🕉️ 24 November 2026, Tuesday · 08:22:06 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 66/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

शुद्धश्राद्धम्

अथ शुद्धश्राद्धम्। दिवोदासीये– 'सपिण्डीकरणादूर्ध्व यावदब्दत्रय भवेत्। तावदेव न भोक्तव्यं क्षयेऽहनि कदाचन॥ वर्षान्तसपिण्डनेऽप्येतत्तुल्यम्; 'मृताहनि तु सम्प्राप्ते यावदब्दचतुष्टयम्। बहिः श्राद्धं प्रकुर्वीत न कुर्याच्छ्राद्धभोजनम्। प्रथमेऽस्थीनि मज्जा च द्वितीये मांसभक्षणम्। तृतीये रुधिरं प्रोक्तं श्राद्धं शुद्ध चतुर्थकम्॥' इति श्राद्धकारिकोक्तेः शुद्ध किचिदिति ज्ञेयम्। स्मृत्यन्तरे– 'सप्तत्रिशच्च यो मासान् श्राद्धे भुङ्क्ते तमोहतः। स पङ्क्तिदूषितः पापः प्रेताशी च भवेत्तु सः॥' तत्र प्रथमेऽब्दे वर्षान्तसपिण्डनपक्षे मृताहात्पूर्वेऽह्नि सपिण्डनमब्दपूर्तिश्राद्धं च कृत्वा परेद्युर्वार्षिकं कुर्यादिति स्मृत्यर्थसारे उक्तम्। कालकाण्डे हेमाद्रिस्तु मृताहे सपिण्डीकरणेनैव वार्षिकसिद्धिः। 'पूर्णे संवत्सरे पिण्डः षोडशः परिकीर्तितः। तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यते॥' इति वचनादित्याह। इदमेव युक्तम्॥

क्षयाहाज्ञाने मरीचिः

अथ क्षयाहाज्ञाने मरीचिः– 'श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि। एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः॥' विशेषत इत्युक्तेः शुक्लैकादश्यामपि। बृहस्पतिः– 'न ज्ञायते मृताहश्चेत्प्रमीते प्रोषिते सति। मासश्चेत्प्रतिविज्ञातस्तद्दर्शे स्यादथाब्दिकम्॥ दिनमासौ न विज्ञातौ मरणस्य यदा पुनः। प्रस्थानमासदिवसौ ग्राह्यौ पूर्वोक्तया दिशा॥' मदनरत्ने भविष्ये– 'मृताहं यो न जानाति मानवो विनतात्मज। तेन कार्यममावास्यां श्राद्धं सांवत्सरं सदा॥ दिनमेव तु जानाति मासं नैव तु यो नरः। मार्गशीर्षेऽथवा भाद्रे माघे वा तद्दिनं भवेत्॥' निर्णयामृते तु– 'यदा मासो न विज्ञातो विज्ञातं दिनमेव तु। तदा चाषाढके मासि माघे वा तद्दिनं भवेत्॥' इति बृहस्पतिस्मृतेराषाढोऽप्युक्तः। कालादर्शेऽपि– 'मासाज्ञाने दिनज्ञाने कार्यमाषाढमाघयोः।' इत्युक्तम्। हेमाद्रौ प्रभासखण्डे– 'मृताहं यो न जानाति मासं वापि कथञ्चन। तेन कार्यममावास्यां श्राद्धं माघेऽथ मार्गके॥' भविष्ये– ‘मृतवार्ताश्रुतेर्ग्राह्यौ तौ पूर्वोक्तक्रमेण तु।' पूर्वोक्तेति प्रस्थानदिनाज्ञाने मासज्ञाने च तद्दर्शे मासा ज्ञाने दिनज्ञाने च मार्गादावितिवच्छ्रवणदिनेऽपि ज्ञेयमित्यर्थः। श्रवणदिनमासाज्ञाने माघ-मार्गदर्शे कार्यं; पूर्वोक्तप्रभासखण्डात्। अतोऽत्र लोप इति शूलपाण्युक्तं हेयम्।तिथितत्त्वे यमः– 'गतस्य न भवेद्वार्ता यावद्द्वादशवार्षिकी। प्रेतावधारणं तस्य कर्तव्यं सुतबान्धवैः॥यन्मासि यदहर्यातस्तन्मासि तदहःक्रिया। दिनाज्ञाने कुहूस्तस्य आषाढस्याथवा कुहूः॥'

श्राद्धविघ्ने निर्णयः

अथ श्राद्धविघ्ने निर्णयः। तत्र विप्रस्य निमन्त्रणोत्तरं सूतके मृतके चाशौचाभावः; 'निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि। निमन्त्रणाद्धि विप्रस्य स्वाध्यायाद्विरतस्य च॥ देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित्॥' इति ब्राह्मोक्तेः। कर्तुस्तु विष्णुराह– 'व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। आरब्धे सूतकं न स्यादनारब्धे तु सूतकम्॥' श्राद्धे प्रारम्भस्तेनैवोक्तः–‘प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः। नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया॥' इति। माधवीये ब्राह्मेऽपि– 'श्राद्धादौ पितृयज्ञे च कन्यादाने च नो भवेत्।' मिताक्षरायां स्मृत्यन्तरे सद्यःशौच प्रकृत्य,- 'यज्ञे सम्भृतसम्भारे विवाहे श्राद्धकर्मणि।' इति। तिथितत्त्वादिगौडग्रन्थास्तु निमन्त्रणोत्तरं कर्तुभक्तुश्च नाशौचम्; 'निमन्त्रणोत्तरं श्राद्धे प्रारम्भः स्यादिति स्मृतिः।' इति विष्णुक्तेः। यत्तु–'श्राद्धे पाकपरिक्रिया' इति,- तद्दर्शश्राद्ध-विषयमित्याहुः। दातृगृहे मरणादौ ब्राह्मे उक्तम्- 'भोजनार्धे तु सम्भुक्ते विप्रैर्दातुर्विपद्यते।' गृहे इति शेषः। 'यदा कश्चित्तदोच्छिष्टं शेषं त्यक्त्वा समाहिताः। आचम्य परकीयेन जलेन शुचयो द्विजाः॥' इति। अस्य श्राद्धविषयत्वं हेमाद्रिणोक्तम्। पृथ्वीचन्द्रोदयेऽप्येवम्। मम तु प्रतिभातिइदं विवाहादि-विषयं, नतु श्राद्धविषयम्; तत्पदाभावात्। 'विवाहोत्सवयज्ञेषु' इत्युपक्रम्य, 'भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके। अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः॥' इति षट्त्रिंशन्मतैकवाक्यत्वात्, 'निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि' इति पूर्वोक्तविरोधाच्च। श्राद्धे तु यद्यपि विष्णुना पाकोत्तरमाशौचाभाव उक्तस्तथापि कर्तुरेव सः। भोक्तुर्दोषोऽस्त्येव; 'अपि दातृग्रहीत्रोश्च सूतके मृतके तथा। अविज्ञाते न दोषः स्याच्छ्राद्धादिषु कथञ्चन॥ विज्ञाते भोक्तुरेव स्यात्प्रायश्चित्तादिकं क्रमात्॥' इति माधवीये ब्राह्मोक्तेः। 'आदि' शब्देनाशौचमुच्यते। तच्चाह विष्णुः– 'ब्राह्मणादीनामाशौचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं यावत्तेषामाशौचव्यपगमे प्रायश्चित्तं कुर्यात्' इति। यत्तु- 'देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित्।' इति ब्राह्मं, तत् श्राद्धकालीनस्य निषेधकं न तदुत्तरकालीनस्य। शुद्धिदीपस्तु 'निमन्त्रितेषु' इत्यामश्राद्धपरम्, 'भोजनार्धे तु' इत्यादि त्वन्नश्राद्धपरमित्याह।

प्रायश्चित्तं त्वाह मार्कण्डेयः– 'भुक्त्वा तु ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः।' एतत्कामतः। अभ्यासे शङ्खः– 'ब्राह्मणस्य तथा भुक्त्वा मासमेकं व्रती भवेत्।' इति। अज्ञानात्तु छागलेयः–‘एकाहं च त्र्यहं पञ्चसप्तरात्रभभोजनम्। ततः शुचिर्भवेद्विप्रः पञ्चगव्यं पिबेन्नरः॥' इति वर्णक्रमेणेदम्। अभ्यासे तु द्वैगुण्यमित्यादि मिताक्षरामाधवीयादौ ज्ञेयम्। मिताक्षरा-माधवादौ तु श्राद्धे कर्तुर्भोक्तश्च सर्वथा दोषाभाव उक्तः। आशौचमध्ये श्राद्धदिनप्राप्तौ तु माधवीये कालादर्शे च ऋष्यशृङ्ग- 'देये पितॄणां श्राद्धे तु आशौचं जायते यदा। आशौचे तु व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते॥' श्राद्धचिन्तामणौ ज्योतिषे– 'प्रतिसांवत्सरं श्राद्धमाशौचात्पतितं च यत्। मलमासेऽपि तत्कार्यमिति भागुरिभाषितम्॥' आशौचान्त्यदिनत्वेन निमित्तत्वादित्यर्थः। एतन्मासिकाब्दिकपरं, न दार्शिकादौ। अत एव सुदर्शनभाष्ये अपरपक्षे पित्र्याणीति नियमात् कृष्णपक्षश्राद्धलोपे प्रायश्चित्तमेव, न तु गौणकाले करणम्। तच्चोपवासः; 'वेदोदितानां नित्यानां कर्मणां समतिक्रमे। स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्॥' इति मनूक्तेरित्युक्तम्। आशौचे तु प्रायश्चित्तमपि न; मुख्यकाले अनधिकारात्।

आशौचान्तेऽसम्भवे तु व्यासः– 'श्राद्धविघ्ने समुत्पन्ने त्वन्तरा मृतसूतके। अमावास्यां प्रकुर्याद्वै शुद्धावेके मनीषिणः॥' हेमाद्रौ षट्त्रिंशन्मतेऽपि- 'मासिके चाब्दिके त्वाह्नि सम्प्राप्ते मृतसूतके। वदन्ति शुद्धौ तत्कार्यं दर्शे वापि विचक्षणः॥' गोभिलः– ‘देये प्रत्याब्दिके श्राद्धे अन्तरा मृतसूतके।आशौचानन्तरं कुर्यात्तन्मासेन्दुक्षये तथा॥' मरीचिः– 'श्राद्धविघ्ने समुत्पन्नेऽप्यविज्ञाते मृतेऽहनि। एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः॥' विशेषत इत्युक्तेः शुक्लैकादश्यामपि। आशौचेतरविघ्ने एतदिति माधवपृथ्वीचन्द्रौ। यत्त्वत्रिः– 'तदहश्वेतप्रदुष्येत केनचित्सूतकादिना। सूतकानन्तर कुर्या-त्पुनस्तदहरेव च॥' इति,- तत् पूर्वकालाभावे ज्ञेयम्। एतदाब्दिकेतरश्राद्धपरम्। यच्च– देवलः 'एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते। मासेऽन्यस्मिंस्तिथौ तस्मिन्श्राद्धं कुर्यात्प्रयत्नतः॥' इति,-तदपि मासिकपरमिति मदनरत्ने हेमाद्रौ च। -इदमपि पूर्वकालासम्भवे। व्याध्यादौ विस्मरणे चैवं ज्ञेयम्।

अथ भार्यारजोदर्शने तत्र दार्शिकमानेन कार्यम्; 'श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकी-

भार्यारजोदर्शने निर्णयः।—

र्तितम्। अमावास्यादिनियतं माससंवत्सरादृते॥ इति हेमाद्रौ हारीतोक्तेः। व्याघ्रपादोऽपि– 'आर्तवे देशकालानां विप्लवे समुपस्थिते। आमश्राद्धं द्विजैः कार्यं शूद्रः कुर्यात्सदैव हि॥' इति॥ दीपिकापि–'दर्शे तु भार्यातवेऽप्यामश्राद्धविधिं प्रवासिविधुराद्याश्चाचरेयुर्द्विजाः'। वस्तुतस्तु– 'पाकाभावे द्विजातीनामामश्राद्ध विधीयते।' इति सुमन्तूक्तेः पाककर्त्रन्तरसत्त्वेऽन्नेनान्यथाऽऽमेनेति युक्तम् ; 'मासिकानि सपिण्डानि अमावास्या तथाब्दिकम्। अन्नेनैव तु कर्तव्यं यस्य भार्या रजस्वला॥' इति कलिकायां वचनाच्च।कालादर्शे तु स्त्रिया रजोदर्शने दर्शश्राद्धं पञ्चमेऽहनीति पक्षान्तरमुक्तम्। पारिजातेऽप्येवम्। एवं महालययुगादावपि।

आब्दिकं तु रजोदर्शनेऽपि तद्दिने एव कार्यम्; 'पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः।अन्नेनैवाब्दिकं कुर्याद्धेम्ना वाऽऽमेन न क्वचित्॥' इति माधवीये लौगाक्षिस्मृतेः। मरीचिरपि– 'अनग्निकः प्रवासी च यस्य भार्या रजस्वला। आमश्राद्धं प्रकुर्वीत न तत्कुर्यान्मृतेऽहनि॥ कार्ष्णाजिनिः–'आपन्नोऽप्याब्दिकं नैव कुर्यादामेन कुत्रचित्। अन्नेन तदमायां तु कृष्णे वा हरिवासरे॥' प्रयोगपारिजाते– 'रजस्वलायां भार्यायां क्षयाहं यः परित्यजेत्। स वै नरकमाप्नोति यावदाभूतसम्प्लवम्॥मासिकानि सपिण्डानि अमावास्या तथाब्दिकम्। अन्नेनैव तु कर्तव्यं यस्य भार्या रजस्वला॥देवयाज्ञिकनिबन्धेऽपि– 'भर्तुः श्राद्धं पञ्चमेऽह्नि कुर्याद्धार्या रजस्वला। पुत्रः पित्रोः प्रकुर्वीत मृताहनि शुचिर्यतः॥' कालादर्शेऽपि– 'रजस्वलाङ्गनोऽनग्निर्विदेशस्थोऽथवाब्दिके। दर्शादाविव नामेन त्वन्नेन श्राद्धमाचरेत्॥' अन्यत्रापि– 'विदेशको वा विगताग्निको वा रजस्वलायामपि धर्मपत्न्याम्। श्राद्धं मृताहे विदधीत पाकैर्नामेन हेम्ना न तु पञ्चमेऽह्नि॥' एवं मासिकेऽपि। यत्तु- मरीचिः 'आब्दिके समनुप्राप्ते यस्य भार्या रजस्वला।\। पञ्चमेऽहनि तच्छ्राद्धं न तत्कुर्यान्मृतेऽहनि॥' माधवीये– 'श्राद्धं तदा न कर्तव्यं कर्तव्य पञ्चमेऽहनि।' इत्युत्तरार्धं, -तदपुत्रस्त्रीकर्तृकश्राद्धविषयम्; 'अपुत्रा तु यदा भार्या सम्प्राप्ते भर्तुराब्दिके। रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनि॥ इति श्लोकगौतमोक्तेः। 'दैवे कर्मणि पित्र्ये वा पञ्चमेऽहनि शुद्ध्यति।' इति प्रभासखण्डाच्च। नन्वशुचित्वादेव तत्र पञ्चमेऽहन्यर्थात् श्राद्धं प्राप्तमिति वचनं व्यर्थम् ? मैवम् ; 'गर्भिणीसूतिकादिश्च कुमारी वाऽथ रोगिणी। यदा शुद्धा तदाऽन्येन कारयेत्प्रयता स्वयम्॥' इति हेमाद्रौ भविष्योक्तेः। 'अनुपनीतस्त्रीशूद्राश्च श्राद्धमृत्विजा कारयेयुः, स्वयं वाऽमन्त्रकं कुर्युः' इति स्मृत्यर्थसाराच्चान्यद्वारा करणनिवृत्त्यर्थत्वात्तस्य, त्वदुक्तदिशा आशौचानन्तरं श्राद्धकर्तव्यताऽऽवेदकवाक्यवैयर्थ्याच्च। अतः प्रागुक्तमरीच्युक्तेः पत्नी पञ्चमेऽहनीति युक्तम्। यत्तु– 'सप्ताहात्पितृदेवानां भवेद्योग्या व्रतार्चने।' इति, -तद्रजोनिवृत्तिपरमिति हेमाद्रिभिन्नसर्वनिबन्ध-सिद्धान्तः।

हेमाद्रिस्तु– श्राद्धादौ स्त्रिया सहैवाधिकारात्तस्यां रजोदुष्टायां तन्निवृत्तरेकमार्येण पञ्चमेऽहनि कार्यं; प्रागुक्तमरीच्युक्तेः। भार्यान्तरसत्त्वे तु 'पुष्पवत्स्वपि' इति वचनात्तद्दिने एवेत्याह। दीपिकापि– 'भार्यर्तौ सति पञ्चमे च दिवसे स्याद्वार्षिकं मासिकं पक्कान्नैर्बहुभार्यकस्त्वधिकृते पत्नयन्तरे तिष्ठति। कुर्यात्तद्द्वितयं स्वमुख्यदिवसे' इति, तच्चिन्त्यम्। सहाधिकारः सहत्वश्रुत्या वा एकफलभाक्त्वेन वा पाककर्तृत्वेन वा ? नाद्यः; तदभावात्। 'पाणिग्रहणाद्धि सहत्वं कर्मसु' इत्यस्याग्निसाध्यकर्मविषयत्वात्। आब्दिकस्य च निरग्नेरपि पाकेनैवोक्तेः स्मार्ताग्निसाध्यत्वानियमात् 'तामपरुध्य' इतिवत् पूर्वोक्तवचनसत्त्वाच्च। कथं च भार्यान्तरसत्त्वेऽधिकारः ? ‘ज्येष्ठया न विनेतरा' इति नियमात्। ज्येष्ठापरत्वे च तेनैव सिद्धेर्वचनवैयर्थ्यात्। न द्वितीयः; अविभक्तभ्रातृष्वेकस्याऽशुचित्वेऽन्यस्यान-धिकारापत्तेः। न तृतीयः, प्रवासनिर्दशसूतिकारोगिण्यादिष्वप्यकरणापत्तेः। 'आरभेत नवैः पात्रैरन्नारम्भं च बान्धवैः।' इति देवलोक्तावात्मनेपदात्स्वस्य बान्धवानां च पाककर्तृत्वोक्त्या विरोधाच्च।अथ–'ततस्तानि पपाचाशु सीता जनकनन्दिनी।' इति पाद्मादिलिङ्गात् प्राशस्त्यं भार्यापाकस्योच्यते। न तत्कस्याप्यनिष्टम्; तेनैतद्वचनं युक्त्याद्यभावात् पूर्वोक्तवचोविरोधाच्च यत्किञ्चिदेव। यदपि- 'श्राद्धयाहनि सम्प्राप्ते यस्य भार्या रजस्वला। श्राद्धं तत्र न कर्तव्यं कर्तव्यं पञ्चमेऽहनि॥ इति श्लोकगौतम–पाठोऽन्यथा दर्शितः। माधवीये च तद्वशात्पक्षान्तरमुक्तम्। तेनापि नाभिप्रेतार्थसिद्धिः, यस्य प्रेतस्येत्यर्थात्। तेनात्र हेमाद्रिर्बभ्रामेति बहुवक्तव्येऽपि नोच्यते॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬