निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथात्राधिकारिणः। विष्णुपुराणे– 'जातस्य जातकर्मादि क्रियाकाण्डमशेषतः। पिता पुत्रस्य कुर्वीत श्राद्धं चाभ्युदयात्मकम्॥' अत्र केचित्– जीवत्पितुः सानेरेव वृद्धिश्राद्धेऽधिकारो नतु निरनेः; 'न जीवत्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः। येभ्य एव पितादद्यात्तेभ्यः कुर्वीत साग्निकः॥ पितामहेऽप्येवमेव कुर्याज्जीवति साग्निकः। साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे॥' इति चन्द्रिकायां सुमन्तूत्तेरियाहुः। प्रयोगपारिजातेऽप्यनाहिताग्निर्न कुर्यादिति यद्व्याख्यातम्, –तन्न; 'अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि। येभ्य एव पिता दद्यात्तानेवोद्दिश्य तर्पयेत्॥” इति हारीतोक्तेः। सौमन्तवं तु वृद्धिश्राद्धभिन्नश्राद्धपरमित्युक्तं मदनरत्ने। 'श्राद्ध' पदं पिण्डपितृयज्ञपरमिति पृथ्वीचन्द्रोदयः। निर्णयामृते तु हारीतीयेऽनग्निकोऽनाहिताग्निरभिप्रेतः; पूर्ववचने तु साग्निकः श्रौताग्निः स्मार्ताग्निश्चोच्यते, तेनोभयाग्निहीनस्य नेत्युक्तम्, –तन्न; पूर्वोक्तदिशा गतिसम्भवेऽनग्निपदस्य स्मार्ताग्निपरत्वे मानाभावात्, वक्ष्यमाणनित्यानित्यसंयोगविरोधात्, 'पितरो जनकस्येज्या यावद्व्रतमनाहितम्। समाहितव्रतः पश्चात्स्वान्यजेत पितामहान्॥ इति पृथ्वीचन्द्रोदये यमवचोविरोधाच्च। अपरार्कोऽपि– 'समावर्तने ब्रह्मचारी स्वयमेव नान्दीश्राद्धं कुर्यात्' इत्याह। अतः पूर्वमेव साधुः। बोपदेवोऽप्येवमाह । यत्तु–मतं जीवत्पितुः पुत्रनामकर्मादौ न वृद्धिश्राद्धं, हारीतीये – जन्मादावित्यादिशब्देन तत्प्राप्तावपि, –उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके मखे। तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः॥' इति। मैत्रायणीयपरिशिष्टे– 'उद्वाह एव तस्योपसंहारात्। एवं यत्र तु संस्कारादिपदं तदप्युद्वाहादिपरमेव' इति, –तन्न; 'उद्वाह 'पदस्य स्वविवाहपरत्वस्यापि सम्भवात्, पुत्रविवाहपरत्वे मानाभावात्, 'नामकर्मणि बालानां चूडाकर्मादिके तथा ' इत्यादिभिर्नित्यश्राद्धस्य चौलाद्यङ्गत्वावगतौ नित्यानित्यसंयोगविरोधाच्च। अतो जन्मदाविति सर्वसंस्कारसङ्ग्रहः। तथा कात्यायनः– 'स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु। पिण्डानोद्वहनात्तेषां तस्याभावे तु तत्क्रमात्॥' सुतानां चौलादिसंस्कारेषु पिता स्वपितृभ्यः पिण्डान् श्राद्धं 'पिण्डदोऽंशहरश्चैषाम्' इति दर्शनात् ओहनाद्विवाहपर्यन्तं दद्यात्। विवाहश्च प्रथमः, ‘नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे बुधः। अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्॥' इति स्मृतेः। तस्य पितुरभावे तत्क्रमात्, 'असंस्कृतास्तु संस्कार्याभ्रातृभिः पूर्वसंस्कृतैः।’ इति यः कर्तृऋमस्तेन क्रमेण ज्येष्ठ भ्रात्रादिर्दद्यादिति चन्द्रिकादयः।हेमाद्रिस्तु– 'तस्य पितुरभावे यः पितृव्यमातुलादिः संस्कुर्यात्स तत्कमात्संस्कार्यपितृक्रमाद्दद्यान्न तु स्वपितृभ्यः' इति व्याचख्यौ।
समावर्तनस्यापि विवाहप्राचीनसुतसंस्कारत्वात् पितैव नान्दीश्राद्धं कुर्यात्। तदभावे ज्येष्ठभ्रात्रादिः, तदभावे स्वयमेव कुर्यात् ; उपनयनेन कर्माधिकारस्य जातत्वात्। एवमाद्यविवाहेऽपीति पृथ्वीचन्द्रोदय–चन्द्रिकादयः। मदनरत्नेऽप्येवम्। यदा तु पितरि सन्न्यस्ते प्रोषिते पतिते वा धर्मार्थं तत्पुत्रमन्यः सस्कुर्यात्तदा संस्कार्यपितुः पित्रादिभ्यो दद्यात् ; 'पितरो जनकस्येज्या यावद्वतमनाहितम्। समाहितव्रतः पश्चात्स्वान्यजेत पितामहान्॥' इति पृथ्वीचन्द्रोदये यमोक्तेः। जीवत्पितृकस्य विशेषमाह कात्यायनः– 'वृद्धौ तीर्थे च सन्न्यस्ते ताते च पतिते सति। येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः॥' इति। यत्तु – बह्वृचपरिशिष्टे 'जीवत्पिता सुतसंस्कारेषु मातृमातामहयोः कुर्यात्। तस्यां जीवन्त्यां मातामहस्यैव' इति,–तत् तच्छाखीयानामेवेति दिक्। स्मृतितत्त्वादिगौडग्रन्थेषु तु जीवन्मातृकः पितामह्यादिभ्यो वृद्धौ दद्यात्; 'जीवन्तमपि दद्याद्वा प्रेतायान्नोदके द्विजः' इति कात्यायनोक्तेः। 'जीवे तस्मिन्सुताः कुर्युः पितामह्या सहैव तु। तस्यां चैव तु जीवत्यां तस्याः श्वश्र्वेति निश्चयः॥' इति हारीतोक्तेश्चेत्युक्तम्। तस्मिन = भर्तरि। दाक्षिणात्यास्तु– पूर्वोक्तस्य सपिण्डीकरणादिविषयत्वात् 'जीवेत्तु यदि वर्गाद्यस्तं वर्गं तु परित्यजेत्।' इति वचनात्तद्वर्गस्य लोप एवेत्याहुः। यत्तु चन्द्रिकायां पारस्करः – 'निषेककाले सोमे च सीमन्तोन्नयने तथा। ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवच्च तत्॥' इति। तत्र गर्भाधानादौ कर्माङ्गं, जातकर्मादावुक्तं तु बृद्धिश्राद्धं पृथगेव; बृद्धिवदित्युक्तेः। गौडनिबन्धे मात्स्ये– 'अन्नप्राशे च सीमन्ते पुत्रोत्पत्तिनिमित्तके। पुंसवे च निषेके च नववेश्मप्रवेशने॥ देवव्रते जलादीनां प्रतिष्ठायां तथैव च। तीर्थयात्रावृषोत्सर्गे बृद्धिश्राद्धं प्रकीर्तितम्॥' अत्र भूतनिमित्तानां बृद्धित्वम्, भाविनिमित्तानामङ्गत्वम्। 'बृद्धि' शब्दस्तद्धर्मातिदेशार्थ इति जीवतामजीवतां च पिण्डदानमितीतरः; 'जीवतामजीवतां वा देयमेवेति हिरण्यकेतुः' इति निगमात्। 'तस्माज्जीवत्पिता कुर्याद्वाभ्यामेव न संशयः।' इति भविष्योक्तेभ्यामेवेत्यन्यः। एते पक्षाः कलौ निषिद्धाः; 'प्रत्यक्षमर्चनं श्राद्धे निषिद्धं मनुरब्रवीत्। पिण्डनिर्वपणं चापि महापातकसम्मितम्॥' इति पृथ्वीचन्द्रोदये भविष्योक्तेः। चन्द्रिकाप्येवम्। तस्मात् पितरि जीवति श्राद्धानारम्भ एवेत्येकः पक्षः; 'सपितुः पितृकृत्येषु अधिकारो न विद्यते।' इति कात्यायनोक्तेः। 'जीवे पितरि वै पुत्रः श्राद्धकालं विवर्जयेत्।' इति हारीतोक्तेश्च। पितुः पित्रादिभ्यो दद्यादिति सिद्धान्तः; 'ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत्।' इति मनूक्तेः। 'पितुः पितृभ्यो वा दद्यात्सपितेत्यपरा श्रुतिः।' इति कात्यायनोक्तेश्च। अयं बहुसम्मतः पक्षः। अन्ये तु शाखाभेदेन ज्ञेयाः। एवं जीवन्मातामहेनाप्यूहेन कार्यम्; 'मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः। मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम्॥' इति विष्णूक्तेः, 'एवं मात्रादिकस्यापि तथा मातामहादिके।' इति पृथ्वीचन्द्रोदयेऽग्निपुराणाच्च। 'पितरि जीवति तु स्वमातरि मृतायामपि पितुरेव मातृमातामहयोः कुर्यात्। 'येभ्य एव पिता दद्यात्' इति वक्ष्यमाणवचनात्' इति पितामहचरणाः । मदनरत्ने तु- 'जीवत्पिता स्वमातृमातामहयोर्दद्यात्' इत्युक्तम्। कालादर्शेऽप्येवम्। 'मृते तु पितरि जीवन्मातृकः पितामह्यादिभ्यो वृद्धौ दद्यात्' इति स्मृतितत्त्वादिगौडग्रन्थाः। दाक्षिणात्यास्तु– 'पितृवर्गे मातृवर्गे तथा मातामहस्य च। जीवेत्तु यदि वर्गाद्यस्तं वर्गं तु परित्यजेत्॥' इति वचनात्तद्वर्गत्याग एवेत्याहुः।
एवं पतितसन्न्यस्त पितृकादेरपि ज्ञेयम्; 'वृद्धौ तीर्थे च सन्न्यस्ते ताते च पतिते सति। येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः॥' इति षट्त्रिंशन्मतात्। सन्न्यस्ते जीवतीत्यर्थः। मृते तु सन्न्यस्ते तदाद्येव देयम्। मृतेऽपि परेभ्य एवेति गौडाः। कात्यायनोऽपि– 'ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते। व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ॥' अयं च सन्न्यस्तपित्रादेरविशेषात्सर्वश्राद्धेऽधिकारः। एतन्त्रिदण्डिपरम्। एकादशाहपार्वणवार्षिकाद्यपि तस्यैव; 'अहन्येकादशे प्राप्ते पार्वणं तु विधीयते।' इत्युक्त्वा 'त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते।' इत्युशनसा विशेषोक्तेः। 'ब्राह्मणादिहते' इत्यादिनिषेधस्त्वेकदण्डादिपरः। अतः परमहंसानां वार्षिकादिकमपि न कार्यमिति शूलपाणिश्राद्धतत्त्वादयो गौडग्रन्थाः। इदमेव तु युक्तम्। यत्तु हेमाद्रौ कौण्डिन्यः– ‘दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम्। न जीवत्पितृकः कुर्यात्तिलैस्तर्पणमेव च॥' इति, -तत् सन्न्यस्तपित्राद्यतिरिक्तविषयम्।मैत्रायणीयपरिशिष्टे– 'उद्वाहे पुत्रजनने पैत्र्येष्टयां सौमिक मखे। तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः॥' तत्रैव- 'महानदीषु सर्वासु तीर्थेषु च गयामृते। जीवत्पितापि कुर्वीत श्राद्धं पार्वणधर्मवत्॥' गयामृते इति मातृव्यतिरिक्तविषयम्; ‘अन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च मृतेऽहनि। मातुः श्राद्धं सुतः कुर्यात्पि तर्यपि च जीवति॥' इति तत्रैवोक्तेः। गयाप्राप्तौ प्रासङ्गिक्याम्; 'गयां प्रसङ्गतो गत्वा मातुः श्राद्धं समाचरेत्।' इति वचनात्। तेन मृतमातृको गयायां तत्पार्वणमात्रं कुर्यात्। तज्जीवने तु तीर्थश्राद्धमपि नेति कालादर्श–स्मृतिदर्पणादयः। अन्ये तु गत्वा श्राद्धं नेति निषेधार्थः। सामान्यतः प्राप्तं तीर्थश्राद्धं भवत्येव गयायामित्याहुः।
यदा तु पितुः प्रतिनिधित्वेन गयां याति, तदा यजमानस्य पितृपितामहप्रपितामहा इत्येव श्राद्धम्। तत्र स्वमातुः पितृपत्नीत्वेनैकोद्दिष्टं कृत्वा मातृत्वेन पुनः पार्वणं कुर्यादिति त्रिस्थलीसेतौ। तच्च फल्गुविष्णुपदाक्षय्यवटेष्वेवेति केचित्। आद्यान्ते एवेत्यन्ये। म यमान्ते इत्यपरे। सङ्कोचहेत्वभावात्तत्रत्यसर्वश्राद्धानि मातुः कार्याणीति युक्तं प्रतिभाति। यत्तु– मदनपारिजाते 'न जीवत्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः। येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः॥' इति सुमन्तूक्तेः साग्नेरेव जीवत्पितृकस्य तीर्थादिश्राद्धमुक्तम्, साग्नेरपि मैत्रायणीयशास्त्रीयस्यैव नान्येपाम्; 'षडेते जीवतः पितुः' इति तत्परिशिष्टे एवोक्तेरिति रत्नावली– दिवोदासाद्याः, –तदयुक्तम्; सौमन्तवं पिण्डपितृयज्ञविषयं सन्न्यस्तपित्राद्यतिरिक्तविषयं वेति पृथ्वीचन्द्रोदयोक्तेः। 'वृद्धौ तीर्थे च' इत्यादेः साधारण्येनास्यापि तथात्वाच्च। तथा निरग्नेरपि नान्दीश्राद्धमुक्तं प्राक्। एवं पितामहजीवनेऽपि ज्ञेयम्। विशेषः पितृकृतजीवत्पितृकनिर्णये ज्ञेयः।
अथ पितामहे जीवति मृते च पितरि यद्यपि 'पितामहो वा तच्छ्राद्धे भुञ्जीतेत्यब्रवीन्मनुः।' इति मनुना जीवतः पितामहस्य भोजनमुक्तं, तथापि प्रत्यक्षार्चनस्य पूर्व निषिद्धत्वात् पितामहं विहाय पितृप्रपितामहवृद्धप्रपितामहेभ्यो देयम्; 'पिता यस्य निवृत्तः स्याज्जीवेच्चापि पितामहः। पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम्॥' इति मनूक्तेः। अयमेव सर्वसम्मतः पक्षः। यत्तु– छन्दोगपरिशिष्टे 'पितामहे प्रियमाणे पितुः तस्य निर्वपेत्। पितुस्तस्य च वृत्तस्य जीवेच्चेप्रपितामहः॥' इति एकपुरुषं द्विपुरुषं वा पार्वणमाह, – तत् तीर्थपितृयज्ञपरम्। वृद्धौ पूर्वोक्तमेव। एवं पूर्वयोमृतयोः प्रपितामहे जीवति पितृमात्रे मृते परयोर्जीवतोश्च वृद्धप्रपितामहादिभ्यो ज्ञेयम्; 'जीवन्तमपि दद्याद्वा प्रेतायान्नोदके द्विजः।' इति कात्यायनोक्तेश्च। एतत्सर्वं मनसिकृत्वाऽऽह हेमाद्रौ विष्णुः– 'पितरि जीवति यः श्राद्धं कुर्याद्येषां पिता कुर्यात्तेषां, पितरि पितामहे च जीवति येषां पितामहः, पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात्। यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात् पराभ्यां द्वाभ्यां दद्यात्। यस्य पितामहः प्रेतः स्यात्स तस्मै पिण्डं निधाय प्रपितामहात्पराभ्यां दद्यात्। यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामहपितामहाय दद्यात्।' 'मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः। मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम्॥ इति। अत्र पितृवन्मातामहे जीवति तत्पित्रादिभ्यः। यथा तत्र त्रिषु जीवत्सु नैव कुर्यात्तथाऽत्रापीत्यादि सर्वमतिदेश्यम्। एवं मातृजीवनेऽपीति शूलपाणि–कालादर्शौ,– तन्न; 'येभ्य एव' इत्यादौ यच्छब्दादेर्व्यक्तिविशेषवाचित्वेन तदप्रसङ्गादिति दिक्। उत्तरार्धं व्याख्यातं प्राक्। यत्त्वत्र विज्ञानेश्वरेणोक्तं– 'पित्रे पिण्डं निधायेति पितुरेकोद्दिष्टविधिना श्राद्धं कृत्वा प्रपितामहादिभ्यः पार्वणं कुर्यात्', तत् व्युत्क्रममृतसपिण्डीकरणाभावपक्षे सपिण्डीकरणस्थानापन्नं ज्ञेयम्; 'व्युत्क्रमात्त प्रमीतानां नैव कार्या सपिण्डता।' इति वचनात्। दर्शादौ तु पितुरेकोद्दिष्टमेव कार्यम्; 'न जीवन्तमतिददाति' इति श्रुतेः। 'जीवेत्पितामहो यस्य पिता चान्तरितो भवेत्। पितुरेकस्य दातव्यमेवमाहुर्मनीषिणः॥' इति यज्ञपार्श्वोक्ते', 'पितामहे जीवति वै पितर्येव समापयेत्॥' इति हारीतोक्तेश्च। शिष्टास्तु– 'व्युत्क्रमात्तु प्रमीतानां नैव कार्या सपिण्डता। यदि माता यदि पिता भर्ता नैष विधिः स्मृतः।' इति माधवीये स्कान्दोक्तेर्व्युत्क्रममृतसपिण्डीकरणाभावः पितृव्यादिविषय इत्याहुः। एष विधिर्निषेधरूपः।
त्रिषु जीवत्सु विष्णुराह– 'त्रिषु जीवत्सु नैव कुर्यात्' इति। – एतद्दर्शादिविषयम्। नान्दीश्राद्धं तु परेभ्यस्त्रिभ्यो भवत्येवेति कल्पतरुः। पृथ्वीचन्द्रोदयस्तु– 'दद्यात्रिभ्यः परेभ्यस्तु जीवेच्चेत्रितयं यदि।' इति मनुक्तेः सर्वत्र विकल्पः। स च देशाचाराद्व्यवतिष्ठत इत्याह। सुदर्शनभाष्ये तु मासिक श्राद्धं जीवत्पित्रादिना व्युत्क्रममृतपित्रादिना च कार्यमेवेत्युक्तम्। मदनरत्ने ऋतुः– 'अष्टकादिषु सङ्क्रान्तौ मन्वादिषु युगादिषु। चन्द्रसूर्यग्रहे पाते स्वेच्छयाऽलभ्ययोगतः॥ जीवत्पिता नैव कुर्याच्छ्राद्धं काम्यं तथाखिलम्॥' अन्ये विशेषा श्रीपितृकृतजीवत्पितृकनिर्णये, भट्टकृतत्रिस्थलीसेतौ च ज्ञेयाः॥
इति निर्णयसिन्धौ जीवत्पितृकादिश्राद्धम्॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा