🕉️ 24 November 2026, Tuesday · 08:13:01 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 65/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

श्राद्धभोजने प्रायश्चित्तम्

अथ श्राद्धभोजने प्रायश्चित्तम्। दर्शे पद प्राणायामाः, वृद्धौ त्रयः, संस्कारेषु जातकर्मादि्चूडान्तेषु सान्तपनम्। आद्ये चान्द्रं वा; अन्यसंस्कारेपूपवासः, सीमन्ते चान्द्रमिति विज्ञानेश्वरः। आपदि नवश्राद्धैकादशाहेषु भोजनेषु कायः। द्वादशाहे ऊनमासे च पादोनः। द्विमासे त्रिपक्षे ऊनषष्ठोऽनाब्दयोश्वार्धकृच्छ्रः। त्रिमासाद्याब्दिकान्तेषु सपिण्डने च पादकृच्छ्र उपवासो वा। गुरुद्रव्यार्थभोजनेऽर्धम्। जपशीले तदर्धम्। अनापदि तूनमासान्तेषु चान्द्रं कायं वा। द्विमासादौ पादोनम्। त्रिमासादावर्धकायः। आब्दिके पादोनकायः। पुनराब्दिके एकाहः। क्षत्रियादिश्राद्धेषु द्वित्रिचतुर्गुणानि ज्ञेयानि। चण्डालसर्पश्वादिहतपतितक्लीबादिनवश्राद्धे चान्द्रम्। आद्यमासिकान्ते चान्द्रं पराकश्च। द्वादशाहादौ पराकः। द्विमासादावतिकृच्छ्रः। त्रिमासादौ कायः। आदिके पादः। अभ्यासे सर्वं द्विगुणम्। आमहेमसङ्कल्पश्राद्धेषु तत्तदर्धानि। यतिर्ब्रह्मचारी चोक्तं प्रायश्चित्तं कृत्वा त्रीनुपवासान् प्राणायामान्घृताशनं चाधिकं कृत्वा व्रतशेषं समापयेत्। अनापदि द्विगुणम्। दर्शादौ दशगायत्रीमन्त्रिता आपः पिबेत्, पदप्राणायामा वा। संस्कारेषु चौले कृच्छ्रः। सीमन्ते चान्द्रम्। अन्येषूपवास इति दिक्। अत्र माधव - मिताक्षरादौ क्वचिद्विरोधो विषयभेदात्परिहार्यः। एकादशाहे चान्द्रं पुनःसंस्कारश्चेति प्रायश्चित्तकाण्डे हेमाद्रिः। यत्तूशनाः - 'दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुग्द्विजः।' इति, - तदनुक्तप्रायश्चित्तश्राद्धपरमिति विज्ञानेश्वरः॥

क्षयाहश्राद्धम्

अथ क्षयाहश्राद्धम्। तत्स्वरूपमाह हेमाद्रौ व्यासः– 'मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियतेऽहनि। प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः॥' नारदीये– 'पारणे मरणे नृृणां तिथिस्तात्कालिकी स्मृता।' -अत्र चान्द्रं मानं ज्ञेयम्; 'आब्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते' इति गर्गोक्तेः। मलमासमृतस्य तु सौरम्; 'मलमासमृतानां तु सौरं मानं समाश्रयेत्।' इति हेमाद्रावुक्तेः। –एतन्मृतमासस्यैवाधिक्ये ज्ञेयम्। ब्राह्मे- 'प्रतिसंवत्सरं कार्य मातापित्रोर्मृतेऽहनि। पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि॥' अपुत्रस्येति भ्रात्राप्यन्वयः। ज्येष्ठस्येति कनिष्ठस्यानावश्यकत्वार्थम्। मदनरत्ने भविष्ये– 'सर्वेषामेव श्राद्धानां श्रेष्ठं सांवत्सरं मतम्।' तथा- 'भोजको यस्तु वै श्राद्धं न करोति खगाधिप। मातापितृभ्यां सततं वर्षे वर्षे मृतेऽहनि॥ स याति नरकं घोरं तामिस्रं नाम नामतः॥' तच्च नानास्मृतिष्वेकोद्दिष्टं पार्वणं चोक्तम्। आद्यमाह यमः– 'सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः। मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि॥' व्यासः– 'एकोद्दिष्टं तु कर्तव्य पित्रोश्चैव मृतेऽहनि। एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः॥ अकृतं तद्विजानीयाद्भवेच्च पितृघातकः॥' अन्त्यमाह शातातपः– 'सपिण्डीकरणं कृत्वा कुर्यात् पार्वणवत्सदा। प्रतिसंवत्सरं श्राद्धं छागलेयोदितो विधिः॥ यः सपिण्डीकृतं प्रेतं पृथपिण्डे नियोजयेत्। विधिघ्नस्तेन भवति पितृहा चोपजायते॥' अत्रौरसक्षेत्रजयोः पार्वणं, दत्तकादीनामेकोद्दिष्टमित्येकः पक्षः।साग्नेः पार्वणं, निरग्नेरेकोद्दिष्ट मित्यपरः। तद्दूषणं मिताक्षरादौ ज्ञेयम्। कल्पतरुस्तु– 'साग्न्योरौरस-क्षेत्रजयोः पार्वणम्। निरग्निकयोस्त्वेकोद्दिष्टम्' इत्याह। अपरार्केऽप्येवम्। दत्तकादयो दश पुत्रास्तु साग्नयो निरग्नियश्चैकोद्दिष्टमेव कुर्युः; 'प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ। कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश॥' इति जातृकर्ण्योक्तेः । यदा तु दत्तकस्य पिता दर्शे महालये वा मृतस्तत्र पार्वणैकोद्दिष्टयोर्विकल्पः। वस्तुतस्तु– सर्वेषां पार्वणैकोद्दिष्टयोर्ब्राहियववद्विकल्पः। स च देशाचाराद्व्यवस्थित इति सर्वनिबन्धसिद्धान्तः। अत एव पृथ्वीचन्द्रोदये वृद्धपराशरः– 'मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि।' इत्युक्त्वाह- 'देशधर्मं समाश्रित्य वंशधर्मं तथा परे। सूरयः श्राद्धमिच्छन्ति पार्वणं च क्षयाह्नयपि॥' इति,- तच्च केवलपितॄणां, न सपत्नीकानामिति हेमाद्रिः। अत्र मातामहा न कार्याः; 'कर्पूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम्। प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः॥' इति कात्यायनोक्तेः। कर्पूसमन्वितं सपिण्डनम्। यैरेकोद्दिष्टं क्रियते तेषामपि क्वचित् पार्वणमेव; 'अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः। पार्वणं तस्य कर्तव्य नैकोद्दिष्ट कदाचन॥ इति शङ्खोक्तेः।

सन्यासिनोऽप्याब्दिकम्।—

एव सन्न्यासिनोऽपि; 'एकोद्दिष्टं यतेर्नास्ति त्रिदण्डग्रहणादिह। सपिण्डीकरणाभावात् पार्वणं तस्य सर्वदा॥' इति प्रचेतसोक्तेः। वायवीये– 'सन्न्यासिनोऽप्याब्दिकादि पुत्रः कुर्याद्यथाविधि। महालये तु यच्छ्राद्धं द्वादश्यां पार्वणं हि तत्॥' पृथ्वीचन्द्रोदये वृद्धपराशरः– 'सङ्ग्रामे संस्थितानां च प्रेतपक्षे शशिक्षये। तेषां पार्वणमेवोक्तं क्षयाहेऽपि च सत्तमैः॥ चन्द्रक्षयानाशकसंयुगेषु यः प्रेतपक्षे मृतवान् सपिण्डः। सपिण्डितानामपि चाब्दिकानि भवन्ति तेषामिह पार्वणानि॥' तथा- 'भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्राताऽनुजस्य च। दैवहीनं तु तत्कुर्यादिति धर्मविदब्रवीत्॥' दैवहीनम्=एकोद्दिष्टम्, ज्येष्ठो भ्राता=अनाद्यगर्भजः। तथा च तत्रैव शातातपः– 'अनाद्यगर्भज्येष्ठोऽपि भ्राता सद्भिर्निगद्यते। ऋते सपिण्डनात्तस्य न वै पार्वणमाचरेत्॥' आद्यगर्भे तु पार्वणमेकोद्दिष्टं वेत्यर्थः। मातुस्तु हेमाद्रौ कात्यायनः– 'प्रत्यब्दं यो यथा कुर्यात् पुत्रः पित्रे सदा द्विजः। तथैव मातुः कर्तव्यं पार्वणं चान्यदेव वा॥' यत्तु- तेनैवोक्तम् 'सपिण्डीकरणादूर्ध्वं पित्रोरेव हि पार्वणम्। पितृव्यभ्रातृमातृृणामेकोद्दिष्टं सदैव तु॥' इति, तत्सापत्नमातृपरम्। यत्तु– वृद्धपराशरः 'अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत्। स एवास्य तु कुर्वीत पिण्डदानादिकक्रियाम्॥ पार्वणं तेन कार्यं स्यात्पुत्रवद्भातृजेन तु। पितृस्थाने तु तं कृत्वा शेषं पूर्ववदुच्चरेत्॥' इति,-तत्पितृवद्देशाचारवद्वयवस्थितमिति पृथ्वीचन्द्रः। श्राद्धदीपकलिकायां चतुर्विशतिमते तु– 'पितृव्य-भ्रातृमातृृणां ज्येष्ठानां पार्वणं भवेत्। एकोद्दिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः॥ अपुत्रस्य पितृव्यस्य भ्रातुश्चैवाग्रजन्मनः। मातामहस्य तत्पत्न्याः श्राद्धं पार्वणवद्भवेत्॥' इत्युक्तं, तत्पत्न्याः कर्तृत्वेऽपि पार्वणमेव; 'सर्वाभावे स्वयं पत्न्यः स्वभर्तॄणाममन्त्रकम्। सपिण्डीकरणं कुर्युस्ततः पार्वणमेव च॥' इति लौगाक्षिस्मृतेः। 'तत्र पत्न्यपि कुर्वीत सापिण्ड्य पार्वण तथा।' इति सुमन्तूक्तेश्चेति निर्णयामृते उक्तम्। अन्ये त्वेतत्पाक्षिकपार्वणपरमाहुः। अत एव 'भर्तुः श्राद्ध तु या नारी मोहात्पार्वणमाचरेत्। न तेन तृप्यते भर्ता कृत्वा तु नरक व्रजेत्॥' इति वचनं क्षयाहे पाक्षिकैकोद्दिष्टप्रशंसार्थं, न पार्वणनिषेधार्थमित्युक्तं त्रिस्थलीसेतौ भट्टचरणैः। 'स्वभर्तृप्रभृति त्रिभ्यः' इत्यनेन विरोधाच्च।

अपुत्राणां त्वाह हेमाद्रावापस्तम्बः– 'अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्॥ मित्रबन्धुसपिण्डेभ्यः स्त्रीकुमारिभ्य एव च। दद्याद्वै मासिकं श्राद्धं सांवत्सरमतोऽन्यथा॥' पारिजाते तु- 'अन्यथा पार्वणम्' इत्युक्त्वा 'सर्वत्र पार्वणम्' इत्युक्तम्। एकोद्दिष्टवाक्यानि तु तीर्थमहालयपराणीत्युक्तम्। पृथ्वीचन्द्रोदये वृद्धगार्ग्यः– 'मातुः सहोदरा या च पितुः सहभवा च या। तयोश्च नैव कुर्वीत पार्वण पिण्डनादृत॥' प्रचेताः– 'सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं विधीयते। अपुत्राणां च सर्वेषामपत्नीनां तथैव च॥' अपत्नीनांब्रह्मचार्यादीनाम्। मार्कण्डेयपुराणे– 'प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः। मृताहनि यथान्यायं नृणां यद्वदिहोदितम्॥' नृणामिति दृष्टान्ताद्गोविप्रहतपाखण्ड्यादीनां सपिण्डानामभावेऽपि सांवत्सरमेकोद्दिष्टं कार्यमेवेति शूलपाणिः। अत्रि-वृद्धवसिष्ठौ– 'सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदीयते। भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च॥ पितृव्यगुरवे श्राद्धमेकोद्दिष्टं न पार्वणम्॥' यत्तु- जातूकर्ण्यः 'पितृव्यभ्रातृमातृृणामपुत्राणां तथैव च। मातामहस्यासुतस्य श्राद्धादि पितृवद्भवेत्॥' इति,-तदावश्यकत्वार्थे, नतु पार्वणार्थमिति हेमाद्रिः। युक्तं त्वेवम्– 'मातुः पितरमारभ्य त्रयो मातामहाः स्मृताः। तेषां तु पितृवच्छ्राद्धं कुर्युर्दुहितसूनवः॥' इति पुलस्त्योक्तेर्मातामहस्य पार्वणमेव।तत्साहचर्यात् पितृव्यादौ तथा। पितृव्यभ्रातृमातृृणामेकोद्दिष्टं च पार्वणम्।' इति क्षयाहोक्तोपक्रमे पुलस्त्योक्तेश्च विकल्पः।केचित्त्वापस्तम्बादिवाक्यानि– ‘व्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता।' इत्यस्य पितृव्यादिपरत्वादकृतसपिण्डनपितृव्यादिपराणीत्याहुः। माता=सपत्नमाता। एकोद्दिष्टं तु कनिष्ठपरमिति। पृथ्वीचन्द्रोदयेऽप्येवम्। विशेषस्त्वधिकारिनिर्णये प्रागुक्तः। केचित्– पुत्रान्तरा-भावेऽपि पितामहवार्षिकमप्यावश्यकम्, 'पुत्राभावे च तत्पुत्रः पत्नी माता तथा पिता। वित्ताभावेऽपि सच्छिष्यः कुर्यात्तस्यौर्ध्वदेहिकम्॥' इति मार्कण्डेयपुराणादित्याहुः, -तन्न; 'पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम्।' इति कातीये विशेषोक्तेः॥

क्षयाहद्वैधे निर्णयः

अथ क्षयाहद्वैधे निर्णयः। तत्रैकोद्दिष्टं मध्याह्ने कार्यम्। मध्याह्नश्च-पञ्चधा विभक्ते दिने तृतीयभाग इति माधवः; 'आमश्राद्धं तु पूर्वाह्णे एकोद्दिष्टं तु मध्यमे। पार्वणं चापराह्णे तु प्रातर्वृद्धिनिमित्तकम्॥' इति हारीतोक्तौ 'प्रातः' शब्द साहचर्यात्। तत्रापि कुतपादिषु मुहूर्तद्वितये ज्ञेयम्; ‘प्रारभ्य कुतपे श्राद्धं कुर्यादारौहिणं बुधः। विधिज्ञो विधिमास्थाय रौहिणं तु न लङ्घयेत्॥' इति गौतमोक्तेरेतत्परत्वात्। रौहिणः=नवमो मुहूर्तः। मैथिलाः श्राद्धकौमुदी चैवम्। अन्यथा- 'ऊर्ध्वं मुहूर्तात् कुतपाद्यन्मुहूर्त-चतुष्टयम्। मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते॥' इत्यादिविरोधात्। दीपिकापि– 'एकोद्दिष्टमुपक्रमेत कुतपे' इति। माधवीये व्यासोऽपि– 'कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत्। आवर्तनसमीपे वा तत्रैव नियतात्मवान्॥' पृथ्वीचन्द्रोदयेऽप्येवम्। तेन कुतपादिरौहिणान्तो मुख्यः कालः। दिनद्वये तद्व्याप्तौ समव्याप्तौ च पूर्वा । विषमव्याप्तावाधिक्येन निर्णयः। अव्याप्तौ पूर्वैव, परविद्धाया निषेधात्। सा च पूर्वदिने ग्रहणे रौहिणलङ्घनापत्तेः परैवेति गौडाः, शुलकृष्णवशात्खर्वदर्पाद्यैर्वा व्यवस्थेत्यन्ये, -तन्न; परविद्धानिषेधप्राबल्यात्। अत्र मूलं कालमाधवीये ज्ञेयम्।

पार्वणादिश्राद्धकालः ।—

पार्वणं त्वपराह्णे कार्यम् ; पूर्वोक्तवचनात्, ‘मध्याह्नव्यापिनी या स्यात्सैकोद्दिष्टे तिथिर्भवेत् अपराह्णव्यापिनी या पार्वणे सा तिथिर्भवेत्॥' इति पृथ्वीचन्द्रोदये वृद्धगौतमोक्तेश्च। पूर्वेद्युरेव परेद्युरेव वाऽपराह्णव्याप्तौ सैव ग्राह्या। दिनद्वये तद्व्याप्तौ तदस्पर्शेऽशतः समव्याप्तौ वा पूर्वैव। विषमव्याप्तौ त्वधिका ग्राह्या; 'द्व्यपराह्वव्यापिनी स्यादाब्दिकस्य यदा तिथिः। महती यत्र तद्विद्धां प्रशंसन्ति महर्षयः॥' इति

मरीचिस्मृतेः, 'दर्शं च पूर्णमासं च पितुः सांवत्सरं दिनम्। पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते॥' इत्यपरार्के नारदोक्तेः॥ 'द्व्यहेऽप्यव्यापिनी चेत्स्यान्मृताहस्य यदा तिथिः। पूर्वविद्धा प्रकर्तव्या त्रिमुहूर्ता भवेद्यदि॥' इति सुमन्तृक्तेः। 'पूर्वस्यां निर्वपेत् पिण्डानित्याङ्गिरसभाषितम्।' इति हेमाद्रौ पाठः। तत्रैव वृद्धमनुः– 'न द्व्यहव्यापिनी चेत्स्यान्मृताहस्य च या तिथिः। पूर्वविद्धैव कर्तव्या त्रिमुहूर्ता च या भवेत्। मदनरत्नेऽप्येवम्। यत्तु- कार्ष्णाजिनि-व्यासौ 'अह्नोऽस्तमयवेलायां कलामात्रा यदा तिथिः। सैव प्रत्याब्दि के ज्ञेया नापरा पुत्रहानिदा॥' इति त्रिमुहूर्तस्तुतिः। पूर्वेद्युः सायं त्रिमुहूर्ताभावे तु परैव; 'त्रिमुहूर्ता न चेद्ग्राह्या परैव कुतपे हि सा।' इति कालादर्शे गोभिलोक्तेः। कालादर्शेऽपि– ‘प्रत्याब्दिकेऽप्येवमेव तिथिर्ग्राह्यापराह्निकी। उभयत्र तथात्वे तु महत्त्वेन विनिर्णयः॥ समत्वे पूर्वविद्धैव ह्यतथात्वेऽपि सा यदि। त्रिमुहूर्ता भवेत्सायं सर्वेष्टोऽयं विनिर्णयः॥' अन्यत्रापि– 'सायन्तन्यपरत्र चेन्मृततिथिः सैवाब्दिके मासिके ग्राह्या सा द्व्यपराह्योयोर्यदि तदा यत्राधिका सा मता। तुल्या चेदुभयापराह्णसमये पूर्वा न चेत्तु द्वये पूर्वेव त्रिमुहूर्तगास्तसमये नो चेत्परैवोचिता, पूर्वाहापराह्णास्यान्तिमघटीतः प्रवृत्ता परेऽह्नि क्षयवशादेकघटीमिता (२), पूर्वाहापराह्णान्तिमघटीत्रयवती पराहपराह्णघटीत्रयवती (३), इति त्रिधा ।")॥'

माधव-पृथ्वीचन्द्रौ तु— 'दिनद्वयेऽपराह्णव्याप्तौ अंशतः समव्याप्तौ च क्षये पूर्वा वृद्धौ परा'। ‘खर्वदर्पौ परौ पूज्यौ' इत्युक्तेः; 'अपराह्णद्वयव्यापिन्यतीतस्य च या तिथिः। क्षये पूर्वा च कर्तव्या वृद्धौ कार्या तथोत्तरा॥' इति बौधायनोक्तेः, 'क्षयाहस्य तिथिर्या तु अपराह्णद्वये यदि। पूर्वा क्षये तु कर्तव्या वृद्धौ कार्या तथोत्तरा॥' इति बृहन्नारदीयाच्चेत्याहुः। वृद्धिक्षयौ चात्र परतिथेर्नतु ग्राह्यतिथेः; तस्याः क्षयेऽपराह्णद्वयव्याप्तेरसम्भवात्। तदाह माधवः– 'न ग्राह्यतिथिगौ वृद्धिक्षयावूर्ध्वतिथेस्तु तौ।' इति। यत्तु–पृथ्वीचन्द्रः 'पूर्वोक्तवचनेषु यत्र सायाह्नास्तमययोगिनी तिथिरुक्ता तत्रापराह्णव्यापिनी ज्ञेया; सायाह्नस्त्रिमुहूर्तः स्यात्तत्र श्राद्धं न कारयेत्। इति मात्स्यादौ सायाह्ननिषेधात्, यच्च– 'त्रिमुहूर्तादिग्रहणं तच्छ्राद्धार्हापराह्णरूपत्रिमुहूर्तपरम्' इत्याह, -तद्वेमाद्रि-मदनरत्न-कालादर्शादिग्रन्थविरोधाल्लक्षणा-पत्तेश्च चिन्त्यम्। तस्मात्पूर्वोक्तमेव साधु। यदा विघ्नवशाद्दिने सांवत्सरश्राद्धं न कृतं तदा रात्रावपि कार्यम्; 'मृताहं समतिक्रम्य चण्डालेष्वभिजायते।' इति मरीचिना मृताहातिक्रमे दोषोक्तेः; 'न च नक्तं श्राद्धं कुर्वीतारब्धे वा भोजनसमापनम्' इत्यापस्तम्बेन गौणकालोक्तेश्चेति माधवः। आरब्धे श्राद्धे विघ्नवशाद्रात्रिभागे पाते भोजनसमाप्त्यन्तं रात्रौ कार्यम्। शेषसमाप्तिः परदिन एवेति हरदत्तः। ग्रहणदिने वार्षिकप्राप्तौ तद्दिने एवान्नेनामेन हेम्ना वा कुर्यात्, नोत्तरदिने इत्युक्तं प्राक् ग्रहणनिर्णये। तच्च प्रथमाब्दिकं त्रयोदशे मलमासे कार्यम्, अन्यथा न; 'प्रत्यब्दं द्वादशे मासि कार्या पिण्डक्रिया सुतैः। क्वचित्रयोदशेऽपि स्यादाद्यं मुक्त्वा तु वत्सरम्॥' इति लघुहारीतोक्तेः। -इदमन्त्याधिमासपरम्, द्वादशे त्रयोदशे वाऽतीत इत्यर्थः। तेन यत्र द्वादशमासिकं शुद्धमासे भवति तत्र त्रयोदशेऽधिके एवाद्याब्दिकं कार्यम्। यत्राधिकमध्ये द्वादशं मासिकं तत्र तस्य द्विरावृत्तिं कृत्वा चतुर्दशे शुद्धे एव प्रथमाब्दिकमिति निष्कर्षः। माधवीये, हेमाद्रौ चैवम्। द्वितीयादिकं तु शुद्धमासे एव नाधिके, नाप्युभयोः। मलमासमृतानां तु यदा स एवाधिकः स्यात्तदा तत्रैव कार्यमन्यथा शुद्ध एवेति प्रागुक्तम्।

दर्शे वार्षिकं चेत्तदा पूर्वं वार्षिकं कृत्वा ततः पिण्डपितृयज्ञो दर्शश्राद्धं चेति निर्णयदीपे क्रम उक्तः। स्मृतिसारेऽपि– 'दर्शे क्षयाहे सम्प्राप्ते कथं कुर्वन्ति याज्ञिकाः। आदौ क्षयाहं निर्वर्त्य पश्चाद्दर्शो विधीयते॥' इति। -युक्तं त्वेवम् ; तद्वचने मूलाभावात्। 'पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यक बुधः।' इति दर्शश्राद्धे पिण्डपितृयज्ञानन्तर्यात्तस्याब्दिकेऽप्यतिदेशात्प्राप्तेः 'पितृयज्ञानन्तरं वार्षिक ततो दर्शश्राद्धम्' इति व्यतिषङ्गस्तु न भवति; तस्यार्थिकत्वात्। कालादर्शेऽपि– 'निमित्ताऽनियतिश्चात्र पूर्वानुष्ठानकारणम्।' इति सर्वान्प्रत्यैकरूप्याभावात्क्षयाहनिमित्तस्यानियतत्वम्। देवजानीयेऽप्येवम्। एवं मासिकादि-ष्वपि ज्ञेयम्; 'प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ' इति सर्वातिदेशात्। मृताहे वृषोत्सर्ग उक्तो हेमाद्रौ विष्णुधर्मे– 'अयनद्वितये चैव मृताहे बान्धवस्य च। उत्सृजेन्नीलवृषभं कौमुद्याः समुपागमे॥' कौमुदी=कार्तिकी॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬