तं जन्तुसम्भवम्। त्रपुसीसलोहभवं सदा पात्र विवर्जयेत्॥' तत्रैव- 'अष्टाङ्गुल भवेत्पात्रं पितॄणां राजतं शुभम्। दशाङ्गुलं तु देवानां सौवर्ण शक्तितः कृतम्॥ स्थापयेदर्ध्यापात्रे द्वे न्युब्जे तत्र कुशोपरि। द्वे द्वे पवित्रे विधिवत्पात्रयोश्वोपरि क्षिपेत्॥' यज्ञपार्श्वः-‘पवित्रेस्थेति मन्त्रेण पवित्रे छेदयेत्तु ते। ओषधीमन्तरे कृत्वा अङ्गुष्ठाङ्गुलिपर्वणोः॥ स्फ्येन काष्ठेन लोहेन न मृन्मयनखादिभिः॥' वसिष्ठः- 'तूष्णी प्रोक्ष्याम्भसा पात्रे कुर्यादूर्ध्वबिले ततः। पूरयेत्पात्रयुग्मं तु कृत्वोपरि पवित्रके॥ '

वृद्धपराशरः-‘पात्रद्वयमथार्ध्यार्थ तैजसं चैकवस्तुनः। प्राङ्मुखोऽमरतीर्थेन शन्नोदेव्योदकं क्षिपेत्॥ यवोऽसीति यवांस्तत्र तूष्णी पुष्पाणि चन्दनम्॥' मानवसूत्रे- 'सुमनसः प्रक्षिप्योत्पूय यवान् प्रक्षिपेत्' इति। यवोऽसीति मन्त्रः। पाद्मे- 'यवोऽसि धान्यराजो वा वारुणो मधुमिश्रितः। निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम्॥' ''राजो वा वारुणो मधुसंयुतः' इति परिशिष्टपाठः। गोभिलेन तु- 'यवोऽसि सोमदैवत्यः' इति तिलमन्त्रोऽत्र स्वाहायुक्त उक्तः। हेमाद्रौ यमः- 'यवहस्तस्ततो देवान् विज्ञाप्यावाहनं प्रति। आवाहयेदनुज्ञातो विश्वेदेवास इत्यूचा॥' वृद्धपराशर:- 'ततः सव्यकरं न्यस्य विप्रदक्षिणजानुनि। देवानावाहयिष्येऽहमिति वाचमुदीरयेत्। आवाहयेत्यनुज्ञातो विश्वेदेवास आगता। विश्वेदेवाः शृणुतेममिति मन्त्रद्वयं पठेत्॥' श्राद्धविशेषे विश्वेदेवानामज्ञाने हेमाद्रौ बृहस्पतिः- 'उत्पत्तिं नाम चैतेषां न विदुर्ये द्विजातयः। अयमुच्चारणीयस्तैर्मन्त्रः श्रद्धासमन्वितैः॥ आगच्छन्तु महाभागा विश्वेदेवा महाबलाः। ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते॥' इदं चावाहनमर्ध्यपात्रासादनात्प्राक् हेमाद्रिणोक्तम्। तत्र कातीयैः प्राक्कार्यम्; तथैव तत्सूत्रात्। अन्यैस्तदुत्तरम्। पृथ्वीचन्द्रोदये शङ्खः- 'सयवं पुष्पमादाय चरणादिशिरोन्तकम्। अर्चतेत्यर्चनं कुर्यादन्तरे चोदकं तथा॥' पित्र्ये तु मूर्धादिपादान्तम्; ‘पादप्रभृति मूर्धान्तं दैविके पूजनं भवेत्। शिरःप्रभृति पादान्तं नमो व इति पैतृके॥' इति मदनरत्ने प्रचेतोक्तेः। कलिकायां सङ्ग्रहे- 'तिष्ठन् कृताञ्जलिर्भूत्वा पठेन्मन्त्रं समाहितः। विश्वेदेवाः शृणुत इत्यागच्छन्त्वपरं ततः॥' हेमाद्रौ जातकर्ण्यः-'ततोऽर्ध्यपात्रसम्पत्तिं वाचयित्वा द्विजोत्तमान्। तदग्रे चार्ध्यपात्रं तु स्वाहार्ध्या इति विन्यसेत्॥' गार्ग्यः- 'दत्त्वा हस्ते पवित्रं च कृत्वा पूजां च पादतः। या दिव्या इति मन्त्रेण हस्तेष्वर्ध्यं विनिक्षिपेत्॥' सङ्ग्रहे- 'विश्वेदेवा इदं वोऽर्ध्यमिति दानं समादिशेत्।' तदन्ते 'स्वाहा नमः' इति वाच्यम्; 'या दिव्या इति मन्त्रेण स्वाहाकारं नमोन्तकम्।' इति हेमाद्रौ नागरखण्डात्। आथर्वणसूत्रे तु- 'पाद्यमर्ध्यमाचमनीयमिति द्विजकरे निनयेत्' इत्यस्यैव त्रयमुक्तम्। गभस्तिः- अर्ध्य पिण्डप्रदानं च स्वस्त्यक्षय्ये तथैव च। गन्धपुष्पादिकं सर्व हस्तेनैव तु दापयेत्॥' प्रतिविप्रं या दिव्येत्यावृत्तिः, बह्वृचानां त्वनेन दत्तार्ध्यानुमन्त्रणम्। ततः पात्रं 'देवेभ्यः स्थानमसि' इति न्युब्जमुत्तानं वा कार्यमिति गारुडे उक्तम्। एतदापस्तम्बानां नियतम्, अन्येषां न।

हेमाद्रौ विष्णुधर्मे- 'गन्धैः पुष्पैश्च धूपैश्च वस्त्रैश्चाप्यथ भूषणैः। अर्चयेद्ब्राह्मणान् शक्त्या श्रद्दधानः समाहितः॥' पृथ्वीचन्द्रोदये मार्कण्डेयः-‘चन्दनागरुकर्पूरकुङ्कुमानि प्रदापयेत्।' विष्णुः– 'चन्दनकुङ्कुमकर्पूरागरुपद्मकान्यनुलेपनाय’ इति। व्यासः-‘अपवित्रकरो गन्धैर्गन्धद्वारेति पूजयेत्।' कलिकायां स्मृतिः- 'गन्धद्वारेति वै गन्धमायने ते च पुष्पकम्। धूरसीत्यमुना धूपमुद्दीप्यस्वेति दीपकम्॥ युवं वस्त्राणि मन्त्रेण वस्त्रं दद्यात्प्रयत्नतः। आसने स्वासनं ब्रूयादर्ध्येऽस्त्वर्ध्य द्विजोत्तमः॥ सुगन्धिश्च सुपुष्पाणि सुमाल्यानि सुधूपकः। सुज्योतिश्चैव दीपे तु स्वाच्छादनमिति क्रमः॥' विप्राणां गन्धेन वर्तुलं त्रिपुण्ड्रं वा न कार्यम्। हेमाद्रौ देवलः - 'ललाटे पुण्ड्रकं दृष्ट्वा स्कन्धे मालां तथैव च। निराशाः पितरो यान्ति दृष्ट्वा च वृषलीपतिम्॥' पुण्ड्रकं वर्तुलमित्यपरार्के। मदनरत्ने च- 'पुण्ड्रं त्रिपुण्डं वर्तुलमर्धचन्द्रं च।' 'ऊर्ध्वं च तिलकं कुर्यान्न कुर्याद्वै त्रिपुण्ड्रकम्। ऊर्ध्वं च तिलकं कुर्याद्दैवे पित्र्ये च कर्मणि॥ निराशाः पितरो यान्ति दृष्ट्वा चैव त्रिपुण्ड्रकम्॥' इति वृद्धपराशरोक्तेः। तिर्यग्लेपो भवत्येव; 'वर्जयेत्तिलकं भाले श्राद्धकाले च सर्वदा। तिर्यगप्यूर्ध्वपुण्ड्रं वा धारयेत्तु प्रयत्नतः॥ इति व्यासोक्तेरिति पृथ्वीचन्द्रः। यत्तु नारदीये- 'ऊर्ध्वपुण्ड्रं च तुलसीं श्राद्धे नेच्छन्ति केचन।' इति,- तत् कर्तृपरम्। हेमाद्रौ ब्राह्मे- 'पूतिकं मृगनाभिं च रोचनं रक्तचन्दनम्। कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत्॥' कस्तूर्यां विकल्प इति हेमाद्रिः। वृद्धशातातपः- 'पवित्रं तु करे कृत्वा यः समालभते द्विजान्। राक्षसानां भवेच्छ्राद्धं निराशैः पितृभिर्गतैः॥' पुष्पं तु ब्राह्मे-'जातीचम्पकलोध्राश्च मल्लिका बाणबर्बरी। चूताशोकाटरूषं च तुलसी शतपत्रकम्॥कुब्जकं तगरं चैव भृङ्गमारण्यकेतकी। यूथिकामतिमुक्तं च श्राद्धे योग्यानि भो द्विजाः॥ कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः। इन्दीवरं कोकनदं कह्लारं च निवेदयेत्॥' हेमाद्रौ वायु-भविष्ययोः- 'सुकुमारैः किसलयैर्यवदूर्वाङ्कुरैरपि। सम्पूजनीयाः पितरः श्रेयस्कामेन सर्वदा॥' स्कान्दे- 'जातिश्च सर्वा दातव्या मल्लिका श्वेतयूथिका। जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम्॥' तत्रैव वृद्धमनुः- 'न नियुक्तः शिखावर्ज्यं माल्यं शिरसि धारयेत्।'

वर्ज्यानि पृथ्वीचन्द्रोदये भविष्ये- 'केतकीं तुलसीपत्रं बिल्वपत्रं च वर्जयेत्। द्रोणं च करवीरं च धत्तूरं किंशुकं तथा।' माधवीये स्मृत्यर्थसारे च तुलसी निषिद्धा। तुलसीनिषेधो निर्मूल इति हेमाद्रिः। समूलत्वेऽपि पिण्डपरः; 'तुलसीगन्धमाघ्राय पितरस्तुष्टमानसाः। प्रयान्ति गरुडारूढास्तत्पदं चक्रपाणिनः॥” इति प्रयोगपारिजाते पाद्मोक्तेरिति बोपदेवः। वृद्धपराशरः- 'न जातीकुसुमैर्विद्वान् बिल्वपत्रैश्च नार्चयेत्। जपादिकुसुमं झिण्टी रूपिका सकुरण्टिका॥ पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः।' हेमाद्रौ शङ्खः- 'उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च॥ जलोद्भवानि देयानि रक्तान्यपि विशेषतः।' अङ्गिराः- 'न जातीकुसुमानि दद्यान्न कदलीपत्रम्।' इति जात्यां विकल्प इति हेमाद्रिः। निषेधः पिण्डविषयः; 'कुन्दं शम्भौ च नो दद्यान्नोन्मत्तं गरुडध्वजे। पिण्डे जातीं च नो दद्याद्देवीमर्केण नार्चयेत्॥' इति वृद्धयाज्ञवल्क्योक्तेरिति बोपदेवः। स्मृतिसारे- 'आगस्त्यं भृङ्गराजं च तुलसी शतपत्रिका। चम्पकं तिलपुष्पं च षडेते पितृवल्लभाः॥ केतकीं करवीरं च बकुलं कुन्दकं तथा। पाटलां चैव जातीं च श्राद्धे यत्नेन वर्जयेत्॥' केचित्पिण्डे तुलसीमाहुः- 'पितृपिण्डार्चनं श्राद्धे यैः कृतं तुलसीदलैः। प्रीणिताः पितरस्तैस्तु यावच्चन्द्रार्क मेदिनी॥' इति मार्कण्डेयोक्तेः।

श्राद्धे देयवस्तुनिर्णय।—

धूपस्तत्रैव विष्णुधर्मे- 'धूपस्तु गुग्गुलुर्देयस्तथा चन्दनसारजः। अगरुश्च सकर्पूरस्तुरुष्कत्वक् तथैव च॥' विष्णुः- 'घृतमधुयुक्तं गुग्गुलुं श्रीखण्डदेवदारुसरलादि दद्यात्।' इति। तत्रैव देवलः– 'ये हि प्राण्यङ्गजा धूपा हस्तवाताहताश्च ये। न ते श्राद्धे नियोक्तव्या ये च के चोग्रगन्धयः॥ घृतं न केवलं दद्याद्दुष्टं वा तृणगुग्गुलुम्॥' दीपमाह विष्णुः- 'घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः। वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत्॥' वस्त्रं ब्राह्मे- 'कौशेयं क्षौमकार्पासं दुकूलमहतं तथा। श्राद्धेष्वेतानि यो दद्यात् कामानाप्नोति चोत्तमान्॥' हेमाद्रौ ब्रह्मवैवर्ते- 'यज्ञोपवीतं दातव्यं वस्त्राभावे विजानता। पितृभ्यो वस्त्रदानस्य फलं तेना नुतेश्नुऽखिलम्॥' तत्रैव पाद्मे- 'निष्क्रयो वा यथाशक्ति वस्त्राभावे प्रदीयते।' अन्यान्यपि च देयानि। तत्रैव कालिकापुराणे-'धात्वादिनिर्मिता रम्या दीपिकाः श्राद्धकर्मणि। पितृृनुद्दिश्य यो दद्यात्स भवेद्भाजनं श्रियः॥ यो धूपदानपात्रं तु पात्रमारार्तिकस्य च। दद्यात्पितृभ्यः प्रयतस्तस्य स्वर्गेऽक्षया गतिः॥' विष्णुधर्मे- 'यः कञ्चुकं तथोष्णीषं पितृभ्यः प्रतिपादयेत्। ज्वरोद्भवानि दुःखानि स कदाचिन्न पश्यति॥ स्त्रीणां श्राद्धे तु सिन्दूरं दद्युश्चण्डातकानि च। निमन्त्रिताभ्यः स्त्रीभ्यो ये ते स्युः सौभाग्यसंयुताः॥' हेमाद्रावादित्यपुराणे- 'न कृष्णवर्णं दातव्यं नापि कार्पाससम्भवम्। पितृभ्यो नापि मलिनं नोपभुक्तं कदाचन॥ न छिद्रितं नापदशं न धौतं कारुणापि च।' कार्पासनिषेधोऽन्यसम्भवे। तत्रैव- 'पितॄन् सत्कृत्य वासोभिर्दद्याद्यज्ञोपवीतकम्। यज्ञोपवीतदानेन विना श्राद्ध तु निष्फलम्॥' - एतद्यतिस्त्रीशूद्रश्राद्धेऽपि देयमिति हेमाद्रिः। तत्रैव नृसिंहपुराणे- 'कमण्डलुं ताम्रमयं श्राद्धेषु प्रददाति यः। काष्ठेन निर्मितं वापि नारिकेलमथापि वा॥ दद्यात् कमण्डलुं श्राद्धे स श्रीमानभिजायते। यो मृत्तिकाविरचितान् श्राद्धेषु च घटान् शुभान्॥ प्रदद्यात् करकान्वापि सोऽक्षयं विन्दते सुखम्॥' तत्रैव-'उपानच्छत्रवस्त्राणि भुक्तिपात्रं कमण्डलुम्। शयनासनयानानि दर्पणव्यजनानि च॥ अन्नं सुसंस्कृतं गन्धांस्ताम्बूलं दीपचामरे। पितृभ्यो यः प्रयच्छेत्तु विष्णुलोकं स गच्छति॥' सौरपुराणे- 'चामरं तालवृन्तं च श्वेतच्छत्रं च दर्पणम्। दत्त्वा पितृृणामेतानि भूमिपालो भवेदिह॥' तत्रैव नन्दिपुराणे- 'अलङ्काराः प्रदातव्या यथाशक्ति हिरण्मयाः। केयूरहारकटकमुद्रिकाकुण्डलादयः॥' तथा–'स्त्रीश्राद्धेषु प्रदेयाः स्युरलङ्कारास्तु योषिताम्। मञ्जीरमेखलादामकर्णिकाकङ्कणादयः॥आदर्शव्यजनच्छत्रशयनासनपादुकाः। मनोज्ञाः पट्टवासाश्च सुगन्धाश्चूर्णमुष्टयः॥ अङ्गारधानिकाः शीते योगपट्टाश्च यष्टयः। कटिसूत्राणि रौप्याणि मेखलाश्चैव कम्बलाः॥ कर्पूरादेश्च भाण्डानि ताम्बूलायतनं तथा। भोजनाधारयन्त्राणि पतद्ग्राहांस्तथैव च। तथाऽञ्जनशलाकाश्च केशानां च प्रसाधनम्। एतान् दद्यात्तु यः सम्यक् सोऽश्वमेधफलं लभेत्॥' स्कान्दे- 'सौवर्णं राजतं वापि कांस्येनाप्यथ निर्मितम्। दत्त्वा भोजनपात्रं तु सम्राट् भवति भूतले॥' वामनपुराणे - 'बन्दीकृतास्तु ये केचित् स्वयं वा यदि वा परैः। येन केनाप्युपायेन यस्तान्मोचयते नरः॥ पितरस्तस्य गच्छन्ति शाश्वतं पदमव्ययम्॥' पराशरः- 'वाचयेत्परिपूर्णत्वं वासो दत्त्वा विधानतः।' नारदीये - 'देवैश्च समनुज्ञातो यजेत्पितृगणं त्वथ।' तत्र पित्र्ये आसनाद्यशेषमर्चनकाण्डं वैश्वदेविकं ज्ञेयम्। विशेषस्तूच्यते-तत्रासने द्विगुणभुग्नाः कुशाः। अत्रावाहनमासनात्पूर्वं वा, अर्घ्यपूरणोत्तरं वा, अग्नौकरणोत्तरं वेति स्मृतिषु पक्षा उक्ताः। एषां शाखाभेदेन व्यवस्था। द्वितीयपक्ष एव बहुसम्मतः। तत्रार्घ्यमाहाश्वलायनः- 'तैजसाश्ममयमृन्मयेषु त्रिषु अर्ध्यविचारः। पात्रेष्वेकद्रव्येषु वा दर्भान्तर्हितेष्वप आसिच्य, 'शं नो देवीरभिष्टये इत्यनुमन्त्रितासु तिलानावपति- 'तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः। प्रत्नवद्भिः प्रत्तः स्वधया पितृनिमाल्ँ लोकान् प्रीणयाहि नः स्वधा नमः' इति। अश्ममयं स्फाटिकादि। मृन्मयं हस्तकृतमेव; 'कुलालचक्रनिष्पन्नमासुरं दैविकं न तत्। तदेव हस्तघटितं दैविकं केवलं तथा॥” इति छन्दोगपरिशिष्टात्। अन्यान्यपि पात्राणि पूर्वमुक्तानि। मनुः - 'अन्नाभावे द्विजाभावे यद्येको ब्राह्मणो भवेत्। पात्राण्यासादयेत्त्रीणि न तु ब्राह्मणसङ्ख्यया॥' दत्तकादेः कर्तुर्द्विपितृत्वादावपि वचनात् त्रीण्येव पात्राणीति हरिहरः। माधवीये बैजवापः- 'अर्ध्ये पितॄणां त्रीण्येव कुर्यात्पात्राणि धर्मवित्। एकस्मिन्वा बहुषु वा ब्राह्मणेषु यथाविधि॥' हेमाद्रावप्येवम्। अत्रानुमन्त्रणं सकृत्। 'तिलोऽसि' इत्यस्य प्रतिपात्रमावृत्तिः पितृशब्दस्यानूहश्चेति वृत्तिकृत्। दर्भश्च त्रिगुणं पवित्रम्; 'तिस्रस्तिस्रः शलाकास्तु पितृपात्रेषु पार्वणे। एकोद्दिष्टे शलाकैकां निधायोदकमाहरेत्॥' इति हेमाद्रौ चतुर्विंशतिमतात्। तत्रैव विष्णुः - 'दक्षिणाग्रदर्भेषु दक्षिणापवर्गचमसेषु पवित्रान्तर्हितेष्वप आसिञ्चेत्।' 'शं नो देवीः' इति मन्त्रेण जलासेचनं बह्वृचभिन्नविषयम्। अत्रास्मिन्पक्षे प्रतिपात्रं मन्त्रावृत्तिः।

कारिकायाम् - 'गन्धपुष्पाणि चैतेषु पात्रेषु प्रक्षिपेदथ।" ब्राह्मे -'जलं क्षीरं दधि घृतं तिलतण्डुलसर्षपान्। कुशाग्रमधुपुष्पाणि दत्त्वाऽऽचामेत्ततः स्वयम्॥' जातूकर्ण्य :- 'ततोऽर्घ्यपात्रसम्पत्तिं वाचयित्वा द्विजोत्तमान्। तदग्रे चार्घ्यपात्राणि स्वधाऽर्ध्या इति विन्यसेत्॥' ततस्तिलहस्तो विप्रसव्यजानौ दक्षिणकरं न्यस्यावाहनं पृच्छेत्। अत्र गोत्रसम्बन्धनामानि द्वितीयान्तत्वं च प्रागुक्तम्। बैजवापगृह्ये - 'तिष्ठन् पितॄनावाहयिष्यामीत्यामन्त्र्य ।' कौर्मे - 'अपसव्यं ततः कृत्वा पितृणां दक्षिणामुखः। आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः॥ आवाह्य तदनुज्ञातो जपेदायन्तुनस्ततः॥' अत्र सव्यस्यापि प्रागुक्तेर्विकल्पः। अत्राद्यमन्त्रावृत्त्याऽस्मत्पितरममुकशर्माणममुकगोत्रं वसुरूपमावाहयामीत्युक्त्वा मूर्धादिपादान्तं तिलान्विकीर्य, 'आयन्तु नः' इति सर्वान्ते सकृज्जपेदिति निबन्धाः। अत्रोपवेशनसंवेशनपाद्यार्थ्याचमनीयान्यपि हेमाद्रिणोक्तानि, तान्यथर्ववेदिनां नियतानि, नान्येषाम्। तेषां च प्रपितामहादिपित्रन्तं प्रातिलोम्येन सर्वः प्रयोगः।

वाराहे- 'गन्धपुष्पार्चनं कृत्वा दद्याद्धस्ते तिलोदकम्।' गार्ग्यः- 'शिरस्तः पादतो वापि सम्यगभ्यर्चयेत्ततः।’, ‘ततः ‘स्वधाऽर्ध्याः' इति पितृपितामहादिविप्राग्रे प्रत्येकं निवेदयेत्” इति कारिकायां वृत्तौ च। आश्वलायन:--"प्रसव्येनेतरपाण्यङ्गुष्ठान्तरेणोपवीतित्वादक्षिणेन वा सव्योपगृहीतेन - 'पितरिदं ते अर्ध्यं, पितामहेदं ते अर्घ्यं, प्रपितामहेदं ते अर्ध्य ' इत्यप्पूर्वं ताः प्रतिग्राहयिष्यन् सकृत्सकृत्स्वधा अर्ध्या इति प्रसृष्टा अनुमन्त्रयेत॥ 'या दिव्या आपः पृथिवि सम्बभूवुर्या अन्तरिक्ष्या उत पार्थिवीर्याः। हिरण्यवर्णा यज्ञियास्ता न आपः शं स्योना भवन्तु।'–”इति। अर्ध्यादि प्राग्गन्धादेर्यज्ञोपवीतमेव। अर्ध्यदानात् प्रागन्या अपो दद्यात्। यद्यप्यत्र सव्येन दक्षिणेन वार्घ्यं दद्यादित्युक्तं, तथापि दक्षिणेनेत्यभिमतोऽर्थः। कारिकायां वृत्तौ चैवम्। 'पित्रादेस्त्रिभिः पात्रैर्दद्यात्। पितुः स्थाने विप्रत्रयं चेदेकार्घ्यं विभज्य दद्यात्। त्रयाणां 'स्वधा अर्ध्याः' इति सकृत्प्रश्नः। एवं पैतामहादावपि। अन्यजलदानमर्थ्यमन्त्राश्च प्रतिविप्रमावर्तन्ते। तेषु गन्धादौ च प्रतिविप्रं पदार्थानुसमयः काण्डानुसमयो वा। पित्रादित्रयाणामेकविप्रपक्षे त्रिभिः पात्रैरेकस्यैवार्घ्यं दद्यात्' इति वृत्तिः। कारिकापि- 'स्वधाऽर्ध्या इत्यपोर्ध्यास्ता उपवीती निवेदयेत्।' निवेदनात्प्राक् प्राचीनावीतमेवेत्यर्थः। 'अर्ध्यं सशेषमादाय दक्षिणेन तु पाणिना। सव्यहस्तगृहीतेन निनयेत् पितृतीर्थतः॥ दत्त्वा दत्त्वा निनीतास्ता या दिव्या र्चानुमन्त्रयेत्।' यत्तु - ' या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत्॥' इति, यच्च वाराहे- 'तिलाम्बुना चापसव्यं दद्यादर्घ्यादिकं द्विजः।' इति, यच्च व्यासः- 'गोत्रसम्बन्धनामानि पितृणामनुकीर्तयन्। एकैकस्य तु विप्रस्य अर्ध्यपात्रं विनिक्षिपेत्॥” इति, तद्बह्वृचातिरिक्तविषयम्। तत आचामेत्। एवं मातामहेष्वपि।

आश्वलायनः - 'संस्रवान् समवनीय ताभिरद्भिः पुत्रकामो मुखमनक्ति'। संस्रवः - शेषः। 'संस्रवो हि परिशिष्टो भवति' इति शतपथश्रुतेः। केचित्तु हस्तगलिताम्बु वदन्ति। समवनीयान्त्ये द्वे पात्रे पितृपात्रे आसिच्येति वृत्तिः। 'प्रथमे पात्रे सन्त्रवान् समवनीय' इति कातीयसूत्राचच \। ब्राह्मे तु प्रतिबिम्बावलोकनमुक्तम्। स्कान्दे त्वायुःकामस्य नेत्रासेचनमुक्तम्। पित्र्यविप्रैः प्राङ्मुखस्य कर्तुरभिषेकः कार्य इति केचित्। आश्वलायनः- 'नोद्धरेत्प्रथमं पात्रं पितृणामर्थ्यपातितम्। आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत्॥' ‘यावद्विप्रविसर्जनम्' इति तुर्यपादे यमीयः पाठः। अत्र वृत्तिः - 'पितृपात्रं समवनयनदेशान्न चालयेदाश्राद्धसमाप्तेः यस्मात्तत्र तृतीयपात्रेणावृताः' इति। यद्वा , – 'प्रथमपात्रमेव न्यग्बिलं कुर्यात्' इति। कामाभावेऽपीदमेव शेषप्रतिपादनम्। हेमाद्रौ कौर्मे-'सस्रवांश्च ततः सर्वान् पात्रे कुर्यात्समाहितः। पितृभ्यः स्थानमसीति न्युब्जं पात्रं निधापयेत्॥' शूलपाणौ यमस्तु - 'पैतृकं प्रथमं पात्रं तस्मै पैतामहं न्यसेत्। प्रपितामहं ततो न्यस्य नोद्धरेन्न च चालयेत्॥' इत्याह। 'अथ सन्त्रवानानीय तृतीयेनाच्छाद्य न्युब्जीकुर्यात्' इति सर्वैकवाक्यतयार्थ इति केचित्। अत्रिः - 'गन्धादिभिस्तदभ्यर्च्य तृतीयेनापिधापयेत्। पितृभ्यः स्थानमसीति शुचौ देशेऽर्चितेऽर्चयेत्॥' अर्चनं न्युब्जीकृतेऽपि तुल्यम्, 'न्युब्जमुत्तरतो न्यसेत्' इति प्रचेतसोक्तेः। 'सर्वविप्रोत्तरतो न्यसेत्' इति हेमाद्रिकल्पतरू। 'विप्रवामे' इति हलायुधः। 'कर्तुर्वामे' इति शूलपाणिः। 'उत्तानं विवृतं वापि पितृपात्रं न तद्भवेत्।' इत्युशनसोक्तेर्न्युब्जतैव साधुः। मातामहादिसंस्रवानपि पितृपात्र एव गृहीत्वा प्रयाजवत्तन्त्रेण न्युब्जीकुर्यात् इति शूलपाणिः। एकोद्दिष्टे तूहेन न्युब्जतेति पितृभक्तौ श्रीदत्तः। यमोऽपि - 'स्पृष्टमुत्तानमन्यत्र नीतमुद्घाटितं तथा। पात्रं दृष्ट्वा व्रजन्त्याशु पितरस्त शपन्ति च॥' वैश्वदेवे उत्तानमिति मदनपारिजातः। बैजवापः- 'तस्योपरि कुशान् दत्त्वा प्रदद्याद्देवपूर्वकम्। गन्धपुष्पाणि धूपं च दीपं वस्त्रोपवीतके॥' अत्र गन्धादेर्दैवे पित्र्ये च पदार्थानुसमयस्य याज्ञवल्क्योक्तकाण्डानुसमयेन विकल्पो ज्ञेयः। बह्वृचानां तु सूत्रे दैवानुक्तेः काण्डानुसमय एव। अत्र प्राचीनावीती। नामगोत्रसम्बुद्ध्याद्युक्तं प्राक्। अन्यद्दैववत्तदन्ते आचमनं च। हेमाद्री कालिकापुराणे - 'निर्वर्त्य ब्राह्मणादेशात् क्रियामेवं यथाविधि। भाजनानि ततो दद्याद्धस्तशौचं पुनः क्रमात्॥' आदेशात्पात्राणि दद्यादित्यन्वयः। तेन तत्रापि प्रश्नानुज्ञे ज्ञेये। तत्रैव ब्राह्मे - 'मण्डलानि च कार्याणि नैवारैचूर्णकैः शुभैः। गौरमृत्तिकया वापि भस्मना गोमयेन वा॥' भृगुः - 'भस्मना वारिणा वापि कारयेन्मण्डलं ततः। चतुःकोणं द्विजाम्यस्य त्रिकोणं क्षत्रियस्य तु। मण्डलाकृति वैश्यस्य शूद्रस्याभ्युक्षणं स्मृतम्॥' बहृचपरिशिष्टे तु ' दैवे चतुरस्रं पित्र्ये वृत्तं मण्डलं कृत्वा क्रमेण सयवान् सतिलांश्च दर्भान् दद्यात्' इत्युक्तम्। मार्कण्डेयः 'यातुधानाः पिशाचाश्च क्रूरा ये चैव राक्षसाः। हरन्ति रसमन्नस्य मण्डलेन विवर्जितम्॥"

हेमाद्री हारीत: - 'भूमावेव निदध्यान्नोपरि पात्राणि' इति, तानि च हेमाद्रावत्रिराह - 'भोजने हैमरौप्याणि दैवे पित्र्ये यथाक्रमम्'। हारीत : - 'राजतपार्णताम्रकांस्यपात्राणि भोजने।' इति। तत्रैव वाराहे- 'सौवर्णानीह रौप्याणि कांस्यानि तदसम्भवे। अन्यान्यपि हि कार्याणि दारुजान्यपि जानता॥ नायसान्यपि कार्याणि पैत्तलानि न तु क्वचित्। न च सीसमयानीह शस्यन्ते त्रपुजान्यपि॥' अत्रिः - 'पञ्चाशत्पलिकं कांस्यं द्व्यधिकं भोजनाय वै। गृहस्यैस्तु सदा कार्यमभावे हेमरौप्ययोः॥ पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने।' पृथ्वीचन्द्रस्तु- 'कांस्यपात्रे हविर्दृष्ट्वा निराशाः पितरो गताः।'

इति ब्राह्मोक्तेः कांस्यपात्रनिषेधमाह। बोपदेवस्तु स्मृतिसङ्ग्रहमुदाजहार- 'श्राद्धे पलाशपात्राणि मधुकौदुम्बराणि च। पारिकाकुटजप्लक्षक्रकचानि क्रमाज्जगुः॥ कदलीचूतपनसजम्बुपुन्नागचम्पकाः। अलाभे मुख्यपात्राणां ग्राह्याः स्युः पितृकर्मणि॥' इति। हेमाद्रौ तु कदलीपात्रनिषेधमाहाङ्गिराः- 'न जातीकुसुमानि दद्यान्न कदलीपत्रम्' इति। ऋतुः- 'असुराणां कुले जाता रम्भा पूर्वपरिग्रहे। तस्या दर्शनमात्रेण निराशाः पितरो गताः॥' एवं पात्राण्यासाद्य भस्ममर्यादां कृत्वा विप्रहस्तशोधनं कुर्यात्। तत्र ‘पिशङ्ग', 'रक्षाणो' इति मन्त्रद्वयं केचित्पठन्ति। मात्स्ये 'अकृत्वा भस्ममर्यादां यः कुर्यात्पाणिशोधनम्। आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते॥' तथैव ब्रह्माण्डे - 'प्रक्षाल्य हस्तपात्रादि पश्चादद्भिर्विधानवत्। प्रक्षालनजलं दस्तिलैर्मिश्रं क्षिपेच्छुचौ॥' मण्डलोपरीति हेमाद्रिः॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬