🕉️ 24 November 2026, Tuesday · 08:07:37 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 64/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

पिण्डोपघाते हेमाद्रौ प्रायश्चित्तकाण्डे देवलः

अथ पिण्डोपघाते हेमाद्रौ प्रायश्चित्तकाण्डे देवलः- 'श्वसृगालखरैः पिण्डः स्पृष्टो भिन्नः प्रमादतः। कर्तुरायुष्यनाशः स्यात्प्रेतस्तं नोपसर्पति॥ जातकर्ण्यः पूर्वश्लोकान्ते - 'तद्दोषपरिहारार्थं प्राजापत्यं प्रकल्पयेत्। पुनः स्नात्वा तदा कर्ता पिण्डं कुर्याद्यथाविधि॥' काकस्पर्शे तु न दोषः, पिण्डोपघातं प्रक्रम्य - 'धनस्य च विनाशः स्यात् काकस्पर्शादिकं विना।' इति तत्रैव श्लोकगौतमोक्तेः। स्मृतिदर्पणे अत्रिः - 'मार्जारमूषकस्पर्शे पिण्डे च द्विदलीकृते। पुनः पिण्डाः प्रदातव्यास्तेन पाकेन तत्क्षणात्॥' बौधायनः – 'श्वचाण्डालादिभिः स्पृष्टः पिण्डो यद्युपहन्यते। प्राजापत्यं चरित्वाऽथ पुनः पिण्डं समाचरेत्॥' बोपदेवोऽध्येवमाह - अथ दिनान्तरे तु प्राजापत्यमात्रम् ; शेषप्रतिपत्तित्वेन पिण्डावृत्तौ मानाभावादिति मैथिलाः,- तन्न, सपिण्डीकरणादौ शेषनाशे संयोजनादिलोपापत्तेः। तेन वचनाद्वमन इवात्रापि तन्मात्रपिण्डदानावृत्तिः। अत एव 'न च नक्तं श्राद्धं कुर्वीतारब्धे चाऽऽभोजनसमापनात्।' इत्यापस्तम्बसूत्रम्। रात्रौ भोजनमात्रं पूर्वेद्युः कार्यम्। श्राद्धसमाप्तिस्तु परदिने एव। समाप्तिपर्यन्तं कर्तुरुपवासश्चेति हरदत्तेन व्याख्यातम्। तस्मात् पाकान्तरेण पिण्डदानमात्रं कार्यम्।

पिण्डनिषिद्धकालः

अथ पिण्डनिषिद्धकालः। स च प्रायेण महालयादिनिर्णये पूर्वमुक्तः। हेमाद्रौ बृहत्पराशरः- 'युगादिषु मघायां च विषुवत्ययने तथा। भरणीषु च कुर्वीत पिण्डनिर्वपणं नहि॥' स्मृतिरत्नावल्याम् - 'पुत्रे जाते व्यतीपाते ग्रहणे चन्द्रसूर्ययोः। श्राद्धं कुर्यात् प्रयत्नेन पिण्डनिर्वपणादृते॥' तत्रैव कात्यायनः - 'वृद्धेरनन्तरं चैव यावन्मासः समाप्यते। तावत् पिण्डान्नैव दद्यान्न कुर्यात्तिलतर्पणम्॥' बौधायनः- 'संस्कारेषु तथाऽन्येषु मासं मासार्धमेव च।' तथा 'भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च। पिण्डदानं मृदा स्रानं न कुर्यात्तिलतर्पणम्॥' त्रिस्थलीसेतौ कार्ष्णाजिनि :- 'विवाहव्रतचूडासु वर्षमर्धं तदर्धकम्।' उत्तरार्धं प्राग्वत्। 'वृद्धिमात्रे तथान्यत्र पिण्डदाननिराक्रिया। कृता गर्गादिभिर्मुख्यैर्मासमेकं तु कर्मणाम्॥' हेमाद्रौ ज्योतिः पराशरः - 'विवाहे विहिते मासांस्त्यजेयुर्द्वादशैव हि। सपिण्डाः पिण्डनिर्वापं मौञ्जीबन्धे षडेव हि॥' तत्रैव-'महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि। यस्य कस्यापि मर्त्यस्य सपिण्डीकरणे तथा॥ कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वापणं सदा॥' इति। 'मातापित्रोः इति क्षयाहविशेषणं हविरुभयत्ववदविवक्षितम्। तेन भ्रातृपितृव्यादिवार्पिकेऽपि पिण्डदानं कार्यमिति केचित्। सपिण्डीकरणं नवश्राद्धषोडशश्राद्धोपलक्षणार्थमिति निर्णयामृते उक्तम्।

क्षयाहे विशेषः सङ्ग्रहे- 'मातापित्रोराब्दिके तु विवाहादिषु सर्वदा। तिलैः पिण्डाः प्रदातव्या अन्यश्राद्धे विवर्जयेत्॥' अत्र मूलं चिन्त्यम्। रामकौतुके - 'नन्दाश्वकामरव्यारभृग्वग्निपितृकालभे। गण्डे वैधृतिपाते च पिण्डास्त्याज्याः सुतेप्सुभिः॥' विश्वरूपनिबन्धे - 'तिथिवारप्रयुक्तो यो दोषो वै समुदाहृतः। स श्राद्धे तन्निमित्ते स्यान्नान्यश्राद्धे कदाचन॥' अन्यत्तूक्तं प्राक्। उच्छिष्टोद्वासनमाह हेमाद्रौ वसिष्ठः- 'श्राद्धे नोद्वासनीयानि उच्छिष्टान्याऽऽदिनक्षयात्। श्च्योतन्ते वै सुधाधारास्ताः पिबन्त्यकृतोदकाः॥' व्यासः- 'उच्छिष्टं न प्रमृज्यात्तु यावन्नास्तमितो रविः।' - इदं गृहान्तरसत्त्वे। एकगृहे तु मनुः - 'उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः। ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः॥' बलिं वैश्वदेवादि नित्यकर्मेति मेधातिथिः। ब्रह्माण्डे - 'शूद्राय चानुपेताय श्राद्धोच्छिष्टं न दापयेत्।' तथा 'कामं दद्याच्च सर्वं तु शिष्याय च सुताय च।' भोक्तुरिति शेषः। जातृकर्ण्यः- 'द्विजभुक्तावशिष्टं तु शुचिभूमौ निखानयेत्।'

वैश्वदेवादि

अथ वैश्वदेवादि। अत्र मामकः श्लोकः - 'श्राद्धेऽनग्निककर्तृकेऽग्निकरणात्पश्चाज्जुहोतिर्बलिस्त्वन्ते स्यादथवा भवेद्विकिरतः पश्चात् पृथक्त्वे पचेः। श्राद्धान्ते त्वथवा महालयविधावूर्ध्वं भुजेः स्यात्क्षये त्वन्तेऽमासु च मध्यतः शुभविधावादौ तथा साग्निके।' अस्यार्थः– साग्नेः पृथक्पाकेन सर्वत्रादौ वैश्वदेवः; 'पेक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः। पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः॥ पित्रर्थं निर्वपत्पाकं वैश्वदेवार्थमेव च। वैश्वदेवं न पित्रर्थं न दार्शं वैश्वदेविकम्॥” इति लौगाक्षिस्मृतेः। अत्र साग्निक आहिताग्निरिति हेमाद्रिः; 'श्राद्धात् प्रागेव कुर्वीत वैश्वदेवं तु साग्निकः। एकादशाहिकं मुक्त्वा तत्र ह्यन्ते विधीयते॥” इति हेमाद्रौ शालङ्कायनोक्तेश्च। तत्रैव परिशिष्टे 'सम्प्राप्ते पार्वण श्राद्धे एकोद्दिष्टे तथैव च। अग्रतो वैश्वदेवः स्यात्पश्चादेकादशेऽहनि॥' स्मार्ताग्निमतां तद्रहितानां चाग्नौकरणोत्तरं विकिरोत्तरं वा होममात्रं पृथक्पाकेन। भूतयज्ञादि तु श्राद्धान्त एव। अत्र मूलं हेमाद्रि चन्द्रिकादौ स्पष्टम्। सर्वेषां श्राद्धान्ते वा तत्पाकेन वैश्वदेवनित्यश्राद्धादीति तृतीयः; 'श्राद्धं निर्वर्त्य विधिवद्वैश्वदेवादिकं ततः। कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं तथा॥' इति पैठीनसिस्मृतेः। ततः - श्राद्धशेषात्। 'श्राद्धाह्नि श्राद्धशेषेण वैश्वदेवं समाचरेत्।' इति चतुर्विंशतिमताच्च। एवं वैश्वदेवकालत्रयस्य आशार्के साङ्ख्यायनपरिशिष्टमुदाहृत्यैव व्यवस्थोक्ता। 'आदौ वृद्धौ क्षये चान्ते दर्शे मध्ये महालये। एकोद्दिष्टे निवृत्ते तु वैश्वदेवो विधीयते॥' इति बहुस्मृत्युक्तत्वात्सर्वेषां श्राद्धान्ते एवेति मेधातिथिस्मृतिरत्नावल्यादयो बहवः।

बोपदेवस्तु वृत्तिकारेण विसर्जनान्तं श्राद्धमुक्त्वा 'उच्छेषणं तु' इति पूर्वोक्तमनुवाक्योदाहरणाद्बह्वृचानां श्राद्धान्ते एव, मध्यपक्षस्त्वन्यशाखापर इत्याह। हेमाद्रिस्तु वृद्धावप्यन्ते एव वैश्वदेवमाह। कातीयानां तु श्रौतस्मार्ताग्निमतामादावेकेनैव पाकेनेति कर्कः। अन्येषां मते, तैत्तिरीयाणां तु साग्निकानां सर्वत्रादौ वैश्वदेवः। पञ्चयज्ञाश्च अन्ते वेति सुदर्शनभाष्ये उक्तम्। अस्य पक्षद्वयस्य पूर्ववद्व्यवस्था। हेमाद्रौ मार्कण्डेयः- 'ततो नित्यक्रियां कुर्याद्भोजयेच्च ततोऽतिथीन्। ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः॥' ततः = श्राद्धशेषात्, नित्यक्रियां - नित्यश्राद्धम् ; तत्र - 'पृथक्पाकेन नैत्यकम्' इति तेनैवोक्तेः पाकैक्ये विकल्पः॥

नित्यश्राद्धम्

अथ नित्यश्राद्धम्। हेमाद्रौ व्यासः - 'एकमप्याशयेद्विप्रं षण्णामप्यन्वहं गृही। अपीत्यनुकल्पः। नित्यश्राद्धम्। प्रचेताः - 'नामन्त्रणं न होमं च नाह्वानं न विसर्जनम्। न पिण्डदानं विकिरं न दद्यादत्र दक्षिणाम्॥' अत्र - 'निर्दिश्य भोजयित्वा तु किञ्चिद्दत्त्वा विसर्जयेत्।' इति तेनैवोक्तेर्दक्षिणाविकल्पः। यत्तु – 'नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम्। दक्षिणारहितं चैव दातृभोक्तृव्रतोज्झितम्॥' इति काशीखण्डे। तद्विप्राभावपरमिति पृथ्वीचन्द्रः। भविष्ये- 'आवाहनं स्वधाकारं पिण्डाग्नौकरणादिकम्। ब्रह्मचर्यादिनियमा विश्वेदेवा न चैव हि॥ दातॄणामथ भोक्तृणां नियमो न च विद्यते॥' एतद्दिवाऽसम्भवे रात्रावपि कार्यम्; 'दिवोदितानि कर्माणि प्रमादादकृतानि वै। यामिन्याः प्रहरं यावत्तावत् कर्माणि कारयेत्॥” इति बृहन्नारदीयोक्तेः। 'रात्रौ प्रहरपर्यन्तं दिवाकृत्यानि कारयेत्। ब्रह्मयज्ञं च सौरं च वर्जयित्वा विशेषतः॥' इति पृथ्वीचन्द्रधृतसङ्ग्रहोक्तेश्च। न च दार्शिकाब्दिकाद्यपि रात्रौ स्यादिति वाच्यम्; इष्टापत्तेः। तस्य तिथिसम्बन्धित्वात्, 'सन्ध्यारात्रौ न कर्तव्यं श्राद्धं खलु विचक्षणैः' इति वैष्णवाद्यै रात्रौ निषेधात्। अत एवाल्पद्वादश्यां-‘उषःकाले द्वयं कुर्यात् प्रातर्माध्याह्निकं तदा।' इत्याद्यैर्वाक्यैस्त्रयोदशी श्राद्धं नापकृष्यते; भिन्नविषयत्वादित्युक्तं मदनरत्ने। नित्यं त्वपकृष्यते, अन्वहमित्युक्तेस्तिथिसर्वार्धिकाभावात्। यथा च सुदर्शनभाष्ये- 'परपक्षे पित्र्याणीति नियमेऽपि नित्यश्राद्धत्वे संवत्सरमित्यत्यन्तसंयोगे द्वितीयाबलाच्छुक्लपक्षेऽपि' इत्युक्तम्। तथा रात्रावपि। तथा च माधवेन प्रतिपत्प्रकरणे स्पष्टमुक्तम्। वयं चाग्रे वक्ष्यामः। अस्य दिनेऽकरणे लोप एव। 'रात्रौ श्राद्धं न कुर्वीत' इति निषेधादिति पृथ्वीचन्द्रोदयः। पात्राभावे कौर्मे-'उद्धृत्य वा यथाशक्ति किचिदन्नं प्रकल्पयेत्।' तत्प्रतिपत्तिमाह विष्णुः - 'भिक्षुकाभावेऽन्नं गोभ्यो दद्यादग्नौ वा प्रक्षिपेत् इति। हेमाद्रौ नागरखण्डे - 'नित्यश्राद्धं न कुर्वीत प्रसङ्गाद्यत्र सिद्ध्यति। श्राद्धान्तरे कृतेऽन्यत्र नित्यत्वात्तन्न हापयेत्॥' षड्दैवते पृथङ् नेत्यर्थः।

मात्स्ये- 'ततस्तु वैश्वदेवान्ते सभृत्यसुतबान्धवः। भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितम्॥' सर्व–पर्वनिषिद्धं मांसमाषाद्यपीत्यर्थः। एवं कृष्णैकादश्यादौ गृहिणोऽपि भोजनम् ; अस्य वैधत्वेन निषेधाप्रवृत्तेः। एवं ग्रहणवेधेऽपि। यत्तु - अनाहिताग्नेरमाषममांसं व्रतयेदित्युक्तं,तद्धेयमेव; श्रौतत्वेन तस्य बलवत्त्वात्। देवलः- 'श्राद्धं कृत्वा तु यो मर्त्यो न भुङ्क्तेऽथ कदाचन। देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा॥' शिवरात्र्येकादश्यादौ त्ववघ्राणमेवेत्युक्तं प्राक्। यत्र तूपवासो नावश्यकस्तत्रैकभक्तमयाचितं वा कार्यमिति हेमाद्रिः। जातूकर्ण्यः - 'अहन्येव तु भोक्तव्यं कृते श्राद्धे द्विजन्मभिः। अन्यथा ह्यासुरं श्राद्धं परपाके च सेविते॥'

श्राद्धशेषभोजनस्य क्वचिन्निषेधमाह - हेमाद्रौ प्रायश्चित्तकाण्डे मार्कण्डेयः - पित्राअवशिष्टभोक्तृदीनामथाऽन्येषां श्राद्धशेषान्नभोजनम्। व्रतिनां विधवानां च यतीनां च विगर्हितम्॥' प्रायश्चित्तम्। अन्ये = भिन्नगोत्राः, व्रतिनः ब्रह्मचारिणः; 'श्राद्धावशिष्टभोक्तारस्ते वै निरयगामिनः। सगोत्राणां सकुल्यानां ज्ञातीनां च न दोषकृत्।' इति तत्रैवोक्तेः। तत्रैव जाबालिः - ‘विप्रस्त्वन्यगृहे श्राद्धशिष्टान्नं भोजनं चरेत्। प्राजापत्यं विशुद्धिः स्याज्ज्ञातिगोत्रे न दोषकृत्॥' यतीनां वपनं लक्षं प्रणवजपश्चेति तत्रैवोक्तम्। अस्यापवादमाह स एव - 'श्वशुरस्य गुरोर्वापि मातुलस्य महात्मनः। ज्येष्ठभ्रातुश्च पुत्रस्य ब्रह्मनिष्ठस्य योगिनः॥ एतेषां श्राद्धशिष्टान्नं भुक्त्वा दोषो न विद्यते। इति केचित्प्रशंसन्ति मुनयस्तदसाम्प्रतम्॥' विशेषान्तरं तत्रैव ज्ञेयम्। हेमाद्रौ जाबालिः - 'ताम्बूलं दन्तकाष्ठं च स्नेहस्नानमभोजनम्। रत्यौपधपरान्नानि श्राद्धकर्ता विवर्जयेत्॥' पृथ्वीचन्द्रोदये आचार्यः - 'न शूद्रं भोजयेत्तस्मिन् गृहे यत्नेन तद्दिने। श्राद्धशेपं न शूद्रेभ्यः प्रदद्यादखिलेष्वपि॥'

इति कमलाकरभट्टकृते निर्णयसिन्धौ पार्वणश्राद्धम्॥

आनुकल्पः

अथानुकल्पः। तत्र विप्रालाभे- 'भोजयेदवाप्येकं ब्राह्मणं पङ्क्तिपावनम्। दैवे कृत्वा तु नैवेद्यं पश्चात्तस्य तु निर्वपेत्॥” इति शङ्खोक्तेरेको विप्रः पूर्वमुक्तः। विप्राभावे दर्भवटुः; 'निधाय वा दर्भवटूनासनेषु समाहितः। प्रैषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत्॥' इति देवलोक्तेः। अशक्तावामश्राद्धम् ; 'आपद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि। आमश्राद्धं प्रकुर्वीत भार्यारजसि सङ्क्रमे॥” इति कात्यायनोक्तेः। पृथ्वीचन्द्रोदये जमदग्निः –‘यावत्स्यान्नाग्निसंयुक्त उत्पन्नाग्निरथापि वा। आमश्राद्धं तदा कुर्याद्धस्तेऽग्नौकरणं भवेत्॥' कौर्मे-‘अनग्निरधनो वापि तथैव व्यसनान्वितः। आमश्राद्धं द्विजः कुर्याद्वृषलस्तु सदैव हि॥' आहिताग्नौ प्रवासस्थे तत्पत्नी गृहे दर्शम् ऋत्विगादिना कारयेत्, 'अमावास्यादि नियतं प्रोषिते धर्मचारिणी। पत्यौ तु कारयेन्नित्यमन्येनाप्यृत्विगादिना॥' इति लघुहारीतोक्तेरिति पृथ्वीचन्द्रोदयः। 'आदि' पदमाब्दिकादिसर्वपार्वणपरमिति शूलपाणिः। सुमन्तुः - 'पाकाभावेऽधिकारः स्याद्विप्रादीनां नराधिप। अपत्नीनां महाबाहो विदेशगमनादिभिः। सदा चैव तु शुद्राणामामश्राद्धं विदुर्बुधाः॥' प्रचेताः - 'स्त्री शूद्रः स्वपचश्चैव जातकर्मणि चाप्यथ। आमश्राद्धं सदा कुर्याद्विधिना पार्वणेन तु।' स्वयं पचतीति स्वपञ्चः। विष्णूशनसौ 'आत्मनो देशकालाभ्यां विप्लवे समुपस्थिते। आपद्यनग्नौ तीर्थे च प्रवासे पत्यसम्भवे॥ चन्द्रसूर्यग्रहे चैव दद्यादामं विशेषतः। न पक्कं भोजयेद्विद्वान् सच्छूद्रोऽपि कदाचन॥ भोजयन् प्रत्यवायी स्यान्न च तस्य फलं लभेत्।' अत्र प्रवासतीर्थग्रहणादावामहेमश्राद्धमेव, पाकश्राद्धं तु न भवत्येवेति हेमाद्रि-रत्नावल्यादयः॥ अपरार्क-विज्ञानेश्वरादयस्तु - 'पाकाभावे द्विजातीनामामश्राद्धं विधीयते।' इति सुमन्तूक्तेः साग्निकैर्निरग्निकैश्च प्रवासादौ सर्वत्र पाकाभावे आमादिना कार्यम्, पाकसम्भवे त्वन्नेनैवेत्याहुः। अत एव पाकश्राद्धमुक्त्वा -'एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु कर्मसु। भार्याविरहितोऽग्येतत् प्रवासस्थोऽपि नित्यशः॥' इति मात्स्ये निरग्नेरपि पाकेनोक्तमिति शूलपाणिकल्पतरू। एतच्छन्दः श्राद्धमात्रपर इत्यन्ये। 'एकोद्दिष्टं तु कर्तव्यं पाकेनैव सदा स्वयम्।' इति लघुहारीतीयमपि साग्नेरेव, निरग्नेर्महैकोद्दिष्टमप्यामेन। शूद्रस्य तु दशाहपिण्डाद्यामेनेति हलायुधः। उत्सन्नाग्नीनां त्वामश्राद्धमेव, पूर्वोक्तजमदग्निवाक्यात्।मरीचिः - 'श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम्। अमावास्यादिनियतं माससंवत्सरादृते॥' स्मृतिदर्पणे- 'मृताह च सपिण्डं च गयाश्राद्धं महालयम्। आपन्नोऽपि न कुर्वीतश्राद्धमामेन कर्हिचित्॥'

हेमाद्रौ व्यासः- 'आमं ददतु कौन्तेय दद्यादामं चतुर्गुणम्॥ द्विगुणं त्रिगुणं वाऽपि नत्वेकगुणमर्पयेत्\।\। आमश्राद्धम्। सिद्धान्ने तु विधिर्यः स्यादामश्राद्धेऽप्यसौ विधिः। आवाहनादि सर्वं स्यात्पिण्डदानं च भार\।\।दद्याद्यच्च द्विजातिभ्यः शृतं वाऽशृतमेव वा। तेनाग्नौकरणं कुर्यात् पिण्डांस्तेनैव निर्वपेत्॥' पक्षान्तरमाह स एव 'आमं ददद्धि कौन्तेय तदामं द्विगुणं चरेत्। त्रिगुणं चतुर्गुणं वाऽपि न त्वेकगुणमर्पयेत्॥' स्मृत्यर्थसारे सममयुक्तम्। षट्त्रिंशन्मते - 'आमश्राद्धं यदा कुर्यात् पिण्डदान कथं भवेत्। गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा॥ पिण्डान् दद्याद्यथालाभं तिलैः सह विमत्सरः॥' पृथ्वीचन्द्रोदये व्यासः - 'आमश्राद्धं यदा कुर्याद्विधिज्ञः श्राद्धदः सदा। हस्तेऽग्नौकरणं कुर्याद्ब्राह्मणस्य विधानतः॥ - एतत्साग्नेः; निरग्नेः सदा तत्सत्वात्। यत्तु – 'आमेन पिण्डं दद्याच्चेद्विप्रान् पाकेन भोजयेत्। पक्वेन कुरुते पिण्डमामान्नं यः प्रयच्छति॥ तावुभौ मनुजौ प्रोक्तौ नरकार्हौ न संशयः॥' इति, - तद्दर्शादिपरम्। देशाचाराद्व्यवस्थेति युक्तम्। मरीचिः - 'आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने। अन्यकर्मण्यनूह्याः स्युरामश्राद्धविधिः स्मृतः॥' नि॰ सिं॰ ४२

आवाहने 'हविषे अत्तवे' इत्यत्र 'स्वीकर्तवे' इत्यूहः। स्वधाकारे 'नमो वः पितर इषे' इत्यत्र 'इषे 'पदस्थाने 'आमद्रव्याय' इत्यूहः। विसर्जने 'वाजे वाजे' इत्यत्र 'तृप्ता' इति स्थाने 'तर्त्स्यत', 'तृप्यत' इति वोहः। यद्यपि 'तस्मादृचं नोहेत्' इति ऋच्यूहो निषिद्धः तथापि वचनाद्भवति। 'तृप्तिप्रश्नोऽवगाहश्च जुषप्रश्नो यथासुखम्। आमश्राद्धे भवेन्नैतदपोशानं च पञ्चमम्॥' अयं चानुवादः खेलेवाल्यां छेदनादीनामिवार्थाभावाल्लोपसिद्धेः।

धर्मप्रदीपे तु - 'आमं चतुर्गुणं दद्यादथवा द्विगुणं तथा। हेम चाष्टगुणं तद्वदामे हैमेऽप्यसौ विधिः। आमे हैमे तथा नित्ये नान्दीश्राद्धे तथैव च। व्यतीपातादिके श्राद्धे नियमान् परिवर्जयेत्॥ गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा। पिण्डदानं प्रकुर्वीत आमे है मे कृते सति॥ आमश्राद्धे च वृद्धौ च प्रेतश्राद्धे तथैव च। विकिरं नैव कुर्वीत मुनिः कात्यायनोऽब्रवीत्॥ आमश्राद्धमनङ्गुष्ठमग्नौकरणवर्जितम्। तृप्तिप्रश्नविहीनं तु कर्तव्यं मानवैध्रुवम्॥ आवाहनाग्नौकरणं विकिर पात्रपूरणम्। तृप्तिप्रश्नं न कुर्वीत आमे हैमे कदाचन॥' इत्युक्तम्। एतच्च - 'आवाहनं भवेत्कार्यमर्ध्यदानं तथैव च।' इति हेमाद्रौ भविष्यादिविरोधाच्चिन्त्यम्, शाखान्तरविषयं वाऽस्तु। विकिरोऽग्यामेनेति हेमाद्रिः। शूद्रस्य तु तत्रैवोक्तम्- 'अग्नौकरणमन्त्रश्च नमस्कारो विधीयते।' अग्नये कव्यवाहनाय नमः, सोमाय पितृमते नमः, इत्यय मन्त्रः। मात्स्ये- 'मत्रवर्ज्यं हि शूद्रस्य सर्वमेव विधीयते।' एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धं च सर्वदा॥ नमस्कारेण मन्त्रेण कुर्यादामान्नवद्बुधः॥' तच्च पूर्वाह्णॆ कार्यम्; ‘आमश्राद्धं तु पूर्वाह्णे एकोद्दिष्टं च मध्यतः। पार्वण चापराह्णे तु प्रातर्वृद्धिनिमित्तकम्॥' इति हारीतोक्तेः। एतद्विजविषयम्। शूद्रकर्तृकं त्वपराह्ण एव; 'मध्याह्नात्परतो यस्तु कुतपः समुदाहृतः। आमश्राद्धं तु तत्रैव पितॄणां दत्तमक्षयम्॥” इति सुमन्तूक्तेरित्यपरार्के हेमाद्रौ चोक्तम्॥

तदभावे हेमश्राद्धमाह हेमाद्रौ मरीचिः- 'आमान्नस्याप्यभावे तु श्राद्धं कुर्वीत बुद्धिमान्। हेमश्राद्धम्। धान्याच्चतुर्गुणेनैव हिरण्येन सुरोचिषा॥' धर्मः- 'आमं तु द्विगुणं प्रोक्तं हेम तद्वच्चतुर्गुणम्।' स्मृत्यर्थसारे - 'हिरण्यमष्टगुणं चतुर्गुणं समं वा दद्यात्।' हेमाद्रौ भविष्ये - 'अन्नाभावे द्विजाभावे प्रवासे पुत्रजन्मनि। हेमश्राद्धं सग्रहे च तथा स्त्रीशूद्रयोरपि॥ षट्त्रिंशन्मते तुर्यपादे- 'वर्जयित्वा क्षयेऽहनि' इति पाठः। ‘यस्य भार्या रजस्वला' इति व्यासपाठः। पुत्रोत्पत्तौ तु हेमनियममाह संवर्तः - 'पुत्रजन्मनि कुर्वीत श्राद्धं हेग्नैव बुद्धिमान्। न पक्वेन न चामेन कल्याणान्यभिकामयन्॥' भविष्ये - 'गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा। पिण्डदानं प्रकुर्वीत हेमश्राद्धे कृते सति। शूद्रस्तु गृहपाकेन न पिण्डान्निर्वपेत्तथा। सक्तु मूलं फलं तस्य पायसं वा भवेत्स्मृतम्॥' हेमश्राद्धे पिण्डदानं नेति दिवोदासः। स्मृत्यर्थसारे तु विकल्प उक्तस्तदाशयं न विद्मः।

षट्त्रिंशन्मते- 'नामन्त्रणाग्नौकरणे विकिरो नैव दीयते। तृप्तिप्रश्नोऽपि नैवात्र कर्तव्यः केनचिद्भवेत्॥' अत्र मरीचिना आमाभावे हेमविधानेन स्थानापत्त्या धर्मप्राप्तेः पूर्ववन्मन्त्रोहः पूर्वह्णकालता च ज्ञेयेति दिक्। पूर्वोक्तधर्मप्रदीपोक्तेश्च।

व्यासः - 'हिरण्यमामं श्राद्धीयं लब्धं यत्क्षत्रियादितः। यथेष्टं विनियोज्यं स्याद्भुञ्जीयाद्ब्राह्मणात्स्वयम्॥' विप्रलब्धं भुञ्जीयात्, क्षत्रियादिलब्धे तु यथेष्टविनियोगः। तेनापि श्राद्धवैश्वदेवादि न कार्यम् ; देवोद्देशेन त्यक्तस्य देवतान्तराय त्यागायोगादिति देवयाज्ञिकः। शूद्रलब्धे तूक्तं तत्रैव षट्त्रिंशन्मते- 'आमं शूद्रस्य यत्किचिच्छ्राद्धकं प्रतिगृह्यते। तत्सर्वं भोजनायालं नित्यनैमित्तिके न च॥ इति। शुद्धितत्त्वेऽङ्गिराः 'शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि। निवृत्तेन न भोक्तव्य शूद्रान्नं तदपि स्मृतम्॥ शूद्राद्विप्रगृहेष्वन्नं प्रविष्टं तु सदा शुचि॥' पराशरः - 'तावद्भवति शूद्रानं यावन्न स्पृशति द्विजः। द्विजातिकरसंस्पृष्टं सर्वं तन्न विरुद्ध्यते॥' विष्णुपुराणे - 'सम्प्रोक्षयित्वा गृह्णीयाच्छूद्रान्नं गृहमागतम्।' अङ्गिराः 'पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम्।'

सपिण्डश्राद्धाशक्तावाह हेमाद्रौ संवर्तः- 'समग्रं यस्तु शक्नोति कर्तुं नैवेह पार्वणम्। अपि साङ्कल्पिक- सङ्कल्पविधिना काले तस्य विधीयते॥ पात्रे भोज्यस्य चान्नस्य त्यागः सङ्कल्प उच्यते॥' श्राद्धम्। व्यासः - 'साङ्कल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम्। नावाहनाग्नौकरणे पिण्डांश्चैव न दापयेत्॥' पात्रमर्घ्यस्य। समन्त्रकावाहनस्य निषेधः। तूष्णीं तु भवत्येवेति हेमाद्रिः। स्मृत्यर्थमारे - विकिरं तु न दातव्यम्' इति तृतीयपादे पाठः। स्मृत्यन्तरे- 'त्यजेदावाहनं चार्घ्यमग्नौकरणमेव च। पिण्डांश्च विकिराक्षय्ये श्राद्धे साङ्कल्पसञ्ज्ञके॥' हेमाद्रौ वृद्धशातातपस्तु - ‘पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते। स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते॥” इत्याह। पृथ्वीचन्द्रोदये वसिष्ठः - 'आवाहनं स्वधाशब्दं पिण्डाग्नौकरणं तथा। विकिरं चौर्घ्यदानं च साङ्कल्पे षड्विवर्जयेत्॥' विकिरे विकल्पः। स्मृत्यन्तरे - 'अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात्। स तदा वाचयेद्विप्रान् सङ्कल्पासिद्धिरस्त्विति॥' छागलेयः- 'पिण्डो यत्र निवर्तेत मघादिषु कथञ्चन। साङ्कल्पं तु तदा कार्यं नियमाद्ब्रह्मवादिभिः॥' कार्ष्णाजिनिः- 'मौञ्जीबन्धाद्वत्सरार्धं वत्सरं पाणिपीडनात्। पिण्डान् सपिण्डा नो दद्युः प्रेतपिण्डं विनात्र तु॥' अस्यापवादः पित्रोराब्दिकादौ पूर्वमुक्तः। त्यक्ताग्नेरपि साङ्कल्पमुक्त षट्त्रिंशन्मते 'अनग्निको यदा विप्र उत्सन्नाग्न्निस्तथैव च। तथा वृद्धिषु सर्वासु सङ्कल्पश्राद्धमाचरेत्॥'

इदं च शूद्रगृहादागतमपि ग्राह्यम्, 'शुष्कान्न गोरस स्नेह शूद्रवेश्मन आगतम्। पक्व विप्रगृहे भुक्त भोज्य तं मनुरब्रवीत्॥' इति प्रामाण्यात्।

अशक्तौ पृथ्वीचन्द्रोदये बृहन्नारदीये- 'द्रव्याभावे द्विजाभावे अन्नमात्रं तु पाचयेत्। पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः॥' देवलः - 'पिण्डमात्रं प्रदातव्यमभावे द्रव्यविप्रयोः। श्राद्धीयाहनि सम्प्राप्ते भवेन्निरशनोऽपि वा॥ वृद्धवसिष्ठः - 'किञ्चिद्दद्यादशक्तस्तु उदकुम्भादिकं द्विजे। तृणानि वा गवे दद्यात् पिण्डान्वाऽप्यथ निर्वपेत्॥ तिलदर्भैः पितॄन्वापि तर्पयेत्स्नानपूर्वकम्॥' हेमाद्रौ भविष्ये- 'अग्निना वा दहेत् कक्षं श्राद्धकाले समागते। तस्मिन्वोपवसेदह्नि जपेद्वा श्राद्धसंहिताम्॥' श्राद्धसंहिता = समश्राद्धसङ्कल्पः। विष्णुवराहपुराणयोः - 'असमर्थोऽन्नदानस्य धान्यमामं स्वशक्तितः। प्रदास्यति तिलान्वापि स्वल्पां वापि च दक्षिणाम्॥ सर्वाभावे वनं गत्वा कक्षामूलप्रदर्शकः। सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति॥ न मेऽस्ति वित्तं न धनं न चान्नं श्राद्धोपयोगि स्वपितृन्नतोऽस्मि। तृप्यन्तु भक्त्या पितरौ मयैतौ भुजौ कृतौ वर्त्मनि मारुतस्य॥ इत्येतत् पितृभिर्गीतं भावाभावप्रयोजनम्। यः करोति कृतं तेन श्राद्धं भवति भारत॥' प्रभासखण्डे - 'गत्वाऽरण्यममानुष्यमूर्ध्वबाहुर्विरौत्यदः। निरन्नो निर्धनो देवाः पितरो माऽनृणं कृथाः॥ न मेऽस्ति वित्तं न धनं न भार्या श्राद्धं कथं वः पितरः करोमि। वनं प्रविश्येह तु तन्मयोच्चैर्भुजौ कृतौ वर्त्मनि मारुतस्य॥ श्राद्धर्णभेतद्भवतां प्रदत्तं मह्यं दयध्वं पितृदेवताद्याः। आख्याय चोत्क्षिप्य भुजौ ततो वै दिवा च रात्रिं समुपोष्य तिष्ठेत्॥ भवेत्स वै तेन कृतेनं तेषामृणेन मुक्तः पितृदेवतानाम्॥'

इत्यनुकल्पः॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬