निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ विभक्ताविभक्तनिर्णयः । पृथ्वीचन्द्रोदये मरीचिः– 'बहवः स्युर्यदा पुत्राः पितुरेकत्र वासिनः। सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत्कृतम्। द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्॥' ज्येष्ठस्य कर्तृत्वेऽपि सर्वे फलभागिन इत्यर्थः। तेन ये ब्रह्मचर्यादिनियमास्ते फलिसंस्कारत्वात्सर्वैः कार्याः, एवं संसृष्टिनामपि ; तुल्यत्वात्। मिताक्षरायां नारदः– 'भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते। विभागे सति धर्मोऽपि भवेत्तेषां पृथक्पृथक्॥' बृहस्पतिरपि– 'एकपाकेन वसतां पितृदेवद्विजार्चनम्। एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे॥' अत्र यद्यप्यविशेषश्रवणात् ब्रह्मयज्ञसन्ध्यादिष्वप्यविभक्तानां पृथङ्निषेधः प्राप्नोति, तथापि द्रव्यसाध्यश्राद्धवैश्वदेवादिष्वेव सः; द्रव्यस्यानेकस्वामिकत्वेनैकस्य व्ययेऽनधिकारात्। यानि तु द्रव्यासाध्यानि मन्त्रजपोपवाससन्ध्याब्रह्मयज्ञपारायणादीनि नित्यनैमित्तिककाम्यानि तेषु पृथगेवाधिकारः, द्रव्यव्ययाभावेऽनुमत्यनपेक्षणात्, 'द्रव्येण चाविभक्तेन' इत्यस्याविषयत्वात्, 'पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजातिनाम्। अग्निहोत्रं सुरार्चा च सन्ध्या नित्यं भवेत्तथा॥” इति प्रयोगपारिजाते आश्वलायनस्मृतेश्च। 'अग्निहोत्र' शब्दोऽग्निसाध्यश्रौतस्मार्तनित्यकर्मपरः; तेष्वप्यन्यानुमत्यैवाधिकारेण न्यायसाम्यात्। पितृ श्राद्धादिषु तुल्यफलेषु नित्येष्वनुमतिं विनाप्येकस्याधिकारः; ' एकोऽपि स्थावरे कुर्याद्दानाधमनविक्रयम्। आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः॥' इति वचनात्। धर्मार्थेऽवश्यकर्तव्ये पितृश्राद्धादाविति विज्ञानेश्वरः। केचित्त्वविभक्तानामपि पृथक्षाकत्वे देशान्तरे च दार्शिकाब्दिकयोः पृथक्त्वमाहुः, 'भ्रातॄणामविभक्तानां पृथपाको भवेद्यदि। वैश्वदेवादिकं श्राद्धं कुर्युस्ते वै पृथक् पृथक्॥' इति हारीतोक्तेः। 'अविभक्तेन पुत्रेण पितृमेधो मृताहनि। देशान्तरे पृथक्कार्यो दर्शश्राद्धं तथैव च॥' इति यमोक्तेश्चेति। तत्र मूलं चिन्त्यम्। तदयमर्थः – पञ्चमहायज्ञमध्ये देवभूतपितृमनुष्ययज्ञानन्यानुभत्या ज्येष्ठ एव कुर्यात् ; 'होमाग्रदानरहितं न भोक्तव्यं कदाचन। अविभक्तेषु संसृष्टेष्वेकेनापि कृतं कृतम्॥' इति व्यासोक्तेश्च । यस्य तु ज्येष्ठेनाकृते वैश्वदेवेऽन्नं सिद्ध्येत्तेन तूष्णीमग्नौ किचित्क्षिप्त्वा भोक्तव्यम्। यस्य त्वेषामग्रतोऽन्नं सिद्ध्येत्स नियुक्तमग्नौ कृत्वाऽग्रं ब्राह्मणाय दत्त्वा भुञ्जीतेत्यविभक्ताधिकारे पृथ्वीचन्द्रोदये गोभिलोक्तेः।
पाकपार्थक्या– पार्थक्ये निर्णय।–
आश्वलायनस्तु पाकपार्थक्ये पृथक्त्वं तदेकत्वेऽपृथक्त्वमाह। 'वसतामेकपाकेन विभक्तानामपि प्रभुः। एकस्तु चतुरो यज्ञान् कुर्याद्वाग्यज्ञपूर्वकान्॥ अविभक्ता विभक्ता वा पृथक्पाका द्विजातयः। कुर्युः पृथक्पृथग्यज्ञान् भोजनात् प्राग्दिने दिने॥' इति। ब्रह्मयज्ञसन्ध्यास्त्रानतर्पण। दि तूक्तहेतोः पृथगेव। देवपूजा तूक्तवचनद्वयादेकत्र पृथग्वा।दर्शग्रहणश्राद्धादि त्वेकस्यैव। तीर्थश्राद्धाद्यपि युगपत्सर्वेषामविभक्तानां प्राप्तावेकस्य। भेदेन प्राप्तौ भिन्नम्। गयाश्राद्धेऽप्येवम् ; 'एष्टव्या बहवः पुत्राःशीलवन्तो गुणान्विताः। तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत्॥ तारिताः स्मो वयं तेन स याति परमां गतिम्॥' इति हेमाद्रौ कौर्मोक्तेः। काम्येऽपि दानहोमादावन्यानुमत्यैवाधिकारः। द्रव्यासाध्यजपादौ तां विनापि। अपरार्के पैठीनसिः– 'विभक्तैस्तु पृथक्कार्यं प्रतिसांवत्सरादिकम्। एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम्॥' सांवत्सरान्पूर्वाणि मासिकान्येकत्रैव। तदाह लघुहारीतः– 'सपिण्डीकरणान्तानि यानि श्राद्धानि षोडशः। पृथङ् नैव सुताः कुर्युः पृथग्द्रव्या अपि क्वचित्॥' सपिण्डनं मासिकोपलक्षणम् ; 'अर्वाक्संवत्सराज्येष्ठः श्राद्धं कुर्यात्समेत्य तु। ऊर्ध्वं सपिण्डीकरणात् सर्वे कुर्युः पृथक्पृथक्॥' इति व्यासोक्तेः।
उशनाः– 'नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडशः। एकेनैव तु कार्याणि संविभक्तधनेष्वपि॥' मघात्रयोदशीश्राद्धं त्वविभक्तानामपि पृथगित्युक्तं प्राक्। यत्तु–वृद्धवसिष्ठः 'मासिकं च वृषोत्सर्ग सपिण्डीकरणं तथा। ज्येष्ठेनैव प्रकर्तव्यमाब्दिकं प्रथमं तथा॥' इति, तन्निर्मूलम्। बह्वृचपरिशिष्टे 'नवश्राद्धं सह दद्यु' इति॥
तीर्थयात्राविधिः।—
अथ तीर्थश्राद्धम्। तत्र यद्यप्यस्मत्पितामहकृतत्रिस्थलीसेतुरेव जागर्ति, तथापि किचिदुच्यते। तत्र यात्रायां– 'सहाग्निर्वा सपत्नीको गच्छेत्तीर्थानि संयतः। प्रायश्चित्ती व्रजेत्तीर्थे पत्नीविरहितोऽपि वा॥ यज्ञेष्वनधिकारी वा यश्च वा मन्त्रसाधकः॥' इति कौर्मादिवचनात्साग्नेः सपत्नीकस्यैवाधिकारः। भारते– 'ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम। न वियोनि व्रजन्त्येते स्नानात्तीर्थे महात्मनः॥' स्कान्दे विधवाधर्मेषु –'स्नानं दानं तीर्थयात्रां विष्णुनामग्रहं मुहुः।' – एतत् पुत्राद्यनुमत्यैव। सधवायाः पत्यासहैवेति प्रागुक्तम्। काशीखण्डे– 'मातुः पितुः क्षेप्नुमनास्तथास्थि सुतस्तु कुर्यात्खलु तीर्थयात्राम्।' तद्विधिः स्कान्दे– 'तीर्थयात्रां चिकीर्षुः प्राग्विधायोपोषणं गृहे। गणेशं च पितॄन् विप्रान् साधून् शक्त्या प्रवृज्य च॥ कृतपारणको हृष्टो गच्छेन्नियमधृक् पुनः। आगत्याभ्यर्च्य च पितॄन् यथोक्तफलभाग्भवेत्॥' उपवासात्प्राग् मुण्डनं च कार्यम्; ‘प्रयागे तीर्थयात्रायां पितृमातृवियोगतः। कचानां वपनं कुर्याद्यथा न विकचो भवेत्॥” इति विष्णूक्तेः। प्रायश्चित्तार्थयात्रायां गङ्गायां चैतदित्येके। केचित्तु– हेमाद्री भारते– 'केशमश्रुनस्वादीनां वपनं नैव शस्यते। अतो न कार्यं वपनं गया श्राद्धार्थना सदा॥ ये भारतेऽस्मिन् पितृकर्मतत्पराः सन्धार्थ केशानतिभक्तिभाविताः। ऋणक्षयार्थं पितृतीर्थमागतास्तेषामृणं सङ्क्षयमेष्यति ध्रुवम्॥' इति निषेधात् गयायात्राङ्गं वपनं न कार्यमित्याहुः । वस्तुतस्तु– 'गयाधिकरणकस्यैवायं निषेधः। नतु यात्राङ्गस्य; 'श्राद्धार्थिना' इत्युक्ते', 'विशालं विरजं गयाम्' इत्यनेनैकवाक्यत्वाच्च। श्राद्धं च षट्नवद्वादशदैवतं वा घृतेन कार्यम्; 'गच्छेद्देशान्तरं यस्तु श्राद्धं कुर्यात्स सर्पिषा ।' इति विष्णुपुराणात्, यात्राङ्गवृद्धिश्राद्धोक्तेश्च।
श्राद्धं च पारणादिने एव; 'उपोष्य रजनीमेकां प्रातः श्राद्ध विधाय च। गणेशं ब्राह्मणान्नत्वा भुक्त्वा प्रस्थितवान् सुधीः॥' इति स्कान्दलिङ्गात्। गौडनिबन्धे गौतमः– 'तीर्थयात्रासमारम्भे तीर्थात्प्रत्यागमेऽपि च। वृद्धिश्राद्धं प्रकुर्वीत बहुसर्पिस्समन्वितम्॥' 'वृद्धि'पदं तद्धर्मार्थम्। श्राद्धोत्तरं यात्रासङ्कल्प इति भट्टाः। वायवीये– 'उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कार्पटीवेषं ग्रामं कृत्वा प्रदक्षिणम्॥ ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्॥' घृतस्य भोजनम्, तच्च क्रोशमध्ये, श्राद्धोत्तरं क्रोशगमननिषेधात्। 'ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः।' गयायामेवैतन्नान्यत्रेति शकेचित्। हेमाद्रिस्तु– 'गयायां श्राद्धदिने एव प्रस्थानम्। तीर्थान्तरे तु श्राद्धोत्तरदिने' इत्याह। प्रभासखण्डे– 'यच्चान्यं कारयेच्छत्तया तीर्थयात्रां नरेश्वरः। स्वकीयद्रव्ययानाभ्यां तस्य पुण्यं चतुर्गुणम्॥' यात्रामध्ये आशौचे रजसि वा शुद्धिपर्यन्तं स्थित्वा तदन्ते गच्छेत्। मार्गवैषम्ये त्वदोषः। यात्रामध्ये तीर्थान्तरप्राप्तौ श्राद्धादि कार्यमेव। वाणिज्याद्यर्थे गतेन तु मुण्डनोपवासादि न कार्यमिति प्रयोगसेतौ भट्टाः। वस्तुतस्तु तत्रापि मुण्डनोपवासश्राद्धादि कार्यम्, 'अर्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति।' इति ब्राह्मोक्तेः। स्कान्दे 'द्विर्भोजनं तृतीयांशं हरेत्तीर्थफलस्य च। वाणिज्यं त्रींस्तथा भागान् हन्ति सर्वं प्रतिग्रहः॥ यानमर्धं चतुर्थांशं छत्रोपानहमेव च॥' इत्युत्तरार्धपाठान्तरम्।
तीर्थे स्नानमुण्डनादि।—
अत्र नदीषु विशेषः– 'मार्गेऽन्तरा नदीप्राप्तौ स्नानादि परपारतः। अर्वागेव सरस्वत्या एष मार्गगतो विधिः॥' यत्तु– 'पितृतर्पयित्वा तु नदीस्तरति यो नरः। तस्यासृकूपानकामास्ते भवन्ति भृशदुःखिताः॥' इति, तत् सरस्वतीपरम्।शङ्खः– 'तीर्थ प्राप्यानुषङ्गेण स्नानं तीर्थे समाचरेत्। स्नानजं फलमाप्नोति तीर्थयात्राकृतं न तु॥ ' स एव– 'न स्रवन्तीमतिक्रामेदनवसिच्य'। तीर्थप्राप्तौ तु प्रभासखण्डे–'यानानि तु परित्यज्य भाव्यं पदचरैर्नरैः। लुठित्वा लोठनीं तत्र कृत्वा कार्पटिकाकृतिम्॥' कृत्वेति गृहान्निर्गमसमये करणे इदम्। 'प्रथमं चालयेत्तीर्थं प्रणवेन जलं शुचिः। अवगाह्य ततः स्नायाद्यथावन्मन्त्रयोगतः॥' मन्त्रश्च प्रभासखण्डे– 'ॐ नमोऽस्तु देवदेवाय शितिकण्ठाय दण्डिने।रुद्राय चापहस्ताय चक्रिणे वेधसे नमः॥ सरस्वती च सावित्री वेदमाता गरीयसी। सन्निधात्री भवत्वत्र तीर्थे पापप्रणाशिनी॥' इति। मन्त्रवत्स्त्रानं च वपनोत्तरं कार्यम्; 'पूर्वमा – वाहनं तीर्थे मुण्डनं तदनन्तरम्। ततः स्नानादिकं कुर्यात्पश्चाच्छ्राद्धं समाचरेत्॥' इत्युक्तेः। यत्तु–‘गत्वा स्नानं प्रकुर्वीत वपनं तदनन्तरम्।' इति, ततू मुसलस्नानपरम्। काशीखण्डे– ‘तीर्थोपवासः कर्तव्यः शिरसो मुण्डनं तथा।' उपवासे तत्रैवोक्तम्–'यदह्नि तीर्थप्राप्तिः स्यात्तदह्नः पूर्ववासरे। उपवासः प्रकर्तव्यः प्राप्तेऽह्नि श्राद्धदो भवेत्॥' अत्र – 'उपवासं ततः कुर्यात्तस्मिन्नहनि सुव्रतः।' इति प्राप्ति दिनेषूपवासोक्ते र्विकल्पः। मुण्डने तु स्कान्द–देवलो– 'मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः। वर्जयित्वा कुरुक्षेत्रं विशालं विरजं गयाम्॥' विरजं = लोणारम्। प्रसिद्धमहातीर्थपरः 'सर्वतीर्थ' शब्दः।
अत्र विशेषः स्मृत्यन्तरे– 'ऊर्ध्वमन्दाद्द्विमासोनात्पुनस्तीर्थं व्रजेद्यदि। मुण्डनं चोपवासं च ततो यत्नेन कारयेत्॥ तदा तद्वपनं शस्त प्रायश्चित्तमृते द्विज॥' इति वा पाठः। 'प्रयागे प्रतियात्रं तु योजनत्रय॒ इष्यते। क्षौरं कृत्वा तु विधिवत्ततः स्नायात्सितासिते॥' तथा च बृहस्पतिः– 'क्षौरं नैमित्तिकं कार्यं निषेधे सत्यपि ध्रुवम्। पित्रादिमृतिदीक्षासु प्रायश्चित्तेऽथ तीर्थके॥ अपरार्के स्कान्दे– 'उदङ्मुखः प्राङ्मुखो वा वपनं कारयेत्सुधीः। केशश्मश्रुलोमनखान्युदक्संस्थानि वापयेत्॥' इदं प्रयागे सधवानामपि समूलं भवतीति भट्टाः। युक्तं तु– 'सर्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम्। एवमेव हि नारीणां शस्यते वपनक्रिया॥” इति। तच्चाकृतचूडानां न कार्यमिति केचित्। तत्त्वं तु नैमित्तिकत्वात् पित्रादिमृतिवत्कार्यमेवेति। तदपि प्रयागे नित्यं नान्यत्र। तच्च यतिभि स्तीर्थेऽपि ऋतुसन्धिष्वेव कार्यं, नान्यदा; 'कक्षोपस्थशिखावर्जमृतुसन्धिषु वापयेत्।' इति स्मृतेः। इदं जीवत्पितृकेणापि तीर्थे कार्यम्। नच 'मुण्डनं पिण्डदानं च' इति दक्षवचनेन निषेधः; 'विना तीर्थं विना यज्ञं मातापित्रोर्मृतिं विना। यो वापयति लोमानि स पुत्रः पितृघातकः॥' इति स्मृत्या तत्सङ्कोचात्। तदपि प्रयागे प्रतियात्रम्, अन्यतीर्थे आद्ययात्रायामेवेति शिष्टाः। ततः स्नानम्।
परार्थे तु मार्कण्डेयपुराणे– मातरं पितरं जायां भ्रातरं सुहृदं गुरुम्। यमुद्दिश्य निमज्जेत अष्टमांशं लभेत्ततः॥' पैठीनसिः– 'प्रतिकृतिं कुशमयीं तीर्थवारिणि मज्जयेत्। मज्जयेच्च यमुद्दिश्य सोऽष्टभागफलं लभेत्॥' ततस्तर्पणश्राद्धे पृथ्वीचन्द्रोदये ब्राह्मदेवीपुराणकाशीखण्डादिषु– 'अकालेऽप्यथ वा काले तीर्थे श्राद्धं च तर्पणम्। अविलम्बेन कर्तव्यं नैव विघ्नं समाचरेत्॥' मात्स्ये– 'पितॄणां चैव तर्पणम्' इति तुर्यपादः। तत्र देवता महालयनिर्णये प्रागुक्ताः। शङ्ख-देवलौ – 'तीर्थद्रव्योपपत्तौ च न कालमवधारयेत्। पात्रं च ब्राह्मणं प्राप्य सद्यः श्राद्धं समाचरेत्॥' हारीतः – 'दिवा वा यदि वा रात्रौ भुक्तो वोपोषितोऽपि वा। न कालनियमस्तत्र गङ्गां प्राप्य सरिद्वराम्॥' भारते– 'भुक्तो वाऽप्यथ वा भुक्तो रात्रौ वा यदि वा दिवा। पर्वकालेऽथ वा काले शुचिर्वाऽप्यथ वाऽशुचिः॥ यदैव दृश्यते तत्र नदी त्रिपथगा प्रिय। प्रमाणं दर्शनं तस्मान्न कालस्तत्र कारणम्॥' आशौचेऽपि कार्यम्; 'विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि। न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत्॥' इति पैठीनसिस्मृतेः। तदानीमकरणे त्वाशौचान्ते एव कुर्यात्। प्रभासखण्डे–'न वारं न च नक्षत्रं न कालस्तत्र कारणम्। यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम्॥' मलमासेऽपिकार्यम्; 'नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे। तीर्थश्राद्धं गजच्छायां प्रेतश्राद्धं तथैव च॥' इति बृहस्पतिस्मृतेः।
एतच्चाशौचे कृतभोजनस्य रात्रौ वा स्नानश्राद्धादिकमाकस्मिकतीर्थप्राप्तावामहेमश्राद्ध– विषयं ग्रहणादिवत् नतु बुद्धिपूर्वमाशौचादौ तीर्थप्राप्तिः कार्या। मलमासे तु मासद्वये तीर्थश्राद्धं कार्यमिति चन्द्रिकायां देवीपुराणे– 'श्राद्धं च तत्र कर्तव्यमर्ध्यावाहनवर्जितम्॥' हेमाद्रौ– 'अर्घ्यमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम्। तृप्तिप्रश्नं च विकिरं तीर्थश्राद्धे विवर्जयेत्॥' भविष्ये– 'आवाहनं विसृष्टिश्च तत्र तेषां न विद्यते। आवाहनं न तीर्थे स्यान्नार्घ्यदानं तथा भवेत्॥ आहूताः पितरस्तीर्थे कृतार्ध्याः सन्ति वै यतः॥' अग्नौकरणं च नेति रत्नावल्याम्। अत्र षड्दैवते श्राद्धेऽपि मात्रादीनां पिण्डमात्रं देयम्; 'हविःशेषं ततो मुष्टिमादायैकैकमादृतः। क्रमशः पितृपत्नीनां पिण्डनिर्वपणं चरेत्॥' इति तीर्थोपक्रमे देवलोक्तेरिति पृथ्वीचन्द्रः। ततः सामान्यपिण्डं दद्यात् ; 'ततः पिण्डमुपादाय हविषः संस्कृतस्य च। ज्ञातिवर्गस्य सर्वस्य सामान्यं पिण्डमुत्सृजेत्॥' इति तेनैवोक्तेः। पाद्मे–‘तीर्थश्राद्धं प्रकुर्वीत पक्कान्नेन विशेषतः। आमान्नेन हिरण्येन कन्दमूलफलैरपि॥'
पिण्डद्रव्याणि।—
पिण्डद्रव्याणि देवीपुराणे हेमाद्रौ ब्राह्मे च– 'सक्तुभिः पिण्डदानं च संयावैः पायसेन वा। कर्तव्यमृषिभिः प्रोक्तं पिण्याकेन गुडेन वा॥' पिण्डानां तीर्थे प्रक्षेप एव, नान्या प्रतिपत्तिरित्युक्तं प्राक्। एतच्च विधवयाऽपुत्रया कार्यं, न सपुत्रयेत्युक्तं प्राक्; 'सपुत्रया न कर्तव्यं भर्तुः श्राद्धं कदाचन।' इति स्मृतेश्च। अनुपनीतेनापि कार्यम्; 'एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु।' इति पाद्मे तीर्थश्राद्ध–मुपक्रम्योक्तेः। एतच्च जीवत्पितृकेणापि कार्यमित्युक्तं प्राक्। यतिना तु न कार्यम् ; 'न कुर्यात्सूतकं भिक्षुः श्राद्धपिण्डोदकक्रियाम्। त्यक्तं सन्न्यासयोगेन गृहधर्मादिकं व्रतम्॥ गोत्रादिचरणं सर्वं पितृमातृकुलं धनम्॥” इति स्मृतेः। गयायां तूक्तं वायवीये– 'दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः। दण्डं स्पृष्ट्वा विष्णुपदे पितृभिः सह मुच्यते॥ गयायां धर्मपृष्ठे च कूपे यूपे वटे तथा। दण्डं प्रदर्शयन् भिक्षुः पितृभिः सह मुच्यते॥' कृत्यरत्ने प्रभासखण्डे– 'तीर्थे चेत्प्रतिगृह्णाति ब्राह्मणो वृत्तिदुर्लभः। दशांशमर्जितं दद्यादेवं कुर्वन्न हीयते॥' इति। विशेषान्तराणि भट्टकृतत्रिस्थलीसेतो ज्ञेयानीति दिक्॥
इति श्रीकमलाकरभट्टकृते निर्णयसिन्धौ तीर्थ श्राद्ध विधिः समाप्तः।
इति श्राद्धप्रकरणं द्वितीयम्।
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा