🕉️ 24 November 2026, Tuesday · 08:07:49 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 63/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

पिण्डदानम्

अथ पिण्डदानम्। तच्चार्चनोत्तरमग्नौकरणोत्तरं भोजनोत्तरं विकिरोत्तरं स्वधावाचनोत्तरं विप्रविसर्जनोत्तरं वेति हेमाद्रौ स्मृतिषु पक्षा उक्ताः। तेषां शाखाभेदेन व्यवस्था। 'प्रेतश्राद्वेषु पूर्वमन्येषु भोजनोत्तरम्' इति चन्द्रिका-माधवौ। सर्वत्र भोजनोत्तरमिति बहवः। आश्वलायनः- 'भुक्तवत्स्वनाचान्तेषु पिण्डान्निदध्यादाचान्तेष्वेके' भुक्तवत्स्विति पूर्वनिषेधार्थम्। साग्निरतिप्रणीतसमीपे। अनग्निर्द्विजसमीपे। हेमाद्रौ जातूकर्ण्यः-

अत्रैवं व्यवस्था पिण्डपितृयज्ञेन व्यतिषङ्गपक्षे, साग्नेरपि व्यतिपङ्गासत्त्वे एवैतदिति ज्ञॆयम्। 'हुत्वैवमग्निं पिण्डानां सन्निधौ तदनन्तरम्। पक्वान्नेन बलिं तेभ्यः पिण्डेभ्यो दापयेद् बुधः॥' इति देवलेन पिण्डसमीप एव होमविधानादग्निसमीपे पिण्डदानं विहितम्। निरग्निकस्य तु विप्रसमीप एवेति भावः।

'व्याममात्रं समुत्सृज्य पिण्डांस्तत्र प्रदापयेत्।' प्रसारितभुजान्तरं = व्यामः। सङ्कटे तु व्यासः -'अरत्रिमात्रमुत्सृज्य' इति। यत्तु-तत्रैव 'सिकताभिर्मृदा वापि वेदी दक्षिणनिम्नगा।' इति, - तदन्यशाखिपरम्। देवलः- 'ततस्तैरभ्यनुज्ञातो दक्षिणां दिशमेत्य च।' चन्द्रिकायाम् - 'पिण्डनिर्वपणं कार्यं कुशाभावे विचक्षणैः। काशेषु राजदूर्वासु पवित्रे परमे हिते॥' आश्वलायनः - 'स्फ्येन रेखामुल्लिखेत्', 'अपहता असुरा रक्षांसि वेदिषदः' इति, तामभ्युक्ष्य सकृदाच्छिन्नैर्दर्भैरवस्तीर्य प्राचीनावीती रेखां त्रिरुदकेनोपनयेच्छुन्धन्तां पितरः, शुन्धन्तां पितामहाः, शुन्धन्तां प्रपितामहा इति तस्यां पिण्डान्निपृणीयात्पराचीनपाणिः 'पित्रे पितामहाय प्रपितामहायैतत्तेऽसौ ये च त्वामत्रानु' इति। हेमाद्रौ पारस्करः - 'कराभ्यामुल्लिखेत् स्फ्येन कुशैर्वापि महीं द्विजः।' बह्वृचानां करेणैव लेखा चाग्नेय्यभिमुखेति वृत्तिः। 'दक्षिणाप्राचीं वेदिमुद्धृत्य' इत्यापस्तम्बोक्तेश्च। देवलः - 'आवाहयित्वा दर्भाग्रैस्तेषां स्थानानि कल्पयेत्। तेष्वासीनेषु पात्रेण प्रयच्छेत्सतिलोदकम्॥' पराचीनेन=निम्नपितृतीर्थेन। वायवीये- 'मधुसर्पिस्तिलयुतांस्त्रीन्पिण्डान्निर्वपेद्बुधः।' त्रिस्थलीसेतौ - 'तिलमन्नं च पानीयं धूपं दीपं पयस्तथा। मधु सर्पिः खण्डयुक्तं पिण्डमष्टाङ्गमुच्यते॥' याज्ञवल्क्यः- 'सर्वमन्नमुपादाय सतिलं दक्षिणामुखः। उच्छिष्टसन्निधौ पिण्डान् दद्याद्वै पितृयज्ञवत्॥' केचित् - पिण्डेषु माषान् वर्जयन्ति; 'माषाः श्राद्धेषु वै ग्राह्या वर्ज्याश्चैवाग्निपिण्डयोः। ब्राह्मणेषु यथा मद्यं तथा माषोऽग्निपिण्डयोः॥' इति स्मृतिसारात्, 'भाषान् सर्वत्र वै दद्यात् पिण्डेऽग्नौ च विवर्जयेत्' इति स्मृतेश्च। - अत्र मूलं चिन्त्यम्। हेमाद्रावपि 'सर्व'शब्दस्य प्रकृतार्थत्वात्सर्वान्नग्रहणमुक्तम्। 'अत्र शेषमन्नमनुज्ञाप्य सर्वमेकत्रोद्धृत्योच्छिष्टसमीपे दर्भेषु त्रीस्त्रीन् पिण्डान् दद्यात्' इति गोभिलसूत्रे। 'सर्वस्मात्प्रकृतादन्नात् पिण्डान्मधुतिलान्वितान्।' इति च शेषनियमात्तदभावे पिण्डनिवृत्तिः प्राप्नोतीति मैथिल-वाचस्पती, तन्न; तुषोपवापवत् परप्रयुक्तद्रव्यवत्त्वेऽप्यर्थकर्मत्वाद्गुणानुरोधेन प्रधानत्यागाच्च शेषलोपेऽपि द्रव्यान्तरेण कार्यम्। अतो नेयं प्रतिपत्तिः, किन्तु प्रधानमित्युक्तं प्राक्। अन्यथा सपिण्डीकरणादौ संयोजनादेः प्रधानस्य लोपापत्तेरिति दिक्॥

पिण्डप्रमाणम्

अथ पिण्डप्रमाणम्। हेमाद्रावङ्गिराः 'कपित्थबिल्वमात्रान् वा पिण्डान् दद्याद्विधानतः। कुक्कुटाण्डप्रमाणान् वाऽऽमलकैर्बदरैः समान्॥' इति। तत्रैव धूम्रः - 'कपित्थस्य प्रमाणेन पिण्डान् दद्यात्समाहितः। तत्समं विकिरं दद्यात् पिण्डान्ते तु षडङ्गुले॥ अन्त्येष्टिपद्धतौ भट्टास्तु - 'एकोद्दिष्टे सपिण्डे तु कपित्थं तु विधीयते। नारिकेलप्रमाणं तु प्रत्यब्दे मासिके तथा॥ तीर्थे दर्शे च सम्प्राप्ते कुक्कुटाण्डप्रमाणतः। महालये गयाश्राद्धे कुर्यादामलकोपमम्॥' इत्याहुः। कलिकायामाचार्यः - 'यत्र स्युर्बहवः पिण्डास्तत्र

यथा 'पुरोडाशकपालेन तुषानुपवपति', 'कपालेषु श्रपयति' इति च श्रुतम्, तत्र पुरोडाशश्रपणवत् तुषोपवापोऽपि कपालस्य प्रयोजकः स्यात् तृतीयादर्शनात् इति प्राप्ते, पुरोडाशार्थं कपालमिति व्युत्पत्त्या पुरोडाशप्रयुक्तं कपालं तुषोपवापे चोद्यते, न च प्रयुक्ते पुनः प्रयुक्तिः सम्भवति, इति परप्रयुक्तत्वात्तुषोपवापे कपाळं प्रयोजकमिति कपाललोपे द्रव्यान्तरेण तुषोपवापः कार्यः, तद्वदिति भावः। नि॰ सिं॰ ४१

बिल्वफलोपमाः। यत्र चैको भवेत्पिण्डस्तत्र खर्जूरसन्निभः॥ प्रेतपिण्डस्तु दैर्घ्येण द्वादशाङ्गुल उच्यते॥' इति। वायवीये–'पत्नी पिण्डांस्तु मृद्गीयात् त्रिवर्गस्य सहायिनी॥' हेमाद्रौ लौगाक्षिः–'महालये गयायां च प्रेतश्राद्धे दशाहिके। पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्तयेत्॥' शाट्यायनिः – 'असावेतत्त इत्युक्त्वा तदन्ते च स्वधा नमः।' असावित्यत्र सम्बन्धरूपगोत्रादिविशिष्टं पित्रादिनाम सम्बुद्ध्यन्तमुक्त्वा पुनश्र्चतुर्थ्यन्तं तदन्तेऽयं पिण्ड इदमन्नं वा स्वधा नमो न ममेति वदेदिति हेमाद्रिः। पित्रादीनामज्ञाने त्वापस्तम्ब ः– 'यदि नामानि न विन्द्यात्स्वधा पितृभ्यः पृथिवीषद्भ्य इति प्रथमं पिण्डं दद्यात्, स्वधापितृभ्योऽन्तरिक्षसद्भ्य इति द्वितीयम्, स्वधापितृभ्यो दिविषद्भ्य इति तृतीयम्। एवं मातामहेषु मातृषु च।' बह्वृचानां तूक्तं प्राक्। कलिकायां स्मृतिः–'यावदेवोच्चरेन्मन्त्रं तावत्प्राणं निरोधयेत्।' येषां तु गृह्योक्ते दर्शे मातुः श्राद्धं पृथगुक्तं तेषां पितृभ्यः पश्र्चिमे मातृभ्यस्तत्पश्र्चिमे मातामहेभ्यः पिण्डादि देयमिति साङ्ख्यायनः। अस्मिन्पक्षे तत्पश्र्चिमे मातामहीभ्योऽपि दद्यादिति हेमाद्रिः। 'पूर्वासु पितृभ्यो दद्यादपरासु स्त्रीभ्यः' इति सूत्राच्च। एवं यत्र तीर्थमहालयादौ 'केचिदिच्छन्ति नारीणां पृथक्श्राद्धं महर्षयः।' इति चतुर्विंशतिमतात्, 'पित्रादिनवदैवत्यं तथा द्वादशदैवतम्।'इत्यग्निपुराणाच्च मातॄणां पृथगुक्तम्। यत्र वा – ‘आचार्यगुरुशिष्येभ्यः सखिज्ञातिभ्य एव च। तत्पत्नीभ्यश्च सर्वाभ्यस्तथैव च जलाञ्जलीन्॥ पिण्डांस्तेभ्यः सदा दद्यात्पृथग्भाद्रपदे नरः। तीर्थेषु चैव सर्वेषु माघमासे मघासु च॥” इति चतुर्विंशतिमते, 'दौहित्रपुत्रदाराश्र्च ये कनिष्ठाः सहोदराः। निःसन्ताना मृता ये च तेभ्योऽप्यत्र प्रदीयते॥' इति भविष्ये एकोद्दिष्टान्युक्तानि, तत्रापि तत्पश्र्चिमे पिण्डदानं ज्ञेयम्। येषां न पृथक् तैः सपत्नीकाः पित्रादयो वाच्याः; ‘'अन्वष्टकागयामातृश्राद्धं चैव मृतेऽहनि। एकोद्दिष्टं तथा मुक्त्वा स्त्रीषु नान्यत् पृथग्भवेत्॥' इति शङ्खोक्तेश्च।

मनुः– 'तेषु दर्भेषु तं हस्तं निमृजेल्लेपभागिनाम्।' हस्तलेपाभावेऽपि हस्तं निमृज्यादेवेति मेधातिथिः । विष्णुः – 'अत्र पितरो मादयध्वमिति दर्भमूले करावघर्षणम्।' कलिकायां सुमन्तुः–'एकोद्दिष्टेषु वर्षासु दर्भलेपो न विद्यते। सपिण्डीकरणादौ तु लेपः सर्वत्र शस्यते॥’ मनुः – 'आचम्योदक् परावृत्य त्रिरायम्य शनैरसून्। षड्ऋतूंश्र्च नमस्कुर्यात् पितॄनेव च मन्त्रवत्॥ उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः॥' त्रिः प्राणायामं कृत्वेति मेधातिथिः। अमन्त्रं प्राणान्निरुध्येति कर्काद्याः। मन्त्रवत् = 'वसन्ताय नमः’, ‘नमो वः पितरः' इत्याद्यैः। शेषं = पूर्वावनयनशेषम्। आश्र्वलायनः–'निपृताननुमन्त्रयेतात्र पितरो मादयध्वं यथाभागमावृषायध्वमिति सव्यावृदुदङावृत्म यथाशक्ति प्राणान्नासित्वाऽभिपर्यावृत्त्याऽमीमदन्त पितरो यथाभागमावृषायीषतेति चरोः प्राणभक्षं भक्षयेन्नित्यं निनयनम्' इति। 'नित्य' ग्रहणं शेषाभावेऽपि कुर्यादित्यर्थः। शौनकः– 'अथैषामत्र पितर इत्याद्येनानुमन्त्रणम्। अमीमदन्तेत्याद्येन मन्त्रेणाप्यनुमन्त्र्य तान्॥ पिण्डशिष्टचरोरन्नं किञ्चिदाघ्राय तत्त्यजेत्। प्रक्षाल्याचम्य शुन्धन्तामित्याद्यैरेव पूर्ववत्॥ मन्त्रैः पिण्डेषु पानीयं निषिञ्चेत् पितृतीर्थतः॥' व्याघ्रः- 'अद्भिः प्रक्षाल्य तत्पात्रं प्रतिपिण्डं तु पूर्ववत्। कृत्वाऽवनेजनं कुर्यात्पिण्डपात्रमधोमुखम्॥' - एतत्कातीयादीनाम्।

आचार्यः - 'ततः सम्यग् द्विराचम्य नीवीं विस्रस्य वाग्यतः।' आश्वलायनः- 'असावभ्यदङ्क्ष्वासावङ्क्ष्वेति पिण्डेष्वभ्यञ्जनाञ्जने वासो दद्याद्दशामूर्णास्तुकां वा पञ्चाशद्वर्षताया ऊर्ध्वं स्वं लोमैतद्वः पितरो वासो मानोतोऽन्यत् पितरो युङ्ध्वम्'। इति। श्राद्धचिन्तामणौ ब्राह्मे-'एतद्वः पितरो वास इति जल्पन् पृथक् पृथक्। अमुकामुकगोत्रैतत्तुभ्यं वासः पठेद्बुधः॥' - इदं कातीयानाम् ; 'एतद्व इति सूत्राणि प्रतिपिण्डम्' इति तत्सूत्रात्। हेमाद्रौ ब्राह्मे - ' श्रेष्ठमाोहुस्त्रैककुदमञ्जनं नित्यमेव हि। तैलं कृष्णतिलेभ्यश्च दद्यादभ्यञ्जनं हितम्॥' त्रैककुदं 'सुरमा' इति प्रसिद्धम्। अञ्जनप्राथम्यमापस्तम्बादिविषयम्। तत्रैव व्याघ्रः–'गन्धपुष्पाणि धूपं च दीपं च विनिवेदयेत्।' देवलः-'दक्षिणां सर्वभोगांश्च प्रतिपिण्डं प्रदापयेत्। भक्ष्याण्यपूषानिक्षूंश्च व्यञ्जनान्यशनानि च॥' तत्रैव शङ्खः-‘यत्किञ्चित् पच्यते गेहे भक्ष्यं भोज्यमगर्हितम्। अनिवेद्य न भोक्तव्यं पिण्डमूले कथञ्चन॥ एतत्सव्येनेति केचित्। युक्तं त्वपसव्येन। मनुः - 'अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समहितः।' ततः 'नमो वः पितर इषे' इत्यादिनोपस्थानम्। मात्स्ये- 'अथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत्। तिलपुष्पाक्षतान् पश्चादक्षय्योदकमेव च॥' अत्र दैवे सव्यं, पित्र्ये त्वपसव्यमिति कर्कः। परिभाषोक्तवचनात्सव्यमिति युक्तम्। अत्र 'शिवा आपः सन्तु, सौमनस्यमस्तु' इत्यादिप्रयोगो ज्ञेयः। मात्स्ये- 'दत्त्वाशीः प्रतिगृह्णीयाद्विजेभ्यः प्राङ्मुखो बुधः। अघोराः पितरः सन्तु सन्त्वित्युक्ते पुनर्द्विजैः॥ गोत्रं तथा वर्धतां नस्तथेत्युक्तः स तैः पुनः। दातारो नोऽभिवर्धन्तामन्नं चैवेत्युदीरयेत्। स्वस्तिवाचनकं कुर्यात्पिण्डानुद्धृत्य भक्तितः॥'

स्वस्तिवाचनात्प्राक्पात्रचालनं कार्यम्। हेमाद्रौ बृहस्पतिः - 'भाजनेषु च तिष्ठत्सु स्वस्ति कुर्वन्ति ये द्विजाः। तदन्नमसुरैर्भुक्तं निराशैः पितृभिर्गतैः॥' जातूकर्ण्यः - 'पात्राणि चालयेच्छ्राद्धे स्वयं शिष्योऽथ वा सुतः। न स्त्रीभिर्न च बालेन नासजात्या कथञ्चन॥' याज्ञवल्क्यः–'स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च।' तत्रैव वृद्धशातातपः - 'पितृणां नामगोत्रेण करे देयं तिलोदकम्। प्रत्येकं पितृतीर्थेन अक्षय्यमिदमस्त्विति॥' अत्र षष्ठी प्रागुक्ता। तत्रैव नागरखण्डे- 'उत्तानमर्घ्यपात्रं तु कृत्वा, दद्याच्च दक्षिणाम्। हिरण्यं देवतानां च पितॄणां रजतं तथा॥' बृहस्पतिः- 'तस्मात् पणं काकिणीं वा फलं पुष्पमथापि वा। प्रदद्याद्दक्षिणां यज्ञे तया स सफलो भवेत्॥' अत्र पित्रुद्देशेन दक्षिणादाने अपसव्यं विप्रोद्देशेन सव्यमिति माधवः। कलिकायामाचार्यः-'दद्याद्यज्ञोपवीत्येव ताम्बूलं दक्षिणां तथा।' अत्रिः - 'वदेच्च तांस्ततो विप्रान् पित्रादिभ्यः स्वधोच्यताम्।'

गोभिलः- 'अघोराः पितरः सन्त्वित्युक्ते स्वधां वाचयिष्य इति पृच्छति पितृभ्यः स्वधोच्यतामित्युक्तेऽस्तु स्वधेत्युच्यमाने धारां दद्यादूर्जं वहन्ती' इति। आपस्तम्बेन तु 'पुत्रान् पौत्रानभितर्पयन्ती' इत्यपि परिषेचने मन्त्र उक्तः।

आश्वलायनः - 'अथैतान् प्रवाहयेत्। परेतन पितरः सोम्यासो गम्भीरेभिः पथिधिः पूर्विणेभिः। विप्रविस- दत्त्वायास्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं नियच्छत॥' इति। मात्स्ये- 'वाजे वाजे इति र्जनम्। जपन् कुशाग्रेण विसर्जयेत्। प्रचेताः 'स्वस्तिवाच्यं ततः कृत्वा पितृपूर्वं विसर्जयेत्।' आश्वलायनः - 'अन्नं प्रकीर्योपवीत्यों स्वधोच्यतामिति विसृजेदस्तु स्वधेति वा। ब्रह्मवैवर्ते- 'आमावाजेति मन्त्रं तु पठित्वा च प्रदक्षिणाम्। द्वारोपान्ते ततः कृत्वा संयतः प्रविशेद्गृहम्॥ प्राञ्जलिश्च ततः प्राह तान् विप्रान् सत्यवादिनः। दातारो नोऽभिवर्धन्तामन्त्रं च न ईतीव हि॥ एवमस्त्विति ते तं च कथयन्ति समाहिताः॥ एतन्मण्डलदेशे कार्यमिति हेमाद्रिः। मनुः - 'दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च। श्रद्धा च नो मा व्यगमद्वहु देयं च नोऽस्तु॥' इति। बौधायनः - 'अन्नं च नो बहु भवेदतिथींश्च लभेमहि। याचितारश्च नः सन्तु मा च याचिष्म कञ्चन॥' इति। अत्र 'दातारो वोऽभिवर्धन्तां लभध्वं याचिढ्वम्' इत्याद्यूहेन पठित्वा विप्रैः प्रतिवचनं कार्यमिति सुदर्शनभाष्ये। 'स्वादुषं सदः ० ' इति, 'ब्राह्मणासः पितरः ० ' इति च मन्त्रद्वयं पठन्ति। शौनकः 'ब्राह्मणानथ निर्यातान् परीत्य त्रिःप्रदक्षिणम्। सस्त्रीकः स्वजनैः सार्धं प्रणमेद्रचिताञ्जलिः। कनिष्ठप्रथमा ज्येष्ठचरमाः स्युः प्रदक्षिणे।' हेमाद्रौ वृहस्पतिः - 'अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात्। अद्य मे वंशजाः सर्वे याता वोऽनुग्रहाद्दिवम्॥ पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः। तत्क्लेशजातं चित्तात्तु विस्मृत्य क्षन्तुमर्हथ॥ ' प्रचेताः–‘विसृजेद्भक्तिसंयुक्तः सीमान्तं चाप्यनुव्रजेत्।' इति।

अथ पिण्डप्रतिपत्तिः। हेमाद्रौ ब्रह्माण्डे- 'पिण्डमग्नौ सदा दद्याद्भोगार्थी प्रथमं नरः। पन्त्यै पिण्डप्रतिप्रजार्थी दद्याद्वै मध्यमं मन्त्रपूर्वकम्॥ उत्तमां गतिमन्विच्छन् गोषु नित्यं प्रयच्छति। आज्ञां पत्तिः। प्रज्ञां यशः कीर्तिमप्सु पिण्डं प्रवेशयेत्॥ प्रार्थयन् दीर्घमायुष्यं वायसेभ्यः प्रयच्छति। आकाशं गमयेदप्सु स्थितो वा दक्षिणामुखः॥' आश्वलायनः- 'वीरं मे दत्त पितर इति पिण्डानां मध्यमं पत्नीं प्राशयेत्।', 'आधत्त पितरो गर्भं कुमारं पुष्करस्रजम्। यथायमरपा असत्' इति भर्त्रा दत्तस्याद्येनादानं द्वितीयेन प्राशनम्। आपस्तम्बस्तु दाने मन्त्रमाह - 'अपां त्वोषधीनां रसं प्राशयामि भूतकृतं गर्भं धत्स्व' इति मध्यमं पत्न्यै प्रयच्छति' इति। प्राशनेऽपि 'यथेह पुरुषो असत्' इति तदीयः पाठोऽन्येषां तत्तच्छाखायां ज्ञेयः। तत्रैव शङ्खः - 'पत्नी वा मध्यमं पिण्डमश्नीयादार्तवान्विता।' कलिकायां छागलेयः - 'प्राचीनावीतमाऽऽमन्त्र्य पत्नीः पिण्डो विभज्यते। प्रतिपत्न्यस्य मन्त्रस्य कर्तव्यावृत्तिरत्र तु॥' माधवीये विष्णुधर्मे- 'तीर्थश्राद्धे सदा पिण्डान् क्षिपेत्तीर्थे समाहितः।' याज्ञवल्क्यः - 'पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा।' बृहस्पतिः - 'अन्यदेशगता पत्नी रोगिणी गर्भिणी तथा। तदा तं जीर्णवृषभश्छागो वा भोक्तुमर्हति।'

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬