🕉️ 24 November 2026, Tuesday · 08:07:45 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 67/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

आन्वारोहणे निर्णयः

अथान्वारोहणे निर्णयः । लौगाक्षिः– 'मृताहनि समासेन पिण्डनिर्वपणं पृथक्। नवश्राद्धं च दम्पत्योरन्वारोहण एव तु॥' समासेन तन्त्रेण द्विपितृकश्राद्धवद्द्वयोरेकः पिण्डो विप्रश्च। ‘पिण्ड’शब्दः श्राद्धपरः। नवश्राद्धं पृथगिति हेमाद्रि-पृथ्वीचन्द्रौ। अत्र मृताहनीत्येकत्वात् दिनभेदे दिनैक्ये वा मृततिथेरेकत्वे कालैक्यं कर्त्रैक्यं पाकैक्यं च; 'एकचित्यधिरोहे तु तिथिरकैव जायते। एकपाकेन पिण्डैक्ये द्वयोगृह्णीत नामनी॥' इति स्मृत्यन्तराच्च। अन्त्येष्टिपद्धती भट्टैरप्युदाहृतम्– 'अन्वारोहे तु नारीणां पत्युश्चैकोदकक्रिया। पिण्डदानक्रिया तच्छ्राद्धं प्रत्याब्दिकं तथा॥ नवश्राद्धानि सर्वाणि सपिण्डीकरणं पृथक्। एक एव वृषोत्सर्गो गौरेका तत्र दीयते॥' इति। तिथिभेदे तु वार्षिकं पृथगेव। तथा वार्षिके समासविधानादन्यत्र सर्वत्र पृथक्त्वे प्राप्ते नवश्राद्धमेव पृथगिति परिसङ्ख्ययाऽन्यत्र पृथगुक्तेष्वपि वार्षिकषोडशश्राद्धतीर्थसपिण्डनान्वष्टक्यादिषु समास एवेति मदनपरिजात-निर्णयामृतादयः। अतः समास विधिबलात् ज्येष्ठपुत्रस्य कर्तृत्वे सापत्नमातुरन्वारोहणे तत्पुत्रे सत्यपि तद्वार्षिकादिकमविभक्तः सापत्नपुत्र एव ज्येष्ठः कुर्यान्नौरसः। वक्ष्यमाणपृथ्वीचन्द्रादिमते तु औरस एव मातुः पृथक्कुर्यात्। एवं बह्वीष्वपि मातृषु ज्ञेयम्। त्रिस्थलीसेतौ पितामहचरणैरप्येवमुक्तम्। यत्तु–गार्ग्यः 'एकचित्यां समारूढौ दम्पती निधनं गतौ। पृथक् श्राद्धं तयोः कुर्यादोदनं च पृथक् पृथक्॥' ओदनं=पिण्डः, -तन्नवंश्राद्धविषयम्। यत्तु – भृगुः 'या समारोहणं कुर्याद्भर्तुश्चित्यां पतिव्रता। तां मृताहनि सम्प्राप्ते पृथपिण्डे नियोजयेत्॥ प्रत्यब्दं च नवश्राद्धं युगपत्तु समापयेत्॥' तद्येषां वार्षिकमेकोद्दिष्टमुक्तं तद्विषयम्। प्रत्यब्दं च मृताहनीत्यन्वयः। नवश्राद्धं युगपदिति दर्शे वर्गद्वयवदेकतन्त्रेण पृथगित्यर्थमाह हेमाद्रिः। एतन्मृततिथेर्भेदविषयमिति पृथ्वीचन्द्र-निर्णयामृताद्याः। देवयाज्ञिकोऽप्येवम्। पराशर-माधवस्तु-गार्ग्यभूग्वादिवचनाल्लौगाक्षिवाक्ये समासेन पाकादितन्त्रैक्येन दर्शे वर्गद्वयवत्पृथक्श्राद्धं कुर्यात् नवश्राद्धं च तथा' इत्याह।

पृथ्वीचन्द्र-चन्द्रिकादयस्तु– 'द्वयोरेकपिण्डदानं लौगाक्षिवचनं चापद्विषयम्। पृथक् पिण्डदानं तु मुख्यः कल्पः'। तदाह वृद्धपराशरः– 'आरुह्य भर्तुश्चितिमङ्गना या प्राप्नोति मृत्युं खलु सत्त्वयुक्ता। एकादशाहे तु तयोर्विधेयं श्राद्धं पृथक् स्वर्गमपेक्ष्य सद्भिः॥ एकत्वमिच्छन्ति मतिप्रहीणा एकादशाहादिषु ये नृनार्योः। ते स्वर्गमार्गं विनिहत्य कुर्युः स्त्रीसत्त्वघातान्नरकाधिवासम्॥ भर्त्रा सह मृता या तु नाकलोकमभीप्सती। साहेच्छ्राद्धं पृथक्पिण्डान् नैकत्वं तु स्मृतं तयोः॥ पृथगेव हि कर्तव्यं श्राद्धमेकादशाहिकम्। यानि श्राद्धानि सर्वाणि तान्युक्तानि पृथक्पृथक्॥' विश्वादर्शेऽपि–'मातुर्गयाष्टकावृद्धिमृताहेषु महालये। श्राद्धं कुर्यात्पृथग्दैवं तत्रं चानुगतावपि॥ एकचित्यां समारुह्य मृतयोरेकबर्हिषि। पित्रोः पिण्डान्पृथग्दद्यात्पिण्डं त्वापत्सु तत्सुतः॥' इत्यग्निस्मृतेरियाहुः। यत्तु– षट्त्रिंशन्मते 'एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके। न पृथक् पिण्डदानं तु तस्मात्पत्नीषु विद्यते॥' इति, -तद्दर्शादिपरम्। चन्द्रप्रकाशेऽपि– एकचित्यां समारूढौ दम्पती प्रमृतौ यदि। पृथक् श्राद्धं प्रकुर्वीत पत्युरेव क्षयेऽहनि॥ मृतानामपि भृत्यानां भार्याणां पतिना सह। पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः पुनः॥ तन्त्रेण श्रपणं कृत्वा श्राद्धं स्वामिक्षयेऽहनि। तृतीयस्य ततः कुर्यात्सन्निपातेष्वयं क्रमः॥' इति।

सहगमने सर्वत्र श्राद्धार्थमेकपाक इत्याह मदनरत्ने प्रचेताः– 'एकचित्यां समारूढौ म्रियेते दम्पती यदि। तन्त्रेण श्रपणं कुर्यात्पृथक् पिण्डं समावपेत्॥' पृथ्वीचन्द्रोदयेऽप्येवम्। अत्र भर्तुराशौचमध्येऽन्यदिनेऽनुगमनेन स्त्रीमरणे पतिमरणदिनगणनयाशौचपिण्डदानैकादशाहादि कार्यम्। नात्र पक्षिणीवृद्धि; 'मृतं पतिमनुव्रज्य पत्नी चेदनलं गता। न तत्र पक्षिणी कार्या पैतृकादेव शुद्ध्यति॥ पुत्रोऽन्यो वाऽग्निदस्तस्यास्तावदेवाशुचिस्तयोः। नवश्राद्धं सपिण्डं च युगपत्तु समापयेत्।' इति षडशीतिमतात्, 'यदा नारी विशेदग्निं प्रियस्य प्रियवाञ्छया। तदाशौचं विधातव्यं भर्त्राशौचक्रमेण हि॥' इति लघुहारीतोक्तेश्च। भर्त्राशौचोत्तरमन्वारोहणे तु त्र्यहमाशौचम्; 'ऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी। त्र्यहाशौचे तु निर्वृत्ते श्राद्धं प्राप्नोति शास्त्रतः॥' इति ब्राह्मोक्तेरिति पृथ्वीचन्द्रापरार्कौ । एतदन्वारोहणे एव न त्वेकचितौ। ऋग्वेदवादः 'इमा नारीरविधवाः' इत्यादिः। एतत्सवर्णापरमित्यन्ये।

स्मार्तगौडास्तु- 'देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्वयम्।' इत्युपक्रम्य, ब्राह्मे– ‘त्र्यहाशौचे तु निर्वृत्ते' इत्युक्तेर्भर्त्राशौचोत्तरमन्वारोहणे त्र्यहः, सहगमने तु पूर्ण दशाहादि। पिण्डास्तु दशापि सहैव। तथा च जनक-शूलपाणि-शुद्धितत्त्वधृतव्यासः– 'संस्थितं पतिमालिङ्ग्य प्रविशेद्या हुताशनम्। तस्याः पिण्डादिकं ज्ञेयं क्रमशः पतिपिण्डवत्॥ अन्विता पिण्डदानं तु यथा भर्तुर्दिने दिने। तदन्वारोहिणी यस्मात्तस्मात्सा नात्मघातिनी॥' इति विष्णूक्तेश्च । पृथक्चितौ तु भर्त्राशौचमध्ये तदूर्ध्वं वा सत्यां त्र्यहेण दशपिण्डाः; ‘अन्वितायाः प्रदातव्या दशपिण्डारूयहेण तु। स्वाम्याशौचे व्यतीते तु तस्याः श्राद्धं प्रदीयते॥' इति तत्रैव पैठीनसिस्मृतेः। भर्त्राशौचोत्तरं मृतौ तु चतुर्थेऽह्नि श्राद्धम्। शूलपाणिना त्विदमग्निपुराणीयत्वेनोक्तम्; युद्धहतस्य सद्यःशौचे त्वन्वारोहणे त्रिरात्रम्। एकचितौ तु 'संस्थितं पतिम्' इति प्रागुक्तव्यासोक्तेः सद्यःशौचमित्याहुः। अन्यसपिण्डाशौचमध्ये विदेशमृतान्वारोहणं त्वनाशङ्क्यकमेव शुचिताया अङ्गत्वात्। अन्ये तु - रजोवत्याः सूतिकायाश्चानुगमननिषेधादित-राशौचस्यानिषेधः, अन्यथा प्रत्यक्षभर्तृमरणे का गतिरित्याहुः, -तन्मूलवचनं विना चिन्त्यमेव। स्मृत्यर्थसारेऽपि– 'सहगमने सर्वत्र श्राद्धपिण्डादौ पाकैक्यं कालैक्यं कर्त्रेक्यं चेति'। या तु पतिमुद्दिश्याऽन्यकालेऽन्यतिथावन्वारूढा तस्याः श्राद्धं तत्क्षयतिथौ कार्यं, न भर्तृतिथौ; 'पारणे मरणे नृृणां तिथिस्त त्कालिकी स्मृता।' इति स्कान्दात्, तिथिरेकैव जायते' इत्यादिवचनाचेति मदनरत्न-पारिजातपृथ्वीचन्द्रादयः। अन्ये तु तस्याः पतिमरणेन मृतप्रायत्वात्, 'सहाग्रतः पृष्ठतो वा तद्भक्त्या म्रियते यदि। तस्याः श्राद्धं प्रदातव्यं पृथक् पत्युः क्षयेऽहनि॥' इति स्मृत्यन्तरात्, 'अग्रतः पृष्ठतो वापि तद्भक्त्या म्रियते यदि। तस्याः श्राद्धं सुतैः कार्यं पत्युरेव क्षयेऽहनि॥' इति पुराणसमुच्चयाच्च भर्तृतिथावेवेत्याहुः, -अत्र मूलं चिन्त्यम्। अत्र विशेषो हेमाद्रौ स्मृत्यन्तरे– 'माता मङ्गलसूत्रेण म्रियते यदि तद्दिने। उद्दिश्य विप्रपङ्क्तौ तां भोजयेच्च सुवासिनीम्॥'

श्राद्धसम्पाते निर्णयः

अथ श्राद्धसम्पाते निर्णयः। अत्र पित्रोर्मृततिथ्येकत्वे मरणक्रमेण दर्शे वर्गद्वयवत्तन्त्रेण श्राद्धं कुर्यात्। पौर्वापर्याज्ञाने तु पितृपूर्वकं कुर्यादिति हेमाद्रिः। माधवादयस्तु- 'पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा। पितृपूर्व सुतः कुर्यादन्यत्रासन्नियोगतः॥' इति कार्ष्णाजिनिस्मृतेः, सर्वत्र पितृपूर्वं भिन्नप्रयोगमाहुः। पार्वणैकोद्दिष्टयोः सम्पाते माधवीये जाबालिः– 'यद्येकत्र भवेयातामेकोद्दिष्टं च पार्वणम्। पार्वणं त्वभिनिर्वर्त्य एकोद्दिष्टं समाचरेत्॥' गृहदाहादिना युगपन्मरणे भृगुः– 'एककाले गतासूनां बहूनामथवा द्वयोः। तत्रेण श्रपणं कृत्वा कुर्याा पृथक् पृथक्। पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः पुनः। तृतीयस्य ततः कुर्यात्सन्निपातेष्वयं क्रमः॥ ऋष्यशृङ्गः– 'भवेद्यदि सपिण्डानां युगपन्मरणं तदा।सम्बन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेत्॥' गारुडे– 'एकेनैव तु पाकेन श्राद्धानि कुरुतेऽत्र हि। विकिरं त्वेकतः कुर्यात् पिण्डान् दद्यात्पृथक्पृथक्॥’–अत्रानुगमने च दाहसपिण्डनादौ विशेषं वक्ष्यामः।अत्रिः–'बहूनामथवा द्वाभ्यां श्राद्धं चेत्स्यात्समेऽहनि। तन्त्रेण श्रपणं कृत्वा पृथक् श्राद्धानि कारयेत्॥' पुलस्त्यः–'महालये गयाश्राद्धे गतासूनां क्षयेऽहनि। तन्त्रेण श्रपणं कृत्वा श्राद्धं कुर्यात् पृथक्पृथक्॥' इदं च पृथक्पाकेन भिन्नश्राद्धाशक्तौ। पृथक्पाकेन सम्बन्धासत्त्या श्राद्धभेदस्तु मुख्यः पक्षः,‘एकत्रैव दिने श्राद्धद्वयं प्राप्तं यदा तदा। चरेदेव पुरा वर्षात् पितुर्मातुश्च तत्सुतः॥ एकस्मिन्यः करोत्यह्नि द्वयोः श्राद्धं यदा द्विजः। तदा पूर्वमृतस्यादौ कृत्वा स्नात्वा यथाविधि॥ पश्चात् पश्चान्मृतस्यैव पृथक्पाकैः समाचरेत्। नैकस्मिन् दिवसे श्राद्धं त्रयाणां कुत्रचिद्विजः॥ एकः कुर्यात्तथा प्राप्ते अन्यो भ्राता समाचरेत्॥ भ्रातर्यविद्यमाने तु तत्परेऽह्नि समाचरेत्॥ अन्यथा श्राद्धहन्ता स्याच्छ्राद्धसङ्करद्भवेत्॥' इत्याश्वलायनोक्तेरिति पृथ्वीचन्द्रः। कात्यायनः– 'द्वे बहूनि निमित्तानि जायेरन्नकवासरे। नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात्।' जाबालिः– 'श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने। नैमित्तिकं तु कर्तव्यं निमित्तानुक्रमोदयम्॥' कालादर्शे– 'नित्यदार्शिकयो चोदकुम्भमासिकयोरपि। दार्शिकस्य युगादेच दार्शिकालभ्ययोगयोः॥ दार्शिकस्य च मन्वादेः सम्पाते श्राद्धकर्मणः। प्रसङ्गादितरस्यापि सिद्धेरुत्तरमाचरेत्॥' अस्य देवताभेदेऽपवादमाह स एव– 'नित्यस्य चोदकुम्भस्य नित्यमासिकयोरपि। दर्शस्य चोदकुम्भस्य दर्शमासिकयोरपि॥ नित्यस्य चाब्दिकस्यापि दार्शिकाब्दिकयोरपि। युगाद्याब्दिकयोश्चैव मन्वाद्याब्दिकयोस्तथा॥ प्रत्याब्दिकस्य चालभ्ययोगेषु विहितस्य च। सम्पाते देवताभेदाच्छ्राद्धयुग्मं समाचरेत्॥ निमित्तानियतिश्चात्र पूर्वानुष्ठानकारणम्। पित्रोस्तु पितृपूर्वत्वं सर्वत्र श्राद्धकर्मणि॥' माधवीये स्मृतिसङ्ग्रहे– 'काम्यतत्रेण नित्यस्य तन्त्रं श्राद्धस्य सिद्ध्यति॥ '

पितृतर्पणम्।—

अथ श्राद्धातर्पणम्। पारिजाते पृथ्वीचन्द्रोदये च गर्गः– 'पूर्व तिलोदकं कृत्वा अमाश्राद्ध तु कारयेत्। प्रत्यब्दे न भवेत्पूर्वे परेऽहनि तिलोदकम्॥ पक्षश्राद्धे हिरण्ये च अनुव्रज्य तिलोदकम्॥' नच नित्यतर्पणस्यैवायं परेऽह्न्युत्कर्षः, न तु श्राद्धाङ्गतर्पणमस्तीति वाच्यम् ; 'यस्तर्पयति तान् विप्रः श्राद्धं कृत्वा परेऽहनि। पितरस्तेन तृप्यन्ति न चेत्कुप्यन्ति वैभृशम्॥' इति गर्गेण फलनिन्दार्थवादाभ्यामङ्गत्वेनोक्तेः।

श्राद्धप्रक्रमाद्वार्षिकम्। बृहन्नारदीयेऽप्याब्दिकं प्रक्रम्य,– 'परेद्यु श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन्। तस्य ते पितरः क्रुद्धाः शापं दत्त्वा ब्रजन्ति हि॥' 'पितृ' शब्दश्च श्राद्धेज्यवर्गपरः। तेन तर्पणस्य पशुपुरोडाशयागवत् प्रस्तरप्रहरणवच्चेष्टदेवतासंस्कारकता। तेनाब्दिकदिने नित्यं स्वपित्रादितर्पणं कार्यमेव; श्राद्धाङ्गभूतस्यैव परेधुरुक्तेः। तदुक्तम्– 'प्रत्यब्दाङ्गं तिल दद्यानिषिद्धेऽपि परेऽहनि। वर्गैकस्य वचो येषामन्येषां तु विवर्जयेत्॥'

क्वचिद्विशेषमाह गर्गः– 'कृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं भवेत्। पितॄणां प्रत्यहं कार्ये निषिद्धाहेऽपि तर्पणम्॥' तर्पणं=तिलतर्पणम् ; निषिद्धाहेऽपीत्युक्तेः। 'सकृन्महालये श्वः स्यादष्टकास्वन्त एव हि।' अत्र सप्तमीनिर्देशात् अङ्गिता स्फुटैव। तत्र जयान् जुहुयात् मन्द्रं प्रापणीयायां मन्द्रं प्रातःसवने इत्यादिवत्। अस्यापवादो बृहन्नारदीये– 'वृद्धिश्राद्धे सपिण्ड्यां च प्रेतश्राद्धेऽनुमासिके। संवत्सरविमोके च न कुर्यात्तिलतर्पणम्॥' तदयमर्थः– दर्शे विप्रनिमन्त्रणोत्तरं पाकारम्भोत्तरं वा श्राद्धप्रयोगस्यारव्यत्वात् ब्रह्मयज्ञोत्तरं नित्यतर्पणेनैव श्राद्धाङ्गतर्पणस्य तन्त्रेण प्रसङ्गेन वा सिद्धिः। ततः पूर्वं वैश्वदेवोत्तरं वा ब्रह्मयज्ञकरणे श्राद्धाङ्गतर्पणं पृथक्कार्यम्। पित्रोर्वार्षिके तु नित्यतर्पणं तिलवर्ज्यं कार्यम् ; 'नैव श्राद्धदिने कुर्यात्तिलैस्तु पितृतर्पणम्। श्राद्धं कृत्वाऽपराह्णे च तर्पणं तु तिलैः सह॥' इति वचनात्। 'सप्तम्यां भानुवारे च मातापित्रोमृतेऽहनि। तिलैर्यस्तर्पणं कुर्यात्स भवेत् पितृघातकः॥' इति स्मृतिरत्नावल्यां वृद्धमनूक्तेश्च। अत्र नित्यतर्पणे तिलमात्र निषेधो नतु तर्पणस्य; तिलैरित्यस्य वैयर्थ्यापत्तेः। यत्तु– कातीयम् 'उपरागे पितुः श्राद्धे पातेऽमायां च सङ्क्रमे। निषिद्धेऽपि हि सर्वत्र तिलैस्तर्पणमाचरेत्॥' इति, -तत् परेयुः श्राद्धाङ्गतर्पणविषयमिति केचित्। श्राद्धाशक्तस्य तत्स्थानापन्नतर्पणविषयमिति युक्तम्। सकृन्महालये परद्युस्तर्पणम्। अष्टकासु तु सप्तम्यष्टमीश्राद्धयोरन्ते तदैव वर्गद्वयस्य। अन्वष्टक्ये तु मातृवर्गस्यापि तीर्थश्राद्धे दर्शवत्। माध्यावर्षादिष्वष्टकावदन्ते। अनेकश्राद्धसम्पाते तु यदि तत्प्रसङ्गसिद्धिस्तदा तदीयमेव तर्पणम्। तन्त्र त्वे तु श्राद्धसमसङ्ख्यत्वे आदावन्ते वा। विषमसङ्ख्यायां बहनुरोध इति। तस्माच्छ्राद्धाङ्गतर्पणं सिद्धम्।

तद्विधिः सङ्ग्रहे– 'स्नात्वा तीरं समागत्य उपविश्य कुशासने। तर्पयेत पितॄन् सर्वान् स्नात्वा वस्त्रं च धारयेत्॥' तर्पणोत्सरं नित्यस्नानं कृत्वेत्यर्थः। 'अपसव्यं ततः कृत्वा सव्यं जान्वाच्य भूतले। नामगोत्रस्वधाकारैर्द्वितीयान्तेन तर्पयेत्॥' अत्र वस्वादिरूपतोक्ता स्मृत्यर्थसारे– 'वसुरुद्रादितिसुतान् श्राद्धार्थे तर्पयेत् पितॄन्।' तच्च बह्वृचानां दक्षिणेनैव; 'दक्षिणं प्रतीयादनादेशे' इति सूत्रात्। अत्र प्रत्यञ्जलि मन्त्रावृत्तिः। निर्वापवत्तत्संध्यार्घ्यदानवच्च द्रव्यभेदात्। अवघातवेदिप्रोक्षणादौ तु द्रव्यैकत्वान्न मन्त्रावृत्तिः। केचित्तु– परिव्याणमन्त्रवत्क्रियमाणानुवादित्वेन करणत्वाभावात्सकृदिच्छन्ति, तन्न; तत्र यूपद्रव्यैक्यात् परवीरसीतिकरणीभूतमन्त्रान्तरसत्त्वादन्यतरेण व्यवधानापत्त्योभयोः करणत्वायोगात् कर्त्रभेदेन विकल्पायोगाच्च क्रियमाणानुवादित्वं नत्वत्र तथेति बौधायनादिवचनात् करणत्वमेव। तेनावृत्तिरेव युक्ता। एवं नित्येऽपि। यत्तु– सङ्ग्रहे नाम्ना पठन्ति– 'पित्रोः क्षयाहे सम्प्राप्ते यः कुर्यान्नित्यतर्पणम्। आसुरं तद्भवेच्छ्राद्धं तत्तोयं रुधिरं भवेत्॥ सर्वदा तर्पणं कुर्याद्ब्रह्मयज्ञपुरःसरम्। मृताहे नैव कर्तव्यं कृतं चेन्निष्फलं भवेत्॥' तत् समूलत्वे सति तिलविषयम्। यच्च पठति, कपिलः– 'मन्वादिषु युगाद्यासु दर्शसङ्क्रमणेषु च। पौर्णमास्यां व्यतीपाते दद्यात् पूर्वं तिलोदकम्॥ अर्धोदये गजच्छाये षष्ठ्यां चैव महालये। भरण्यां च मघाश्राद्धे तदन्ते तर्पणं विदुः॥' शौनकः–मातापित्रोर्मृताहे च परेऽहनि तिलोदकम्। कारुण्यश्राद्धविषये सद्यो दद्यात्तिलोदकम्॥ - एतन्निर्मूलम्॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬