🕉️ 24 November 2026, Tuesday · 08:08:03 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 68/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

तिलतर्पणनिषेधः

अथ तिलतर्पणनिषेधः। गार्ग्यः–'भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च। पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्॥' स्मृत्यर्थसारे– 'विवाहव्रतचूडासु वर्षमर्ध तदर्धकम्।' अर्धं तदेव। 'वृद्धौ सत्यां च तन्मासि नेत्याहुस्तिलतर्पणम्।' हेमाद्रौ मरीचिः– 'सप्तम्यां रविवारे च गृहे जन्मदिने तथा। निशासन्ध्यासु पुत्रार्थी न कुर्यात्तिलतर्पणम्॥' यत्तु– सङ्ग्रहे 'नन्दायां भार्गवदिने कृत्तिकासु मघासु च। भरण्यां भानुवारे च गजच्छायाह्वये तथा॥ अयनद्वितये चैव मन्वादिषु युगादिषु। पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्॥' इति, तच्चिन्त्यम्; 'पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः।' इत्यदिविरोधात्। अत्रापवादः पृथ्वीचन्द्रोदये– 'तीर्थे तिथिविशेषे च गयायां प्रेतपक्षके। निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम्॥' स्मृत्यर्थसारेऽपि–‘तिथितीर्थविशेषेषु कार्ये प्रेते च सर्वदा।' इति। गोभिलः–‘तिलाभावे निषिद्धाहे सुवर्णरजतान्वितम्। तदभावे निषिञ्चेतु दर्भमन्त्रेण वा पुनः॥' पतितस्य तिलोदकं वक्ष्यामः॥

वृद्धिश्राद्धम्

अथ वृद्धिश्राद्धम्। तन्निमित्तं पृथ्वीचन्द्रोदये ब्राह्मे– 'जन्मन्यथोपनयने विवाहे पुत्रकस्य च। पितृन्नान्दीमुखान्नाम तर्पयेद्विधिपूर्वकम्॥ वेदवतेषु चाधानयज्ञपुंसवनेषु च। नवान्नभोजने स्नाने ऊढायाः प्रथमार्तवे॥ देवारामतडागादिप्रतिष्ठासूत्सवेषु च। राजाभिषेके बालान्नभोजने वृद्धिसञ्ज्ञकान्॥ वनस्थाद्याश्रमं गच्छन् पूर्वेद्युः सद्य एव वा। पितृन्पूर्वोक्तविधिना तर्पयेत्कर्मसिद्धये॥’ ‘आदि 'पदात्सन्न्यासः। विष्णुपुराणे–'यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः। पुत्रोत्पत्तौ वृषोत्सर्गे वृद्धिश्राद्धं समाचरेत्॥' तत्रैव– 'नामकर्मणि बालानां चूडाकर्मादिके तथा।' इत्युक्तेर्निष्कमान्नप्राशनयोर्न श्राद्धमिति मैथिलाः, तन्न; पूर्वोक्तविरोधात्, 'नानिष्ट्वा' इति निषेधात्। 'सुतोत्पत्तौ तथा श्राद्धमन्नप्राशनिके तथा।' इति राजमार्तण्डाच्च। यत्तु - छन्दोगपरिशिष्टम् 'सूर्येन्द्रोः कर्मणी ये च तयोः श्राद्धं न विद्यते।' इति, तत्तेषामेवेति कल्पतरुः। बह्वृचकारिकायाम्– 'स्यादाभ्युदयिकं श्राद्धं वृद्धिपूर्तेषु कर्मसु। पुंसः सवनसीमन्तचौलोपनयनेष्विह॥ विवाहे चानलाधेयप्रभृतिश्रौतकर्मसु। इदं श्राद्धं प्रकुर्वन्ति द्विजा वृद्धिनिमित्तकम्॥ अन्यैः षोडशसंस्कारश्रावण्यादिष्वपीष्यते। वाप्याद्युद्यापनादौ तु कुर्युः पूर्तनिमित्तकम्॥' बोपदेव-काला-दर्शौ– 'सीमन्तव्रतचौलनामकरणान्नप्राशनोपायनस्नानाधानविवाहयज्ञतनयोत्पत्तिप्रतिष्ठासु च। पुंसूत्यावसथप्रवेशनसुताद्यास्यावलोकाश्रमस्वीकारक्षितिपाभिषेकदयिताद्यर्तौ च नान्दीमुखम्॥ यत्तु–कामधेनौ–'जलाशयप्रतिष्ठायां वृषोत्सर्गादिकर्मसु। वत्सराभ्यन्तरे पित्रोर्वृषस्योत्सर्गकर्मणि॥ वृद्धिश्राद्धं न कुर्वीत तदन्यत्र समाचरेत्॥' इति। तत्र जलाशये वृद्धिश्राद्धस्य निषेधः, न तु कर्माङ्गस्येति केचित्। अन्ये त्वस्य निर्मूलतामाहुः। श्राद्धकौमुद्यां निर्णयामृते च मात्स्ये– 'अन्नप्राशे च सीमन्ते पुत्रोत्पत्तिनिमित्तके। पुंसवे च निषेके च नववेश्मप्रवेशने॥ देववृक्षजलादीनां प्रतिष्ठायां विशेषतः। तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्तितम्॥ - इदं चावश्यकम् ; 'वृद्धौ न तर्पिता ये वै पितरो गृहमेधिभिः। तद्धीनमफलं ज्ञेयमासुरो विधिरेव सः॥' इति शातातपोक्तेः। अत्र श्राद्धत्रयं स एवाह - 'मातृश्राद्धं तु पूर्वं स्यात्पितॄणां तदनन्तरम्। ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम्॥ '

तत्कालमाह पृथ्वीचन्द्रोदये गार्ग्यः– 'मातृश्राद्धं तु पूर्वेधुः कर्माहनि तु पैतृकम्। मातामहं चोत्तरेयुर्वृद्धौ श्राद्धत्रयं स्मृतम्॥' अत्राप्यशक्तौ स एव– 'पृथग्दिनेष्वशक्तश्चेदेकस्मिन् पूर्ववासरे। श्राद्धत्रयं प्रकुर्वीत वैश्वदेवं तु तात्रिकम्॥' इति। वृद्धमनुरपि– 'अलाभे भिन्नकालानां नान्दीश्राद्धत्रयं बुधः। पूर्वेद्युर्वे प्रकुर्वीत पूर्वाह्णे मातृपूर्वकम्॥' अत्र ‘महत्सु पूर्वेद्युस्तदहरल्पेषु' इति गृह्यपरिशिष्टाद्वयवस्था ज्ञेया। तच्च प्रातरेव; 'पार्वणं चापराह्णे तु प्रातर्वृद्धिनिमित्तकम्।' इति शातातपोक्तेः। अत्र 'प्रातः' - शब्दः सार्धप्रहरपरः; ‘प्रहरोऽप्यर्धसंयुक्तः प्रातरित्यभिधीयते।' इति गार्ग्योक्ते रिति पृथ्वीचन्द्रः। –इदं च पुत्रजन्मातिरिक्तविषयम्। तदाहात्रिः–'पूर्वाह्णे वै भवेद्वृद्धिर्विना जन्मनिमित्तकम्। पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः' इति। एतदनियतनिमित्तपरम् ; 'नियतेषु निमित्तेषु प्रातर्वृद्धिनिमित्तकम्। तेषामनियतत्वे तु तदानन्तर्यमिष्यते॥' इति लौगाक्षिस्मृतेः। आधानाङ्गं नान्दीश्राद्धं त्वपराहु एव; 'आमश्राद्धं तु पूर्वाह्णे सिद्धान्नेन तु मध्यतः। पार्वणं चाऽपराहे तु वृद्धिश्राद्धं तथाग्निकम्॥” इति निर्णयामृते गालवोक्तेः; 'नान्दीमुखाद्वयं प्रातरौग्निकं त्वपराहृतः।' इति विष्णुक्तेश्च।

इदं च मातृ–पितृ–मातामहादिक्रमेण नवदैवत्यं कार्यम्। तत्र मातामहाः सपत्नीकाः; 'वृद्धप्रमातामहप्रमातामहमातामहानां सपत्नीकानाम्' इति पृथ्वीचन्द्रोदये गारुडे गद्यरूपेण पाठात्। हेमाद्रौ शङ्खः– 'नान्दीमुखे सत्यवसू सङ्कीर्त्यौ वैश्वदेविके।' वृद्धपराशरः– 'नान्दीमुखेभ्यो देवेभ्यः प्रदक्षिणकुशासनम्। पितृभ्यस्तन्मुखेभ्यश्च प्रदक्षिणमिति स्मृतिः॥' यत्तु– वृद्धवसिष्ठः 'नान्दीमुखे विवाहे च प्रपितामहपूर्वकम्। नाम सङ्कीर्तयेद्विद्वानन्यत्र पितृपूर्वकम्॥', यच्च स्मृत्यर्थसारे 'वृद्धमुख्यास्तु पितरो वृद्धिश्राद्धेषु भुञ्जते।' इति, यच्च–गारुडे व्युत्क्रमप्रतिपादनं तच्च शाखान्तरविषयम्; 'पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः' इति बह्वृचपरिशिष्टे कात्यायनेन चानुलोम्याम्नानात्। पृथ्वीचन्द्रोदयेप्येवं यत्तु– केचिद्वृद्धपदं पित्रादिषु प्रयुञ्जते, तन्न; 'अनस्मद्वृद्धशब्दानामरूपाणामगोत्रिणाम्। अनाम्नामतिलाद्यैश्च नान्दीश्राद्धं तु सव्यवत्॥' इति पृथ्वीचन्द्रोदये सङ्ग्रहोक्तेः। नच निषेधादेव विधिः कल्प्यत इति वाच्यम्। प्रौष्ठपदीश्राद्धे प्रपितामहात्परेषां वृद्धपित्रादीनां देवतात्वान्नान्दीश्राद्धत्वसामान्येनेहापि तत्प्राप्तौ निषेधात्। गोत्रनामादिनिषेधस्तु– 'शुभार्थी प्रथमान्तेन वृद्धौ सङ्कल्पमाचरेत्।' इत्युपक्रम्य 'अनस्मद्वृद्धशब्दानाम्' इत्युक्तेः सङ्कल्पश्राद्ध परः। 'सपिण्डके तु सर्वं भवति' इति प्रयोगपारिजातात्। 'गोत्रनामभिरामध्य पितृभ्योऽर्ध्य प्रदापयेत्।' इति छन्दोगपरिशिष्टे तद्विधानात्। यत्तु – ब्राह्मे 'पिता पितामहश्चैव तथैव प्रपिताधिताः। महः। त्रयो ह्यश्रुमुखा ह्येते पितरः परिकीर्तिताः॥ तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखै– ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते॥' इति, यच्च – मार्कण्डेयपुराणे 'ये स्युः पितामहादूर्ध्वं ते तु नान्दीमुखाः स्मृताः।' इति, तज्जीवत्पित्रादि त्रिककर्तृकवृद्धिश्राद्धविषयम्। तेन तस्येदमावश्यकम्। यत्तु – विष्णुः 'पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात्' इति, –तद्दर्शादिविषयमिति कल्पतरुः। मदनपारिजातेऽप्येवम्। हेमाद्रिस्तु'नान्दीमुखानां श्राद्धं तु कन्याराशिगते रवौ। पौर्णमास्यां तु कर्तव्यं वराहवचनं यथा॥' इति प्रौष्ठपदीश्राद्धैकवाक्यत्वात्तत्रैव पूर्वेषां देवतात्वमित्याह। अत्र सत्यवसू विश्वेदेवा' इत्युक्तं प्राक्। यत्तु–शातातपः 'मातुः श्राद्धं तु युग्मैः स्याददैवं प्रामुखैः पृथक्।' इति, तद्भिन्नप्रयोगमातृश्राद्धपरं यच्च मार्कण्डेयपुराणे 'विश्वदेवविहीनं तु केचिदिच्छन्ति मानवाः।' इति, तद्भिन्न प्रयोगमातृश्राद्धभिन्न श्राद्धद्धये विश्वदेवविकल्पार्थम्। प्रयोगक्ये तु देवनियमः इति हेमाद्रिः।

एतच्च मातृपूजापूर्वकं कार्यम्। 'अकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत्। तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः॥' इति शातातपोक्तेः। कौर्मेऽपि – 'पुष्पैर्धूपैः सनैवेद्यैर्गन्धाद्यैर्भूषणैरपि। पूजयित्वा मातृगणं कुर्याच्छ्राद्धत्रयं बुधः॥' इति। छन्दोगपरिशिष्टे– 'कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः। पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः॥ प्रतिमासु च शुद्धासु लिखिता वा पटादिषु। अपि बाक्षतपुजेषु नैवेद्यैश्च पृथग्विधैः॥ कुड्यलग्नां वसोर्धारां सप्तधारां घृतेन तु। कारयेत्पञ्चधारां वा नातिनीचां न चोच्छ्रिताम्॥ आयुष्याणि च शान्त्यर्थं जवा तत्र समाहितः। षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्॥' अत्र सर्वेष्विति ग्रहणात् ग्रहयज्ञतद्विकारेष्वपि नित्यं श्राद्धम् ; 'नानिष्ट्वा तु पितॄन् श्राद्धे कर्म किञ्चित्समाचरेत्' इति शातातपोक्तेश्च। इयं च वसोर्धारा तच्छाखीयानां नियता; अन्येषां त्वनियता, 'बह्वल्पं वा स्वगृह्योक्तम्' इत्युक्तेः। करणे त्वभ्युदयः; 'यन्नाम्नातं स्वशाखायाम्' इत्युक्तेः। आयुष्याणि='आनो भद्राः' इत्यादीनि। षड्भ्य इति मात्रादित्रिकोपलक्षणमिति पृथ्वीचन्द्रोदयः। छन्दोगानां षड्दैवत्यम्, अन्येषां नवदैवत्यमित्याशार्कः। मम तु मतं कोकिलमतानुसारिणां मातृमातामहप्रमातामहा इति मात्रा सहैव मातामह श्राद्धकरणात् तद्विषयमिदं षड्भ्य इति।

मातरस्तत्रैवोक्ताः– 'गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः॥ धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह। गणेशेनाधिका ह्येता वृद्धौ पूज्याश्चतुर्दश॥' 'मातरो लोकमातरः' इति सर्वविशेषणं, तेन चतुर्दशत्वम्। यदा 'षोडश' इति पाठस्तदा देवतान्तरम्। चन्द्रिकायां चतुर्विंशतिमते त्वन्या उक्ताः– 'तिस्रः पूज्याः पितुः पक्षे तिस्रो मातामहे तथा। इत्येता मातरः प्रोक्ताः पितुर्मातुः स्वसाऽष्टमी॥' आसां जीवने प्रत्यक्षं पूजनम्, मृतानां त्वक्षतपुञ्जेष्विति हेमाद्रिः । 'ब्रह्माण्याद्यास्तथा सप्त दुर्गाक्षेत्रगणाधिपान्। वृद्ध्यादौ पूजयित्वा तु पश्चान्नान्दीमुखान् पितॄन्॥ मातृपूर्वान् पितॄन् पूज्य ततो मातामहानपि। मातामहीस्ततः केचिद्युग्मा भोज्या द्विजातयः॥' इति। अत्र द्वादशदैवतस्य देशाचाराद्वयवस्था। ब्रह्माण्याद्याः – 'ब्राह्मी माहेश्वरी चैव कौमारी वष्णवी तथा। वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः॥' इत्यपरार्के उक्ताः। अत्र चौलादीनां यौगपद्ये ततोक्ता छन्दोगपरिशिष्टे– 'गणशः क्रियमाणानां मातृभ्यः पूजनं सकृत्। सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु॥' 'मातृभ्यः' इति षष्ठ्यर्थे चतुर्थी। गणशः एकानेक– पुत्राणां संस्कारेष्वेकदिने एकदेशकालकर्त्रेक्यादित्यर्थः। तथा – 'असकृद्यानि कर्माणि क्रियेरन् कर्मकारिभिः। प्रतिप्रयोगं नैव स्युर्मातरः सगणाधिपाः॥' कर्मावृत्तावपि कुत्र श्राद्धं कार्यं क्व च नेत्युक्तं तत्रैव – 'आधाने होमयोश्चैव वैश्वदेवे तथैव च। बलिकर्मणि दर्शे च पूर्णमासे तथैव च॥ नवयज्ञे च यज्ञज्ञा वदन्त्येवं मनीषिणः। एकमेव भवेच्छ्राद्धमेतेषु न पृथक् पृथक्॥' एतेषु प्रतिप्रयोगं नावर्तते, किन्त्वादौ। एतद्भिन्ने सोमयागादौ तु प्रतिप्रयोगमावर्तत एव श्राद्धमित्यर्थः।

क्वचिदादावपि निषेधमाह स एव– 'नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते। न सोध्यन्ती जातकर्मप्रोषितागतकर्मसु॥ विवाहादिः कर्मगणो य उक्तो गर्भाधानं शुश्रुमो यस्य चान्ते। विवाहादावेकमेवात्र कुर्याच्छ्राद्धं नादौ कर्मणः कर्मणः स्यात्॥' सोष्यन्त्याः=आसन्नप्रसवायाः। 'सोष्यन्तीमभ्युक्ष्य' इत्युक्तं कर्म। कात्यायनोक्तस्य श्राद्धस्य पाक–प्राधान्यात्तस्य च– 'जातश्राद्धे न दद्यात्तु पक्कान्नं ब्राह्मणेष्वपि।' इति निषेधान्न जातकर्मणि नान्दीश्राद्धमित्याशार्कः। आमान्नेन वा कार्यमित्यपि तेनैवोक्तम्। गौडास्तु जातकर्मण्येव निषेधः। पुत्रजन्मनिमित्तकं तु कार्यमेव; 'जन्मन्यथोपनयने' इत्युक्तेः। 'नैमित्तिकमथो वक्ष्ये श्राद्धमभ्युदयात्मकम्। पुत्रजन्मनि तत्कार्यं जातकर्मसमं नरैः॥' इति मार्कण्डेयपुराणाच्चेत्याहुः। हारलतायां श्राद्धविवेके चैवम्। एतेन जातकर्मणि कालान्तरे श्राद्धनिषेधो न पुत्रजन्मदिने इति वाचस्पतिमतं परास्तम्। 'अथ निषेककाले' इति वचनात् गर्भाधाने न निषेधः। 'निषेककाले सोमे च सीमन्तोन्नयने तथा। ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं विधिवत्कृतम्॥' इति पारस्करः। प्रोषितेति 'प्रोष्येत्य गृहानुपतिष्ठते पुत्रं दृष्ट्वा जपति' इति विहितं कर्म। विवाहादिः गर्भाधानान्तो यो गृहप्रवेशधृतिहोमचतुर्थीकर्मादिः कर्मसमूह उक्तः सूत्रकारेण, तत्रापि प्रतिकर्म नेत्यर्थः। अन्येऽपि हलाभियोगादयोऽपवादविषयास्तत्रैव ज्ञेयाः। अप्रचारान्नोच्यन्ते।

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬