🕉️ 24 November 2026, Tuesday · 08:41:19 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 62/87
इस पृष्ठ में: परिवेषणम्

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

परिवेषणम्

अथ परिवेषणम्। तच्चोपवीत्येवाज्येन देवपूर्वं 'आमासुपक्वम्' इति पात्राण्युपस्तीर्य कुर्यात् इति हेमाद्रिः। भारते दानधर्मेऽपि - 'आज्याहुतिं विना नैव यत्किञ्चित् परिविष्यते। दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः॥' तत्रैव शौनकः - 'विधिना देवपूर्वं तु परिवेषणमाचरेत्।' तत्रैव धर्मः- ‘फलस्यानन्तता प्रोक्ता स्वयं च परिवेषणे।' तत्रैव वायु - भविष्ययोः - 'भार्यया श्राद्धकाले तु प्रशस्तं परिवेषणम्।' ब्रह्माण्डे'नापवित्रेण नैकेन हस्तेन न विना कुशम्। नायसे नायसेनैव श्राद्धे तु परिवेषयेत्॥' वसिष्ठः - 'आयसेन तु पात्रेण यदन्नं सप्रदीयते। भोक्ता विष्ठासमं भुङ्क्ते दाता च नरकं व्रजेत्॥' पैठीनसिः- 'सीसकायसरीतिपात्राण्ययज्ञियानि।' तत्रैव हारीतः- 'सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण वा। दत्तमक्षय्यतां याति फल्गुपात्रेण वा पुनः॥' कार्ष्णाजिनिः- 'दर्व्या देयं घृतं चान्नं समस्तव्यञ्जनानि च। उदकं चैव पक्वान्नं नो दर्व्या तु कदाचन॥' यमः - 'पङ्क्त्यां विषमदातुश्च निष्कृतिर्नैव विद्यते।' पृथ्वीचन्द्रोदयेपराशरः- 'सर्वदा च तिला ग्राह्याः पितृकृत्ये विशेषतः। भोज्यपात्रे तिलान् दृष्ट्वा निराशाः पितरो गताः॥' चन्द्रिकायां वृद्धशातातपः- 'हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनादयः। पितॄणां नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम्॥ ( तस्मादन्तरितं कुर्यात्पार्णेनाथ तृणेन वा॥ ) घृतपात्रे विशेषो ग्रन्थान्तरे- 'ओदने परमान्ने च पात्रमासाद्य मुग्धधीः। घृतेन पूरयेत्पात्रं तद्घृतं रुधिरं भवेत्॥' घृतादिपात्राणि भूमौ स्थापयेन्न भोजनपात्रे इति मदनरत्ने। सङ्ग्रहे- 'हस्तदत्तं तु नाश्नीयाल्लवणव्यञ्जनादिकम्। अपक्वं तैलपक्वं च हस्तेनैव प्रदीयते॥

पात्रालम्भनमुक्तं चतुर्विंशतिमते- 'उत्तानं दक्षिणं सव्यं नीचं पात्राण्युपस्पृशेत्।' याज्ञवल्क्यः :- 'दत्त्वाऽन्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम्। कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत्॥' बौधायनः- 'विप्राङ्गुष्ठेनानखेनानुदिशति', 'पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽमृतेऽमृतं जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा मे पितॄणां क्षेष्ठा अमुत्रामुष्मिल्ँ लोके' इति। अद्य जुहोम्यग्रे स्वाहाशब्दः कातीयसूत्रे उक्तः। पैत्रे स्वधाशब्दः। अङ्गुष्ठे विशेषमाह हेमाद्रौ धौम्यः- 'परिवृत्य नचाङ्गुष्ठं द्विजस्यान्ने निवेशयेत्।' तथा 'उत्तानेन तु हस्तेन द्विजाङ्गुष्ठनिवेशनम्। यः करोति द्विजो मोहात्तद्वै रक्षांसि भुञ्जते॥' तत्रैव यमः - 'विष्णो हव्यं च कव्यं च श्याद्रक्षस्व च क्रमात्।' दैवे पित्र्ये चेत्यर्थः। तत्रैवात्रिः - 'सम्बन्धनामगोत्राणि इदमन्नं ततः स्वधा। पितृक्रमादुदीर्येति स्वसत्तां विनिवर्तयेत्॥ हस्तेनाभुक्तमन्नाद्यमिदमन्नमुदीरयेत्॥' अत्र 'अन्नदाने चतुर्थी स्यात्' इत्यादिविशेषाः पूर्वमुक्ताः। अत्र पूर्वोक्तमत्रान्ते 'पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवा देवता इदमन्नं सपरिकरं हव्यम्। अयं ब्राह्मणस्त्वाहवनीयार्थे दत्तं दास्यमानं चातृप्तेः गयेयं भूः गदाधरो भोक्ता इदमन्नं ब्रह्म सौवर्णपात्रस्थमन्नमक्षय्यवटच्छायास्थम् अमुकेभ्यो विश्वेभ्यो देवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चातृप्तेः स्वाहा नमो न मम' इति बह्वृचपरिशिष्टहेमाद्र्याद्यनुमतः प्रयोगः। एवं पित्र्ये अमुकगोत्रवसुरूपादि तत्तन्नाम ज्ञेयम्। ततो 'ये देवासः' इति दैवे, 'ये चेह पितरः' इति पित्र्ये केचिज्जपन्ति।

ततोऽच्छिद्रं वाचयेत्। तत्रैव प्रचेताः : - 'आपोशनकरे विप्रे सङ्कल्पाच्छिद्रभाषणात्। निराशाः पितरो यान्ति देवैः सह न संशयः॥' पारस्करः- 'सङ्कल्प्य पितृदेवेभ्यः सावित्रीमधुमज्जपः। श्राद्धं निवेद्यापोशनं जुषप्रैषोऽथ भोजनम्॥' निवेद्येति ब्रह्मार्पणं कृत्वेत्यर्थः। अत एव बृहन्नारदीयेऽन्नत्यागमुक्त्वोक्तम्- 'दत्तं हविश्च तत्कर्म विष्णवे वै समर्पयेत्।' इति। यत्तु - कृत्यरत्ने काष्णाजिनिः 'अपसव्येन कर्तव्यं पितृकृत्यमशेषतः। अन्नदानादृते सर्वमेवं मातामहेष्वपि॥' इति, तदप्येतत्परम्। तत्र 'ब्रह्मार्पणं ब्रह्म हविः', 'हरिर्दाता हरिर्मोक्ता', 'चतुर्भिश्च चतुर्भिश्च' इति केचित् पठन्ति। धर्मप्रदीपे- 'ततोऽन्नं पितृदेवेभ्यः सङ्कल्प्य च यथाविधि। दत्तं यद्दास्यमानं च आतृप्तेर्न ममेति च॥' तथा 'श्राद्धीयान्नस्य सङ्कल्पो भूमावेव प्रदीयते। हस्तेषु दीयमानं तु पितॄणां नोपतिष्ठते॥ वैश्वदेवस्य वामे तु पितृपात्रस्य दक्षिणे। सङ्कल्पोदकदानं स्यान्नित्यश्राद्धे यथारुचि॥' प्रचेता :- 'आपोशनं प्रदायाथ सावित्रीं त्रिर्जपेदथ। मधुवाता इति तृचं मध्वित्येतन्त्रिकं तथा॥ मिताक्षरायां पारस्करः-'सङ्कल्प्य पितृदेवेभ्यः सावित्रीमधुमज्जपः। श्राद्धं निवेद्यापोशनं जुषप्रैषोऽथ भोजनम्॥ गायत्रीं त्रिःसकृद्वापि जपेद्व्याहृतिपूर्विकाम्। मधुवाता इति तृचं मध्वित्येतन्त्रिकं तथा॥' याज्ञवल्क्यः 'सव्याहृतिं च गायत्रीं मधुवाता इति त्र्यृचम्। जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः॥' यथासुखं जुषध्वमिति वाच्यम्। अत्रिः - 'असङ्कल्पितमन्नाद्यं पाणिभ्यां यद्युपस्पृशेत्। अभोज्यं तद्भवेदन्नं पितॄणां नोपतिष्ठते॥ अन्नं दत्तं न गृह्णीयाद्यावत्तोयं न सम्पिबेत्॥' आपोशने विशेषमाह स्मृतिसमुच्चये- 'आपोशनं वामभागे सुरापानसमं भवेत् दक्षभागे तु यः कुर्यात्सोमपानसमं भवेत्॥' तथा 'पुनरापूर्यापोशनं सुरापानसमं भवेत्। हेमाद्रावत्रिः - 'दत्ते वाप्यथवाऽदत्ते भूमौ यो निक्षिपेद्बलिम्। तदन्नं निष्फलं याति निराशैः पितृभिर्गतैः॥’ केचिदाज्येन कुर्वन्ति, - तन्न; 'पायसेन तथाज्येन माषान्नेन तथैव चन कुर्याद्बलिदानं तु ओदनेन प्रकल्पयेत्॥' इति स्मृतिसारे निषेधात्। शङ्खः - 'श्राद्धे नियुक्तान् भुञ्जानान्न पृच्छेल्लवणादि तु। उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः॥'

कात्यायनः- 'अश्नुवत्सु जपेत्सव्याहृतिकां गायत्रीं सकृत्रिर्वा राक्षोग्घीः पौरुषं सूक्तमप्रतिरथम्' इति। अभिश्रवणीय- हेमाद्रौ सौरपुराणे - 'ऐन्द्रं च पौरुषं सूक्तं श्रावये ब्राह्मणांस्ततः।' मात्स्यपाद्मयोः- मन्त्राः। 'ब्रह्मविष्ण्वर्करुद्राणां स्तोत्राणि विविधानि च। इन्द्रेशसोमसूक्तानि पावमानीश्च शक्तितः॥ मण्डलं ब्राह्मणं तद्वत् प्रीतिकारि च यत्पुनः। अभावे सर्वविद्यानां गायत्रीजपमाचरेत्॥' पृथ्वीचन्द्रोदये ब्राह्मे'वीणां वंशध्वनिं चाथ विप्रेभ्यः सन्निवेदयेत्। जपेच्च पौरुषं सूक्तं नाचिकेतत्रयं तथा॥ त्रिमधु त्रिसुपर्णं च पावमानीर्यजूंषि च॥' हेमाद्रावत्रिः - 'हुङ्कारेणापि यो ब्रूयाद्धस्ताद्वापि वदेद्गुणान्। भूतलाच्चोद्धरेत्पात्रं मुञ्चेद्धस्तेन वा पिबेत्॥ प्रौढपादो बहिःकच्छो बहिर्जानुकरोऽपि वा। अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः॥ पीतावशिष्टतोयानि पुनरुद्धृत्य वा पिबेत्। खादितार्धात् पुनः खादेन्मोदकानि फलानि च॥ मुखेन वा धमेदन्नं निष्ठीवेद्भाजनेऽपि वा। इत्थमश्नन् द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम्॥' जाबालिः- 'इष्टमुष्णं हविष्यं च दद्यादन्नं शनैः शनैः।' वृद्धशातातपः- 'अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम्। न याचते द्विजो मूढः स भवेत् पितृघातकः॥' यत्तु - यमः 'श्राद्धे द्विजो नैव दद्यान्न याचेन्नैव दापयेत्।' इति, तद्दत्तसम्पादितवस्तुविषयमिति हेमाद्रिः। हारीतः - 'ऊर्ध्वपाणिश्च विहसन् सक्रोधो विस्मयान्वितः। भुग्नपृष्ठश्च यद्भुङ्क्ते न तत् प्रीणाति वै पितॄन्॥' प्रचेताः - 'न स्पृशेद्वामहस्तेन भुञ्जानोऽन्नं कदाचन। न पादौ न शिरो बस्तिं न पदा भाजनं स्पृशेत्॥' शङ्खः - 'श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत्। तदन्नमत्यजन् भुक्त्वा गायत्र्यष्टशतं जपेत्॥' उशनाः- 'भोजनं तु न निःशेषं कुर्यात् प्राज्ञः कथञ्चन। अन्यत्र दध्नः क्षीराद्वा क्षौद्रात्सक्तुभ्य एव च॥' ब्राह्मे 'न चाश्रु पातयेज्जातु न शुष्कां गिरमीरयेत्। न चोद्वीक्षेत भुञ्जानान्न च कुर्वीत मत्सरम्॥' यमः - 'स्वाध्यायं श्रावयेत्सम्यग्धर्मशास्त्राणि चैव हि॥' प्रचेताः - 'भुञ्जानेषु तु विप्रेषु ऋग्यजुःसामलक्षणम्। जपेदभिमुखो भूत्वा पित्र्यं चैव विशेषतः॥ यजूंषि चैव रुद्रं च राक्षोघ्नीऋच एव च।' राक्षोघ्नीःकृणुष्व रक्षोहणमित्याद्याः। तत्रैव निगमः - 'भुजत्सु जपेत् पावमानीरुदीरताम्मध्वन्नवतीश्च॥' अन्नवत्यः पितुन्नुस्तोषमिति। पृथ्वीचन्द्रोदये भरद्वाजः - 'भुञ्जानेषु तु विप्रेषु प्रमादात्स्रवते गुदम्। पादकृच्छ्रं ततः कृत्वा अन्यं विप्रं नियोजयेत्॥' क्षणपाद्यादि दत्त्वेत्यर्थः।

विप्रवमने तत्रैव दक्षः- 'निमन्त्रितस्तु यः श्राद्धे भोजने मुखनिःसृते। तदैव होमं कुर्वीत स्वाग्नौ विप्रः समाहितः॥ प्राणादिपञ्चभिर्मन्त्रैर्यावद्वात्रिंशसङ्ख्यया । ब्राह्मणस्तु ततः कृत्वा घृतप्राशनमाचरेत्॥' ऋग्विधाने तु - 'इन्द्रायसामसूक्तेन श्राद्धविघ्नो यदा भवेत्।अग्न्यादिभिर्भोजनेन श्राद्धं सम्पूर्णमेव हि॥' इत्युक्तम्। अग्न्यादिभिरिति लौकिकाग्निस्थापनचरुनिर्वापाद्याज्यभागान्ते पितृनामगोत्रपूर्वमग्नौ पितॄनावाह्य सम्पूज्यान्नत्यागं कृत्वा प्राणादिभिर्द्वात्रिंशदाहुतीर्हुनेदित्यर्थः। भोजनेन–पुनःश्राद्धेन। तेन होमः पुनः श्राद्धं चेति पक्षद्वयमुक्तम्। सूक्तजपस्तूभयानुगतः। स्मृतिसङ्ग्रहे- 'प्राधान्यं पिण्डदानस्य भोजनस्य तदङ्गता। अतो भुक्तिक्रियाहानौ श्राद्धावृत्तिं न मन्वते॥ 'पिण्डदानोत्तरं वान्तौ होम एव नावृत्तिः, पिण्डदानात् प्राग्वान्तौ तद्दिने उपवासं कृत्वा परेद्युः पुनः श्राद्धं कार्यमित्यर्थः। तत्रैव 'श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो वमते यदि। लौकिकाग्निं प्रतिष्ठाप्य अर्चयेच्च हुताशनम्॥' तथा- 'एक एव यदा विप्रो भोजने छर्दितो यदि। तदैवाग्निं समाधाय होमं कुर्याद्यथाविधि॥' द्वितीयपक्षे ऋग्विधाने- 'भोजनोपक्रमादूर्ध्व प्रक्रमात् पूर्वतो यदि। श्राद्धविघ्ने पुनः कार्य जपहोमौ न तृप्तिदौ॥' स्मृतिसङ्ग्रहे - 'अकृते पिण्डदाने तु भुञ्जानो ब्राह्मणो वमेत्। पुनःपाकात्तु कर्तव्यं पिण्डदानं यथाविधि॥' पिण्डदानं = श्राद्धम् ; 'अकृते पिण्डदाने तु पिता यदि वमेत्तदा। पुनः पाकं प्रकुर्वीत श्राद्धं कुर्याद्यथाविधि॥' इति तत्रैवोक्तेः। तथा—‘पित्रर्थानां त्रयाणां च पिता च वमते यदि। तद्दिने चोपवासः स्यात्पुनः श्राद्धं परेऽहनि॥ वमने वा विरेके वा तद्दिनं परिवर्जयेत्॥ - एषु वचनेषु मूलं चिन्त्यम्। इदं मासिकाब्दिकविषयम्। दर्शादौ तु वान्तावामेन तदैव कार्यम्; 'श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम्। अमावास्यादिनियतं माससंवत्सरादृते॥” इति मरीचिस्मृतेः। श्राद्धे पिण्डदानमेव प्रधानमिति कर्काचार्याः। तन्मते दक्षोक्तो होम एव नावृत्तिः। विप्रभोजनमिति मेधातिथिः। भोजनपिण्डदानाग्नौकरणानीति कपर्दिधूर्तस्वामि-हेमाद्र्यादयः। तन्मते पूर्वोक्तो निर्णयः। अन्नत्यागमात्रं प्रधानम्। भोजनं तु प्रतिपत्तिरूपमङ्गम्। अतो वान्तौ तद्धानेऽपि नावृत्तिरिति गौड - मैथिलादयः, तन्न; श्राद्धस्य यागदानोभयरूपत्वात्सम्पूर्णदानाभावात् भोजनस्याङ्गत्वेऽपि सोमवमने इव नैमित्तिकविधानमिति युक्तं प्रतीमः।

अत्रेदं तत्त्वम् - वैश्वदेविकस्य वमने होम एव, नावृत्तिः; अङ्गत्वात्। तच्च रक्षार्थत्वात् 'इष्टिश्राद्धे क्रतूदक्षौ' इत्यादिस्मृतेश्च। तत्र जयान् जुहुयादितिवत्। पितामहादेरपि तथा। पितेत्युक्तेरिति केचित्। तस्यापि प्रधानत्वात्पितृवदिति तु युक्तम्। सपिण्डीकरणादौ वार्षिकवत्। ‘सपिण्डीकरणादीनि यानि श्राद्धानि षोडश। तत्र पिण्डप्रधानत्वं प्रेतत्वविनिवर्तकम्॥' इति स्मृतेः। महकोद्दिष्टादौ तूभयप्राधान्यादावृत्तिरेव, 'एक एव द्विजो भोज्यः पिण्डोऽप्येको विधीयते।' इति स्मृतेः। वृद्धिसङ्कल्पनित्यश्राद्धादौ तु भोजनप्राधान्याद्वान्तावावृत्तिरेव; 'वृद्धिश्राद्धे विकल्पेन पिण्डदानं बुधैः स्मृतम्। नित्यश्राद्धमदैवं स्यात्पिण्डदानविवर्जितम्॥' इति स्मृतेः, 'भुक्तिक्रियायाः प्राधान्यं श्राद्धे सङ्कल्पसञ्ज्ञके। तत्रैव पित्र्यविप्रस्य तूपघाते पुनः क्रिया॥' इति सङ्ग्रहोक्तेश्च। मघादावप्येवम्। तीर्थमहालयादौ दर्शवदित्याशार्काद्यालोचनेन प्रतीमः।

आश्वलायनः - 'तृप्तान् ज्ञात्वा मधुमतीः श्रावयेदक्षन्नमीमदन्तेति च सम्पन्नमिति पृष्ट्वा यद्यदन्नमुपभुक्तं तत्तत्स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेदभिमतेऽनुमते वा' इति। अत्र गायत्री मध्विति त्रिकजपोऽपि ज्ञेयः; 'तृप्तान्बुध्वाऽन्नमादाय सतिलं पूर्ववज्जपेत्।' इति प्रचेतसोक्तेः। व्यासः- 'तृप्ताः स्थेति तु पृष्टास्ते ब्रूयुस्तृप्ताः स्म इत्यथ। अभिमते विषैः स्वीकर्तुमिष्टे।' शौनकोऽपि - 'अन्नशेषैश्च किं कार्यमिति पृच्छेत तांस्ततः। ते इष्टैः सह भोक्तव्यमिति प्रत्युक्तिपूर्वकम्॥ प्ररेद्युः सकलं तस्मै स्वीकुर्युर्वा यथारुचि॥' श्राद्धविशेषे प्रश्नभेदमाह हेमाद्रौ विष्णुः- 'पित्र्ये स्वदितमिति, गोष्ठ्यां सुश्रुतं सम्पन्नमिति, अभ्युदये दैवे रोचते इति, आयुष्यमिति स्वैरिषु'। स्वैरम् = इच्छाश्राद्धम्।

याज्ञवल्क्यः - 'अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च। तदन्नं प्रकिरेन्द्भूमौ दद्यादापः सकृत्सकृत्॥' इदं चात्र विकिरदानमन्यशाखिनाम्। आश्वलायनानां तु पिण्डान्त एव सूत्रकृतोक्तम्। कात्यायनस्तु विकिरोत्तरं गायत्र्यादिजपं तृप्तिप्रश्नं चाह। हेमाद्रौ देवलः- 'ततः सर्वाशनं पात्रे गृहीत्वा विविधं बुधः। तेषामुच्छेषणस्थाने विकिरं भुवि निक्षिपेत्'। माधवीये प्रचेताः - सार्ववर्णिकमादाय ये अग्नीति भुवि क्षिपेत्।' स च कुशे कार्यः; 'दर्भेषु विकिरश्च यः' इत्युक्तेः। मन्त्रः - कातीयः; 'अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम। भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम्॥' इति। अन्ये तु- 'असोमपाश्च ये देवा यज्ञभागविवर्जिताः। तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम्॥” इति हेमाद्रौ गोभिलोक्तेन दैवे, 'असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः। दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम्॥' इत्यग्निपुराणोक्तेन पित्र्येऽन्नं विकीर्य, 'ये अग्निदग्धाः' इत्युच्छिष्टपिण्डं कुशोपरि पृथग्दद्यादित्याहुः। पृथ्वीचन्द्रोदयेऽप्येवम्। ब्राह्मे–‘ततः प्रक्षाल्य हस्तौ च द्विराचम्य हरिं स्मरेत्।' माधवीये गौतमः - विकिरमुच्छिष्टैः प्रतिपादयेत्।' हेमाद्रौ व्यासः- 'उच्छिष्टैरेव विकिरं सदैव प्रतिपादयेत्॥' भृगुः - ‘पिण्डवत्प्रतिपत्तिः स्याद्विकिरस्येति तौल्वलिः।' श्राद्धकारिकायाम्- 'यजमानस्य दासादीनुद्दिश्य द्विजसत्तम। तस्मादन्नं त्यजेद्भूमौ वामभागेषु पैतृके॥' मनुः- 'उच्छेषणं भूमिगतमजिह्मस्याशठस्य च। दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते॥'

विष्णुः–‘उदङ्मुखेष्वाचमनमादौ दद्यात्, ततः प्राङ्मुखेषु'। पित्र्ये दैवे चेत्यर्थः। शातातपः- 'विश्वेदेवनिविष्टानां चरमं हस्तधावनम्।' हेमाद्रौ वाराहे- 'हस्तं प्रक्षाल्य यश्चापः पिबेद्भुक्त्वा द्विजः सदा। तदन्नमसुरैर्भुक्तं निराशाः पितरो गताः॥' मरीचिः- 'हस्तं प्रक्षाल्य गण्डूषं यः पिवेदविचक्षणः। आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते।' तत्रैव सङ्ग्रहे–‘पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत्। हस्तादीन् क्षालयेद्विद्वाञ्छरा वादौ तु कुत्रचित्॥' व्यासः- 'ताम्बूलोद्गिरणं चैव गण्डूषोद्गिरणं तथा। कांस्यपात्रे तथा ताम्रे न कुर्वीत कदाचन॥ उष्णोदकैर्धान्यचूर्णैः करौ श्मश्रूणि शोधयेत्॥'

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬