🕉️ 24 November 2026, Tuesday · 08:22:26 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 61/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

आग्नौकरणम्

अथाग्नौकरणम्। हेमाद्रौ मार्कण्डेयः - 'आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः। अनाहिताग्निचौपासनेऽन्यभावे द्विजेऽप्सु वा॥' वायवीये - 'आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः। अभ्यर्थं लौकिकं वापि जुहुयात्कर्मसिद्धये॥ आहिताग्निः सर्वाधानी। अर्धाधानी तु गृह्य एवेति चन्द्रिकाऽपरार्क-मिताक्षरा-माधवादयः। तस्यापि दक्षिणाग्नौ लौकिको गृह्य इति हेमाद्रिः कल्पतरुश्च। आद्यपक्ष एव तु युक्तो बहुसम्मतश्च। यद्यपि स्मार्तमग्नौकरणं श्रौते दक्षिणाग्नौ न युक्तं तथापि वचनाद्भवतीति हेमाद्रि-चन्द्रिकादयः। इदं दर्शश्राद्ध एव। आब्दिकादिषु तु सर्वाधानी पाणौ, अर्धाधानी गृह्ये कुर्यादिति हेमाद्रिर्माधवादयश्च; 'पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः। पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः॥' इति लौगाक्ष्यादिभिः ऋगोक्तेर्विहृतदक्षिणाग्निसत्त्वात्। अत एवात्र वचने साग्निकः आहिताग्निरुक्तो हेमाद्रिणा। - एतदापस्तम्बादीनामेव। आश्वलायनस्याहिताग्नेः पाणावेवेति वृत्तिः। अर्धाधानिनो गृह्ये एव व्यतिपङ्गेणेति प्रयोग पारिजाते परिशिष्टे च। बोपदेवस्त्वाह 'होम' शब्दः पिण्डपितृयज्ञपरः; 'पितृयज्ञे तु जुहुयादक्षिणाग्नौ समाहितः। श्राद्धे त्वौपासनाग्नौ तु निरग्निलौकिकेऽनले॥ अनग्निर्दूरभार्यश्चपार्वणे समुपस्थिते। सन्धायाग्निं ततः कुर्याद्धोममग्निं समुत्सृजेत्॥” इति त्रिकाण्डमण्डनोक्तेः। श्राद्धे गृह्याग्नावेवेति लौकिकाम्यादिविधानं च तैत्तिरीयादिविषयम्। बह्वृचस्य त्वनग्नेरपि पाणिहोम एव; अग्निपाणी विना सूत्रे विधानान्तरानुक्तेः। 'अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्।' इति मनुक्तेश्च। वृत्तावप्येवम्।

क्वचित्साग्नेरपि पाणिहोम उक्तो गृह्यपरिशिष्टे- 'अन्वष्टक्यं च पूर्वेद्युर्मासि मास्यथ पार्वणम्। काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टं तथाऽष्टमम्॥ चतुर्ष्वाद्येषु साग्नीनां वह्नौ होमो विधीयते। पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपि॥' इति। एकोद्दिष्टं = सपिण्डीकरणं; शुद्धे तन्निषेधात्। बह्वृचभाष्यकारास्तु सर्वैकोद्दिष्टेषु पाणिहोममाहुः। इदं च बह्वृचानामेव।

अत्रेदं तत्त्वम् - 'स्थालीपाकेन सह पिण्डार्थमुद्धृत्य' इति सूत्रे 'नात्रापूर्वः स्थालीपाकश्चॊद्यते। सर्वश्राद्धेषु प्रसङ्गात्तेनानुवादोऽयम्' इति वृत्तिकारोक्तेः पार्वणे आर्थिकस्यानङ्ङ्गस्य व्यतिषङ्गस्य वार्षिकादिष्वनतिदेशादर्धाधानिनोऽपि पाणिहोम एवेति वृत्तिखरसः। एवं मासिकादावपि, 'षोडशे मासिके श्राद्धे सपिण्डीकरणे तथा। पाणावेव तु होतव्यमन्यत्राग्नौ तु हूयते॥' इति बोपदेवोदाहृतवचनाच्च । भाष्यकारमते तु - सूत्रे स्थालीपाकेनेति करणत्वान्नित्यवच्छ्रणाच्च पार्वणे सोऽङ्गम्। ततः काम्यादिषु तदभावे कार्यस्य पिण्डदानस्याप्यभावः। एतदेवानुसृत्य विकृतावपि वार्षिकादौ व्यतिषङ्ग उक्तः प्रयोगपारिजाते परिशिष्टे च। तेनैतन्मतेऽर्धाधानिनोऽग्नावेव। वस्तुतस्तु - स्थालीपाकेन 'सहशाखया प्रस्तरं प्रहरति' इतिवत्सहभावमात्रश्रुतेः। पत्नीवते त्वत्पुरुषलक्षणमिव नाङ्गत्वम्। तत्त्वे वा नाङ्गानुरोधेन प्रधानभूतपिण्डदानत्यागो युक्तः। तेन व्यतिषङ्गाभावेऽप्यग्नौ होमो भवतीति बोपदेवः। अनाहिताग्नेर्गृह्याग्निमतस्तु सर्वमतेऽग्नावेव। वार्षिकादौ वृत्तिमते व्यतिषङ्गो न, अन्यमते त्वस्ति। - अत्र यथाचारमनुष्ठेयम्।

आश्वलायनः- 'उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये करवै करवाणीति वा। प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्विति। अथाग्नौ जुहोति यथोक्तं पुरस्तात्' इति। व्यतिषङ्गपक्षे इदमिति वृत्तिः। करवै करवाणीत्यत्राग्नावित्यनुषङ्गः। पुरस्तात् = पिण्डपितृयज्ञे। तच्चैवम् ‘मेक्षणेनावदायावदानसम्पदा जुहुयात्सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इति स्वाहाकारेण वाऽग्नौ पूर्वं यज्ञोपवीती मेक्षणमनुप्रहृत्य' इति। अवदानसम्पदा उपस्तरणाद्यपेक्षयेत्यर्थः। व्यतिषङ्गपक्षे अतिप्रणीतेऽयं होमोऽन्यथा मुख्ये; 'अतिप्रणीतेऽग्नाविघ्ममुपसमाधाय' इति बह्वृचपरिशिष्टात्। केचित्तस्य रक्षोनिबर्हणार्थत्वान्मुख्ये वदन्ति। - तदेतद्विरोधाच्चिन्त्यम्। प्रयोग पारिजातेऽप्येवम्। शौनक:- 'स्वाहाकारेण होमे तु भवेद्यज्ञोपवीतवान्। तत्र प्रागग्नये हुत्वा पश्चात्सोमाय हूयते॥ अग्नौ यज्ञोपवीत्येव प्रक्षिपेन्मेक्षणं ततः॥' छन्दोगपरिशिष्टे - 'अग्नौकरणहोमश्च कर्तव्य उपवीतिना। अपसव्येन वा कार्यो दक्षिणाभिमुखेन च॥' कातीयानां त्वपसव्यमेव, पिण्डपितृयज्ञवद्धुत्वेति सर्वातिदेशातू। सव्यं तु छन्दोगपरम्, गोभिलेनैतदुत्तरमेवापसव्योक्तेः; 'छन्दोगा जुहुयुः सव्येनापसव्येन याजुषाः॥ इति वृद्धयाज्ञवल्क्योक्तेश्च॥

पाणिहोमः

अथ पाणिहोमः। आश्वलायनः- 'अभ्यनुज्ञायां पाणिष्वेव वा' इति। पिण्डपितृयज्ञकल्पाभावेनाग्न्यभावे काम्यादिष्वित्यर्थः। तेन बह्वृचानामेकोद्दिष्टे पाणिहोमो भवत्येव। निषेधोऽन्यपरः। पाणिष्विति बहुवचनात्सर्वविप्रपाणिषु होम इति वृत्तिः। एवं मातामहेऽपि। शौनकोऽपि - 'सर्वेषामुपविष्टानां विप्राणामथ पाणिषु। विभज्य जुहुयात्सर्वं सोमायेत्यादिमन्त्रतः॥' यत्तु - हेमाद्रौ कात्यायनः 'पित्र्ये यः पङ्क्तिमूर्धन्यस्तस्य पाणावनग्निकः। हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्॥' इति बह्वृचा तिरिक्तानाम्। यत्तु-तत्रैव मात्स्ये 'अग्न्यभावे तु विप्रस्य पाणौ वाथ जलेऽपि वा। अजकर्णेऽश्वकर्णे वा गोष्ठे वाथ शिलान्तिके॥” इति, - तत्तीर्थश्राद्धविषयम्; 'तद्यदापां समीपे स्याच्छ्राद्धं ज्ञेयो विधिस्तदा।' इति तत्रैव कात्यायनोक्तेः। निर्जले त्वजकर्णादौ। यत्तु - चन्द्रोदये यमः 'दैवविप्रकरेऽनग्निः कृत्वाग्नौकरणं द्विजः।' इति, तदभार्यपरम्; 'अपत्नीको यदा विप्रः श्राद्धं कुर्वीत पार्वणम्। पित्र्यविप्रैरनुज्ञातो विश्वेदेवेषु हूयते॥' इति तत्रैव कात्यायनोक्तेः। हूयते इति छान्दसो व्यत्ययः। हेमाद्रौ वायवीये - 'विधुरो दैविके कुर्याच्छेषं पित्र्ये निवेदयेत्।' दैवविप्रानेकत्वे तत्रैव - 'वैश्वदेवे यदैकस्मिन् भवेयुद्धर्थादयो द्विजाः। तदैव पाणौ होतव्यं स्याद्विधिर्विहितस्तदा॥' सोऽप्याद्यः; 'प्रथमं वा नियम्येत' इति न्यायात्। तेन मृतभार्यस्य दैवे होमः। अनुपनीतब्रह्मचार्यादेस्तु पित्र्ये; अग्न्यभावः स्मृतस्तावद्यावद्भार्यां न निन्दति।’ इति हेमाद्रौ जातकर्ण्योक्तेः। सभार्यस्य नष्टाग्नेरपि पित्र्यविप्रकरे इति पृथ्वीचन्द्रः। उपवीतेन दैवे होमः, प्राचीनावीतेन पित्र्ये। यद्वा सर्वत्र दैवपित्र्यकरयोर्विकल्प इति हेमाद्रौ मदनरत्ने पारिजाते च। यदा तु पितृमातामहयोर्दैवपित्र्यविप्रभेदस्तदा भेदेन पाणिहोम इत्यपरार्क-चन्द्रिकादयः। यदा तु दैवं तन्त्रं तदा तन्त्रेण सकृदेव पाणिहोम इति केचित्। हेमाद्रिस्तु- 'मातामहस्य भेदेऽपि कुर्यात्तन्त्रे च साग्निकः।' इति कातीयस्मृतेर्भेमाह । एवं पित्र्येऽपि। माधवीयेऽप्येवम्। एव साग्नेरपि विदेशादौ पाणिहोमो ज्ञेयः। यत्तु-कर्केणाग्निं विना श्राद्धमेव नास्तीत्युक्तम्, तत् सपिण्डीकरणवार्पिकाद्यकरणापत्तेर्यत्किञ्चिदेव। यत्तु - बृहन्नारदीये 'अनग्निर्दूरभार्यश्च पार्वणे समुपस्थिते। भ्रातृभिः कारयेच्छ्राद्धं साग्निकैर्विधिवद्विजः॥ क्षयाहदिवसे प्राप्ते स्वस्याग्निदूरगो यदि। तथैव भ्रातरः स्युश्चेल्लौकिकाग्नाविति स्थितिः॥ औपासनाग्नौ दूरस्थे समीपे भ्रातरि स्थिते। यद्यग्नौ जुहुयाद्वापि पाणौ वा स हि पातकी। औपासनाग्नौ दूरस्थे केचिदिच्छन्ति सत्तमाः। पाणावेव तु होतव्यमिति नैतत्समञ्जसम्॥” इति, -तद्वृद्धानादरादुपेक्ष्यम्। हेमाद्रौ यमः- 'अग्नौ करणवत्तत्र होमो विप्रकरे भवेत्। पर्युक्ष्य दर्भानास्तीर्य यतो ह्यग्निसमो द्विजः॥' मेक्षणेन करेण वा होमः। मेक्षणप्रहरणं नेति वृत्तिः। स्मृतिरत्नावल्याम्- 'नानुज्ञा पाणिहोमे स्यान्न स्तः पर्यूहनोक्षणे। नाग्ने तमद्यादिति च न स्यातामिध्ममेक्षणे॥' कर्काचार्योऽप्येवमाह। माधवीये चन्द्रिकायां चानुज्ञादि सर्व भवतीत्युक्तम्।

पाणिहोमे प्रश्नाद्याहापरार्के शौनकः- 'अनग्निश्चेदाज्यं गृहीत्वा 'भवत्खेवाग्नौकरणम्' इति पूर्ववत्तथास्तु' इति। आश्वलायनः - 'यदि पाणिष्वाचान्तेष्वन्यदन्नमनुदिशत्यन्नमन्ने सृष्टं दत्तमृध्नुकम्’ इति। पाणौ हुतं पात्रे निधाय विषैराचम्य भोजनार्थमन्ने परिविष्टे हुतशेषं पात्रेषु दद्यादित्यर्थः। सृष्टं–प्रभूतम्। नैमित्तिकं चेदमाचमनं, न हुतभक्षणनिमित्तम् ; 'अन्नं

नि॰ सिं॰ ४०

पाणितले दत्तं पूर्वमश्नन्त्यबुद्धयः। पितरस्तेन तृप्यन्ति शेषान्नं न लभन्ति ते॥ यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम्। एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते॥ इति बह्वृचपरिशिष्टात्। हेमाद्रावप्याचमने हेत्वर्थवाद उक्तः - 'पाण्यास्यो हि द्विजः स्मृतः' इति। भाष्ये त्वाचान्तेषु भक्षितेषु, चमु भक्षणे भक्षणोत्तरं च नाचमनं अग्निसाम्यात्। पूर्वनिषेधस्तु सपिण्डीकरणे ज्ञेयः; ददातिचोदितत्वात् न त्वत्र जुहोतिचोदितत्वादित्युक्तम्, न त्वेतद्बहुसम्मतम्। यत्तु - बौधायनेन 'तस्मिस्तु प्राशिते दद्याद्यदन्नं प्रकृतं भवेत्।' इति भक्षणमुक्तं, तत् तच्छाखीयानामेवेति हेमाद्रिः। तत्रैव यमः - 'पित्र्यपाणिहुताच्छेषं पितृपात्रेषु निक्षिपेत्। अग्नौकरणशेषं तु न दद्याद्वैश्वदेविके॥' एतदग्निहोमेऽपि समम्। कर्कस्तु- सूत्रे हुतशेषं दत्त्वेत्यविशेषात्सर्वविप्रेषु दद्यादित्याह। तत्रैव वृद्धवसिष्ठः-‘पित्र्यविप्रकरे हुत्वा शेषं पात्रेषु निक्षिपेत्। पिण्डेभ्यः शेषयेत्किञ्चिन्न दद्याद्वैश्वदेविके॥'

अथापस्तम्बानां सूत्रे – 'उद्भियतामग्ग्नौ च क्रियतामित्यामन्त्र्यते काममुद्रियतां कामग्नौ च क्रियतामित्यतिसृष्ट उद्धरेजुहुयाच्च'। नष्टाग्निविधुरादेविंशेषो बृहन्नारदीये' नष्टाग्निर्दूरभार्यश्च पार्वणे समुपस्थिते। सन्धायाग्निं ततो होमं कृत्वा तं विसृजेत्पुनः॥' अयाश्चेति तत्कालेऽग्नि सन्धाय हुत्वा त्यजेदित्यर्थः। एतदापस्तम्बानामेव। पाणिहोमस्तु छन्दोगादीनाम्। विश्वप्रकाशेऽपि- 'साग्निरौपासनेऽनग्निर्रग्नौ कुर्वीत लौकिके। पाणौ होमं प्रशंसन्ति न त्वापस्तम्बशाखिनाम्॥ स्नातका विधुरा वा स्युर्यदि वा ब्रह्मचारिणः। अग्नौकरणहोमं तु कुर्युस्ते लौकिकेऽनले॥ अयाश्चाग्ने मनोज्योतिरुद्बुध्य व्याहृतीर्हुनेत्॥' ततोऽनुज्ञातोऽग्नीन्धनाद्याज्यभागान्ते यन्मे मातेत्याद्यैर्जुहुयात्। तत्र सप्तान्नाहुतयः षडाज्यस्येति त्रयोदश, व्यत्ययो वा। यथा - ' यन्मे माता प्रलुलोभ तन्मे रेतः पिता वृङ्क्तां यास्तिष्ठन्ति' इति द्वाभ्याममुष्मै स्वाहेति पितुर्नाम्ना द्वौ होमौ। यन्मे पितामही प्रलुलोभ तन्मे रेतः पितामहो वृङ्क्तामन्तर्दधे ऋतुभिरिति तन्नाम्ना पितामहाय द्वौ। यन्मे प्रपितामही प्रलुलोभ तन्मे रेतः प्रपितामहो वृतामन्तर्दधे ऋतुभिरिति तन्नाम्ना प्रपितामहाय द्वौ। मातामहेषु तूहः- 'यन्मे मातामही प्रलुलोभ तन्मे रेतो मातामहो वृङ्क्ताम्। अन्यं मातामहाद्वृद्धम्। इत्यादौ। यन्मे मातुः पितामही प्रलुलोभ तन्मे रेतो मातुः पितामहो वृङ्क्ताम्। अन्यं मातुः पितामहाद्वृद्धम्। यन्मे मातुः प्रपितामही प्रलुलोभ तन्मे रेतो मातुः प्रपितामहो वृङ्क्ताम्। अन्यं मातुः प्रपितामहाद्वृद्धम्। सर्वत्राप्यमुष्या इत्यत्र ङेन्तं तत्तन्नाम योज्यम्। तद् गृह्यसङ्ग्रहे- 'योज्यः पित्रादिशब्दानां स्थाने मातामहादिकः। अन्नहोमे तथा स्पर्शे जलपिण्डादिदानके॥ यन्मे मातामहीत्यादि तत्रोदाहरणं भवेत्॥' ततो ये चेत्येकान्नाहुतिः। ततः स्वाहा पित्र्ये इत्याद्यैराज्यं हुत्वा स्विष्टकृतं हुत्वा सर्वभक्ष्यं किञ्चिदादायोदगुष्णं भस्मापोह्य तत्र तूष्णीं स्वाहाकारेण जुहोति। परिषेचनान्तं स्थालीपाकवत्।

अयमग्नौकरणहोमो मासिकश्राद्ध एव। 'तच्च स्मातग्यभावे न कार्यम्' इति केचित्। कार्यमेवेति बहवः। अत एव सर्वाधानिनो होमवर्जं मासिकश्राद्धमुक्तं सुदर्शनभाष्ये। महालये तद्वदित्येके, प्रकरणान्तरत्वात्। कर्मान्तरत्वेन स्मार्तपार्वणवत्कार्यम् इति त्वस्मद्गुरवः। आब्दिकादिषु तु स्मार्तपार्वणविधिरेव। एवं मातृवार्षिकादिषु। मासिश्राद्धविकृतावष्टकायां मातृश्राद्धे वैकृतहोमेन प्राकृतहोमबाधः। 'अन्वष्टकासु मातृश्राद्धं न ' इति भाष्ये। तत्रापि श्राद्धान्तरवत् क्रियमाणे तु यन्मे मातेत्यादौ गुणत्वेऽपि मातृप्राधान्यं विवक्षितम्; ‘मासिश्राद्धेन कल्पो व्याख्यातः' इति सूत्रात्। 'आग्नेय्येव मनोता कार्या' इति वचनादग्निशब्दस्यैव वैकृतदेवताभिधायित्वम्। तेनामुष्मा इत्यत्र 'अमुकशर्मभ्यां पितृभ्याम्' इत्याद्यूहः कार्यः। 'तच्च मासिश्राद्धं जीवत्पिन्त्रादीनां व्युत्क्रममृतपित्रादीनां च कार्यम्' इत्युक्तं सुदर्शनभाष्ये। तत्प्रकारस्तु वक्ष्यते। मातापित्रोद्वित्वादौ तु नोहः, 'तस्मादृचं नोहेत्' इति निषेधात्; प्रकृतावूहाभावाच्च पैत्नीं सन्नह्येतिवत्। उपदेशमते तूहः। यथा- 'यन्मे मातरौ प्रलुलोभतुश्चरत्यावननुव्रते' इत्याद्यस्मत्पितृकृतमासिश्राद्धनिर्णये ज्ञेयमिति दिक्। अन्यत्प्राग्वत्॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬