🕉️ 24 November 2026, Tuesday · 08:13:00 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 71/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

आशौचप्रकरणम्

अथाशौचप्रकरणम्

नारायणात्मजश्रीमद्रामकृष्णस्य सूनुना।

कमलाकरसञ्ज्ञेनाशौचं निर्णीयतेऽधुना॥१॥

मरीचिः– 'आ चतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः। अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत्॥' बृहत्पराशरः– 'गर्भस्रावे तु नैरुक्ता रात्रयो माससम्मिताः। स्रावं गर्भस्य विद्वांसो मासादर्वाक्चतुर्थकात्॥ पातमूर्ध्वे वदन्त्येके तत्राधिकं तु सूतकम्। स्रावे मातुस्त्रिरात्रं स्यात्सपिण्डाशौचवर्जनम्। पाते मातुर्यथामासं सपिण्डानां दिनत्रयम्॥' अत्र सर्वत्र मूलं मिताक्षरायां ज्ञेयम्। अत्र मासत्रये त्रिरात्रं स्यादित्यनुवादः; रजस्वलात्वेनैव तत्सिद्धेः। यद्यप्यनेन चतुर्थमासेऽपि त्रिरात्रं प्राप्नोति, तथापि ' षण्मासाभ्यन्तरं यावद्गर्भस्रावो भवेद्यदि। तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते॥' इत्यादिपुराणात्, 'रात्रिभिर्मास तुल्याभिर्गर्भस्रावे विशुध्यति।' इति मनूक्तेः, 'गर्भस्रावे यथामासमचिरे तूत्तमे त्रयः।' इति मरीच्युक्तेश्चतूरात्रं ज्ञेयम्। अचिरे = त्रिमासमध्ये, उत्तमे ब्राह्मणे, अत्र सपिण्डानां स्नानम् ; ‘सद्यःशौचं सपिण्डानां गर्भस्य पतने सति।' इति तत्रैवोक्तेः। एतदाचतुर्थमासात् पाते त्रिदिनस्योक्तेः अकारणायाः शुद्धेरसम्भवात्सद्यः पदं स्नानपरम्। एवमग्रेऽपि 'गर्भस्रावे नानमात्रं पुरुषस्य' इति वृद्धवसिष्ठोक्तेः। पुरुषस्येति सपिण्डोपलक्षणं; पूर्वोक्तचनात्। आचतुर्थमासं सपिण्डानां न स्नानं, किन्तु पुंस एव। पाते त्रिदिनं निर्गुणपरम्। गुणवतस्तु – 'अजातदन्ते तनये शिशौ गर्भच्युते तथा। सपिण्डानां तु सर्वेषामेकरात्रमशौचकम्॥” इति यमोक्तेरेकाहमिति मदनपारिजातः।

सप्तममासादि दशाहम्। –एतत्सर्ववर्णविषयम्; 'तुल्यं वयसि सर्वेषामतिक्रान्ते तथैव च' इतिव्याघ्रोक्तेः। पराशरः – 'जाते विप्रो दशाहेन द्वादशाहेन भूमिपः। वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति॥' संवर्त :– 'जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते। माता शुद्ध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः॥' 'पुत्र' पदात् कन्योत्पत्तौ न पितुः स्नानमिति हारलतायाम्, तन्न; 'पुत्र'पदस्य 'पौत्री मातामहस्तेन' इति कन्यायामपि प्रयोगात्। यच्च–तत्रैवोक्तम् ‘सूतके तु मुखं दृष्ट्वा जातस्य जनकस्ततः। कृत्वा सचैलं स्नानं तु शुद्धो भवति तत्क्षणात्॥' इत्यादिपुराणान्मुखदर्शनोत्तरमेव पितुः स्नानमिति, –तन्न; विदेशे मुखदर्शनावध्यस्पृश्यतापत्तेः। मुखदर्शनोत्तरं पुनःस्नानार्थमिदमिति स्मार्तगौडाः,– तन्न; मूलैक्येन ज्ञानमात्रपरत्वात्। इदं सर्ववर्णसमम् ; 'सूतिका सर्ववर्णेषु दशरात्रेण शुद्ध्यति। ऋतौ च न पृथक् शौचं सर्ववर्णेष्वयं विधिः॥” इति हारलतायां प्रचेतसोक्तेः। यत्तु– ब्राह्मे 'ब्राह्मणी क्षत्रिया वैश्या प्रसूता दशभिर्दिनैः। गतैः शूद्रा च संस्पृश्या त्रयोदशभिरेव च॥” इति। प्रयोगपारिजाते पारस्करः– 'द्विजातेः सूतिका या स्यात्सा दशाहेन शुध्यति। त्रयोदशेऽह्नि प्राप्ते शूद्रा शुध्यत्यसंशयम्॥' इति, तदसच्छूद्रापरम्; अङ्गिराः– 'सूतके सूतिकावर्जे संस्पर्शो न निषिध्यते। संस्पर्शे सूतिकायास्तु स्नानमेव विधीयते॥नाशौचं सूतके पुंसः संसर्गं चेन्न गच्छति। रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते॥ संसर्गः = मैथुनम्। स्पर्श इत्यन्ये; 'मातुरेव सूतकम्, तां स्पृशतश्च' इति हारलतायां सुमन्तूक्तेरिति, तन्न; 'संस्पर्शे सूतिकायास्तु स्नानमेव विधीयते।' इति स्नानमात्रोक्तेः सौमन्तवचनस्य स्नानपर्यन्तमस्पृश्यत्वमात्रबोधकत्वात्। एवकारो बालस्पृश्यत्वार्थः माधवस्तु– 'यस्तैः सहासपिण्डोऽपि प्रकुर्याच्छयनासनम्। बान्धवो वा परो वापि स दशाहेन शुध्यति॥' इति बृहस्पतिस्मृतेः। शयनासनादिरूपं संसर्गमाह पराशरः– 'यदि पत्यां प्रसूतायां द्विजः सम्पर्कमृच्छति। सूतकं तु भवेत्तस्य यदि विप्रः षडङ्गवित्॥' पितृवत्सापत्नमातुः प्राक्स्नानादस्पृश्यत्वम्। सूतिकास्पर्शे तु यावदाशौचम्; 'अन्यास्तु मातरस्तद्वत्तद्गृहं न व्रजन्ति च।' इति ब्राह्मोक्तेरिति शुद्धितत्त्वादयः,– तन्न; तद्गेहं गत्वा सूतिकां यदि न स्पृशन्ति तदा स्पृश्याः, अन्यथा न इति तस्यार्थः।

कर्मानधिकारमाह पैठीनसिः– 'सूतिकां पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेन्मासेन स्त्रीजननीम्।' –इदमाशौचोत्तरम्। अन्यथा शूद्याः सपिण्डानामाशौचे तदभावः स्याद्वि– ध्यनुवादविरोधश्च। –एतच्च सोमयागादिश्रौतभिन्नपरम्; 'प्रजातायाश्च दशरात्रादूर्ध्वं स्नानादि' इति कात्यायनोक्तेः। व्यासः– 'प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा। त्रिष्वेतेषु न कुर्वीत सूतकं पुत्रजन्मनि॥' 'पुत्र' शब्दोऽपत्यमापरः। ब्राह्मे– 'देवाश्च पितरश्चैव पुत्रे जाते द्विजन्मनाम्। आयान्ति तस्मात्तदहः पुण्यं षष्ठं च सर्वदा॥' जनने विशेषः प्रागुक्तः।

अत्र प्रयोगपारिजातः –पुम्प्रसवे दशाहः, रुयपत्ये तु त्र्यहः; 'पुञ्जन्मनि सपिण्डानां दशाहाच्छुद्धिरिष्यते। त्र्यहादेकोदकानां च एकाहं सूतकं क्वचित्॥ स्त्रीजन्मनि सपिण्डानां सोदकानां त्र्यहाच्छुचिः। स्त्रीषु त्रिपुरुषं ज्ञेयं सपिण्डत्वं द्विजोत्तमाः॥' इत्यग्निस्मृतेरित्याह। मेधातिथिरपि– 'अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते' इति वासिष्ठ मुक्त्वा 'आशौचे एवैतत्, विवाहे तु अवधिर्दर्शित एव' इत्याह। अन्ये तु त्रिपुरुषसापिण्ड्यस्य कानीनकन्यापरत्वमाहुः। 'अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं सातपौरुषम्। प्रत्तानां भर्तृसापिण्ड्यं प्राह देवः प्रजापतिः॥” इति कौर्मविरोधाच्च। अत्रेदं तत्त्वम्– 'पञ्चमा त्सप्तमाद्धीमान् यः कन्यामुद्रहेद्द्विजः। गुरुतल्पी स विज्ञेयः' इत्यादि विरोधात्रिपुरुषं प्रकरणा– न्मरणाशौचपरम्; वासिष्ठे तदने उदकदानोक्तेः। तेन कन्याप्रसवेऽपि साप्तपौरुषं दश–रात्रमेव। न च कन्यापुत्रकृतं प्रसवे बलाबलं क्काप्युक्तम्। अग्निस्मृतिस्त्वनुकल्पो विगीता चेति सर्वसिद्धान्तः; अन्यथा त्रिपुरुषसपिण्डानामष्टमादिसोदकानां च त्र्यहसाम्यायोगात्। चतुर्थादिसप्तमान्तानां च किमपि न स्यात्। तेन कन्याप्रसवे दशाह एव। किञ्च स्त्रीजन्मोद्देशेन त्रिपुरुषं सापिण्ड्यं तेषां च त्रिरात्रमित्यनेकार्थविधिः कथं स्यात् ? वाक्यभेदापत्तेः। न च चतुर्थादीनां सोदकत्वं क्वापि सिद्धम्। तेन त्रिपुरुषं चतुर्थादीनां च स्त्रीजन्मनि सोदकत्वं विधाय पुनस्तेषां त्रिरात्राशौचविधौ विध्यनुवादविरोधो वाक्यभेदद्वयं चेत्यसंवादार्थाग्निस्मृतिर्हेया।

मृताशौचम्

अथ मृताशौचम्। हारीतः– 'जातमृते मृतजाते वा सपिण्डानां दशाहम्' इति स्वाशौचपरम्। जातमृते नलच्छेदोर्ध्वम्; 'यावन्न छिद्यते नालं तावन्नाप्नोति सूतकम्। छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते॥' इति जैमिन्युक्तेः, 'नाड्यां छिन्नायामाशौचम्' इति हारीतोक्तेश्च। –एतन्मृताशौचपरमेव, जननाशौचं तु नालच्छेदोत्कर्षेऽपि जननाद्येव, मृतजाते नालच्छेदाभावात् षष्ठीपूजाद्युत्कर्षापत्तेश्च। तेन 'नाडीच्छेदात्प्राङ् मातुः स्पर्शेऽपि न दोष' इति शुद्धितत्वोक्तिः परास्ता। नाभिच्छेदनात्प्राङ्मृतौ तु बृहन्मनुः– 'जीवन् जातो यदि ततो मृतः सूतक एव तु। सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम्॥' –इदं च प्रसवाशौचमेव, शावनिमित्तं स्नानमात्रम्; 'प्राङ्नामकरणात्सद्यः शौचम्' इति शङ्खोक्तेः।

अत्र कश्चिदाह– 'नामकरणमाशौचान्तकालोपलक्षणम्'। 'आशौचव्यपगमे नामधेयम्' इति विष्णूक्तेः, 'आशौचे च व्यतिक्रान्ते नामकर्म विधीयते।' इति मनूक्तेश्च नाम्नो नियतकालत्वात्। न च – 'नामधेयं दशम्यां तु द्वादश्यां वापि कारयेत्। पुण्ये तिर्थौ मुहूर्ते वा नक्षत्रे वा गुणान्विते॥ इति मनूक्तेरनियतकालत्वम्। दशम्यामतीतायां विप्रः। द्वादश्यामतीतायां क्षत्रियः। वैश्यः षोडशे। शूद्र एकत्रिशे इत्यपि ज्ञेयम्। पुण्य इत्याद्यनुकल्पः। तेन नाम्नः कालोपलक्षणम्। एवं दन्तजननेऽपि; 'दन्तजन्म सप्तमे मासि' इत्युपनिषदि नियतकालत्वात्। चौले तु न कालोपलक्षणम् ; 'प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात्।' इति मनूक्तेः, 'ततः संवत्सरेऽपूर्णे चूडाकर्म विधीयते। द्वितीये वा तृतीये वा कर्तव्यं स्मृतिदर्शनात्॥' इति यमोक्तेश्च तस्यानियतकालत्वादिति, –तन्मन्दम् ; 'चौलवन्नामदन्तजननयोरपि स्वरूपेण निमित्तत्वोपपत्तेस्तद्विशिष्टकालानुवादे वाक्यभेदात् सप्तममासादर्वाग्दन्तजनने तदभावप्रसङ्गाच्च। यस्तूपनिषद्दर्शनेन निर्णयं कुर्यात्स नूनं 'शतायुः पुरुषः' इति श्रुतेरर्वाक्पितृमरणे तदन्त्यकर्मापि त्यजेत्। ननु कालानुपलक्षणे नामोत्कर्षे तदभावे वा स्नानमात्राच्छुद्धिः स्यात्। ततः किम् ? अस्तु; अत एवोक्तं 'आ दन्तजननात्सद्यः' इति। सा च विष्णुवचनाद्दाहाभावविषयेति वक्ष्यामः। त्रिवर्षादावपि स्यादिति चेत्,–न; दाहदन्तादिनिमित्तैर्विशेषाशौचैः पूर्वस्य बाधात्। तदुक्तम्– 'पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यति।' इति। 'जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे च' इति परिशिष्टे 'द्वादश्यामपरे रात्र्यां मासे पूर्णे तथापरे। अष्टादशेऽहनि तथा वदन्त्यन्ये मनीषिणः॥' इति भविष्ये च नाम्नः कालानियमाच्च। न च प्राथम्याद्दशरात्रेऽतीते इति मुख्यः कालः, अन्यस्त्वनुकल्प इति वाच्यम्; चौलेऽपि तथापत्तेः। न च दन्तजननकालानुपलक्षणे सदन्तजातमृतस्य दाह्रैकाहप्रसङ्गः, दशाहेन बाधात्। नामकरणोत्तरमेव दाहप्रवृत्तेः, दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः। शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते॥' इति बृहन्मनूक्तेश्च। आशौचं दाहोपलक्षणम्, सूतकवदिति पारस्करोक्तेः। यत्तु– विष्णुः 'अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति। सद्य एव विशुद्धिः स्यान्न प्रेतन्नोदकक्रिया॥' इति, –तदपि प्रेताशौचनिषेधार्थ नतु सद्यस्त्वपरम्; वाक्यभेदात्। किञ्च–नामकालाप्राङ्मृतस्य स्नानम्, तदुत्तरं त्वेकाहादि। नामकाले त्वेकादशाहे मृतस्य न किमपि स्यात् अथ शङ्खवचने ल्यब्लोपे पञ्चमी, तदा प्रागिति नोपपद्येत ; 'नाम्नि वापि कृते सति' इति मन्वादिविरोधात्। कृतनाम्न इति माधव-मिताक्षरादिविरोधाच्च न कालोपलक्षणं क्वापीति दिक्॥

दन्तोत्पस्यनस्तरमृताशौचनिर्णयः ।—

नामोत्तरं दन्तोत्पत्तेः प्राग्दाहे सत्यहः ; 'अदन्तजाते तनये शिशौ गर्भच्युते तथा। सपिण्डानां तु सर्वेषामहोरात्रमशौचकम्॥” इति यमोक्तेः। दाहाभावे तु स्नानमात्रम्; 'अदन्तजाते प्रेते सद्य एव नास्याग्निसंस्कारः' इति विष्णुना दाहाभावे तदुक्तेः। 'आदन्तजननात्सद्यः' इति याज्ञवल्कीयाच्च। दाहविकल्पं चाह लौगाक्षिः– तूष्णीमेवोदक कुर्यात्तूष्णीं संस्कारमेव च। सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम्॥' अन्यत्र=अकृतचूडे। अत्र चूडाकरणं तृतीयवर्षरूपकालोपलक्षणार्थमिति मेधातिथि-हरदत्तौ। मनुरपि– 'नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया। जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति॥' इति। उदकं दाहोपलक्षणम्। दन्तोत्पत्त्यनन्तरं प्रात्रिवर्षान्तान्मृतेऽहः; 'दन्तजातेऽप्यकृतचूडे त्वहोरात्रेण शुद्धिः ' इति विष्णूक्तेः । त्रिवर्षोर्ध्वं कृतचूडेऽकृतचूडे वा प्रागुपनयत्र्यहः; 'यद्यप्यकृतचूडो वै जातदन्तस्तु सस्थितः। तथापि दाहयित्वैनमाशौचं त्र्यहमाचरेत्॥' इत्यङ्गिरसोक्तेः। ( अकृतायामपि चूडायां त्रिवर्षोर्ध्वं दाहादि नियतम् ; 'नात्रिवर्षस्य' इति वचनात्। कृतायां वर्षत्रयात्प्रापितं तूष्णीमेव )। अत्र जातदन्तत्वमुद्देश्यविशेषणत्वादविवक्षितम्। दाहयित्वेत्यप्यनुवादः; उभयविधौ वाक्यभेदात्। त्रिवर्षात्प्राक् चूडाभावेऽग्निदाने त्र्यहस्तदभावे विष्णुक्तेरेकाह इति माधवः। यत्तु– कश्चिदाह अत्र त्रिवर्षविषयाद स्मादेवार्थात् त्रिवर्षोर्ध्वमपि तत्सिद्धिः। विज्ञानेश्वरोक्तेश्च त्रिवर्षोर्ध्वमकृतचूडाविषयत्वं चिन्त्यम्; जातदन्तपदवैयर्थ्यादिति, तत्तुच्छम्; दाहस्याविषेयत्वात्। 'नृणामकृतचूडानामशुद्धिर्नेैशिकी स्मृता।" इति मनूक्तेः त्रिवर्षोर्ध्वमेकाहापत्तेरर्थात् त्र्यहासिद्धेः। त्वयाप्यग्रे तथाङ्गीकारात्पदवैयर्थ्यस्य साम्याद्वाक्यार्थाज्ञानाच्चेत्यलं मिताक्षरार्थानभिज्ञदूषणेन। प्रथमवर्षादौ कृतचूडस्य सदा त्र्यहः; 'निवृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते' इति मनूक्तेः। एतत्सर्वे प्रागुक्तं सपिण्डानाम्।

मातापित्रोस्तु दशाहोर्ध्वं मृते सर्वत्र त्रिरात्रम्; 'बालानामजातदन्तानां त्रिरात्रेण शुद्धिः' इति कश्यपोक्तेः। 'बैजिकादभिसम्बन्धादनुरुध्यादघं त्र्यहम्।' इति मनूक्तेश्च। शुद्धितत्त्वादयो गौडास्तु– 'अजातदन्तमरणे पित्रोरेकाहमिष्यते। दन्तजाते त्रिरात्रं स्याद्यदि स्यातां तु निर्गुणौ॥” इति कौर्मात् काश्यपं शूद्रपरम्; 'अनूढानां तु कन्यानां तथा वै शूद्रजन्मनाम्।' इति व्यहानुवृत्तौ शङ्खोक्तेः। 'त्रिरात्रं तु भवेच्छूद्रे षण्मासेऽपि शिशौ मृते।' इति मात्स्यसूक्ताच्च। दन्तजाते शूद्रे तु पञ्चाहः। यथाहाङ्गिराः– 'शुद्धे त्रिवर्षायूने तु मृते शुद्धिस्तु पञ्चभिः। अत ऊर्ध्वं मृते शूद्रे द्वादशाहो विधीयते॥ षडुर्षान्तमतीतो यः शूद्रः सम्म्रियते यदि। मासिकं तु भवेच्छौचमित्याङ्गिरसभाषितम्॥' इति। यत्तु–‘अनूढभार्यः शूद्रस्तु' इति शङ्खोक्तं मासाशौचं, –तत् सगुणशूद्रपरम्; निर्गुणे त्वनूढभार्ये शूद्रे त्रिवर्षोर्ध्वं द्वादशाहः, षडदोर्ध्वं मासः, षडब्दात्प्रागपि कृतोद्वाहे मास इत्याहुः। – एतत् 'तुल्यं वयसि सर्वेषाम्' इति विरोधाच्छिष्टविगानान्नादर्तव्यमिति विज्ञानेश्वरादयः। दाक्षिणात्यानां तथैव। अन्यदेशे प्रागुक्तमिति गौडाः। एवं कन्यास्वपि। तास्वप्यजातदन्तासु पित्रोरेकरात्रमिति माधवः। यत्तु– विज्ञानेश्वरेणोक्तम् 'ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि।' इति याज्ञवल्क्योक्तेः 'गर्भस्थे प्रेते मातुर्दशाहं, जाते उभयोः कृते नाम्नि सोदराणां च ' इति पैङ्गयोक्तेश्च पित्रोः सोदराणां च दशाहमस्पृश्यत्वमिति, –तन्नेदानीं प्रचरति। अत एव स्मृत्यर्थसारे तन्नादृतम्। कन्यासु चौलाप्राङ्मृतौ स्नानम् ; 'अचूडायां तु कन्यायां सद्यः शौचं विधीयते।' इत्यापस्तम्बोक्तेः। इदं त्रिपुरुषमध्ये; 'अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते' इति वसिष्ठोक्तेः। इदं वाग्दानोत्तरमिति गौडाः, – तन्न; 'अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम्' इति वचनात्।

चौलोत्तरं वाग्दानात्पूर्व तास्वेकाहः; 'अविशेषेण वर्णानामर्वाक्संस्कारकर्मणः। त्रिरात्रात्तु भवेच्छुद्धिः कन्यास्वह्ना विधीयते॥' इत्यङ्गिरसा त्रिरात्रविषयेऽहोविधानात्। अतः शूद्रस्योपनयनस्थानीयविवाहात्पूर्वे त्रिरात्रम्। विवाहोत्कर्षे तु षोडशाब्दमध्ये त्रिरात्रमेवे –त्यपरार्काद्याः । शूद्रे निर्गुणे ज्यब्दोर्ध्वं पञ्चाहः, षडदोर्ध्वं विवाहाभावे द्वादशाहमिति गौडाः। सगुणानां षोडशाब्दोर्ध्वं तु विवाहाभावेऽपि पूर्णाशौचं वक्ष्यते। तदुत्तरं प्राग्विवाहाद्भर्तृकुले पितृकुले च सप्तपुरुषावधि त्रिरात्रम् ; 'अवारिपूर्वं प्रत्ता तु या नैव प्रतिपादिता। असंस्कृता तु सा ज्ञेया त्रिरात्रमुभयोः स्मृतम्॥” इति मरीच्युक्तेः। रत्नाकरे शुद्धितत्वे च शङ्खः–'पितृवेश्मनि या नारी रजः पश्यत्यसंस्कृता। तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति॥' यावज्जीवमाशौचमिति वाचस्पतिमिश्राः।

अथानुपनीते किञ्चिदुच्यते– नाम्नः पूर्वं खननमेव। तदूर्ध्वं वर्षत्रयात्पूर्वं चौलाभावेऽग्न्युदकदानविकल्पः; 'नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया। जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति॥” इति मनूक्तेः। उदकक्रिया साहचर्याद्दाहोपलक्षणम्। खनने तु नान्यदौर्ध्वदेहिकम्; 'ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः।' इति याज्ञवल्क्योक्तेः। उदकमन्त्यकर्मपरमित्यपरार्कः। यमः– 'ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद्भुवि। यमगाथां गायमानो यमसूक्तमनुस्मरन्॥' माधवीये ब्राह्मेऽपि– 'स्त्रीणां तु पतितो गर्भः सद्यो जातो मृतोऽथ वा। अजातदन्तो मासैर्वा मृतः षड्भिर्गतैर्बहिः। वस्त्राद्यैर्भूषितं कृत्वा निक्षिपेत्तं तु काष्ठवत्। खनित्वा शनकैर्भूमौ सद्यःशौचं विधीयते॥' अलङ्करणमपि वक्ष्यते। कृतचूडस्य तु त्रिवर्षात्प्रार्ध्वं वाऽग्न्युदकदानं नियतम्। यत्तु– वसिष्ठः 'ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्' इति, –तत् प्रथमाब्दचूडापरम्। वर्षत्रया दूर्ध्वम कृतचूडस्यापि नियतम्। वर्षत्रयोर्ध्वमुपनयनात्पूर्वं च तूष्णीमभ्युदकदानम्; 'तूष्णीमेवोदकं कुर्यातूष्णीं संस्कारमेव च।' इति पूर्वोक्तलौगाक्षिस्मृतेः पिण्डदानमपि कार्यम्; 'असंस्कृतानां भूमौ पिण्डं दद्यात् संस्कृतानां कुशेषु' इति प्रचेतसोक्तेः, 'उदकदानं सपिण्डैः कृतचूडस्य' इति गौतमोक्तेः, 'उदकग्रहणमौर्ध्वदेहिकपरमिति हरदत्तः; 'द्वादशाद्वत्सरादर्वाक पौगण्डमरणे सति। सपिण्डीकरणं न स्यान्नैकोद्दिष्टानि कारयेत्॥' इति हरदत्तघृतदेवलोक्तेश्च। मरीचिरपि– 'प्रेतपिण्डं बहिर्दद्याद्दर्भमन्त्र विवर्जितम्।' इति। –एतदनुपनीतपरमिति विज्ञानेश्वरः। अत्र चूडैव पूर्वावधिः; पूर्ववाक्येषु तद्ग्हणात्। उदकग्रहणस्योपलक्षणत्वाद्दाहः पूर्वावधिरिति केचित्। द्वादशाद्वत्सरादित्यनुपनीतद्विजानूढ–शूद्रविषयम्। त्र्यहाशौचे पिण्डदानविधिमाह पारस्करः –'प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः। द्वितीये चतुरो दद्यादस्थिसञ्चयनं तथा॥ त्रींस्तु दद्यात्तृतीयेऽह्नि वस्त्रादि क्षालयेत्ततः॥' इति।

अत्र देवयाज्ञिकनिबन्धे विशेषः– 'शिशुरादन्तजननाद्वालः स्याद्यावदाशिखः। कथ्यते सर्वशास्त्रेषु कुमारो मौञ्जिबन्धनात्॥ आ पञ्चवर्षात्कौमारं पौगण्डो नवहायनः॥' तथा– 'गर्भे नष्टे क्रिया नास्ति दुग्धं देयं शिशौ मृते। परं च पायसं क्षीरं दद्याद्वालविपत्तितः॥ एकादशं द्वादशाहं वृषोत्सर्गविधिं विना॥' तथा 'यत्र प्रमीयते बालस्तत्र प्रायः प्रदीयते। किञ्चित्समानवयसां संस्कृत्यान्नं यथाविधि॥ भक्ष्यं भोज्यं च दातव्यं तथा च सुखभक्षिका। तद्वस्त्राणि प्रदेयानि सोपानत्कानि तत्समे॥ कुमाराणां च बालानां भोजनं वस्त्रवेष्टनम्। यच्चोपजीवते बालस्तत्तद्विप्राय दीयते॥' तथा –'भूमिनिक्षेपणं बाले आवर्षद्वयमाशिखम्। ततः परं खगश्रेष्ठ देहदाहो यथाविधि॥' अचूडेऽप्यूर्ध्वं खनननिवृत्त्यर्थमावर्षद्वयमिति। प्रागपि कृतचूडस्य तन्निवृत्त्यर्थमाशिखमिति। तथा –'चूडाकर्मणि सञ्जाते विपत्तिस्तु यदा भवेत्। सूतकान्ते प्रकर्तव्यं वृषस्योत्सर्जनं तथा॥ तत्र दाहः प्रकर्तव्य उदकं तत्र निश्चितम्। श्राद्धानि षोडशापि स्युः सपिण्डीकरणं विना॥' –इदं पञ्चवर्षोत्तरम्; 'जन्मतः पञ्चवर्षाणि भुते दत्तमसंस्कृतम्। पञ्चवर्षाधिके बाले विपत्तिर्यदि जायते॥ वृषोत्सर्गादिकं कर्म कर्तव्यमुदकं ततः अहन्यहनि सम्प्राप्ते कुर्यात् श्राद्धानि षोडशः॥ पायसेन गुडेनैव पिण्डं दद्याद्यथाक्रमम्। उदकुम्भप्रदानं च पददानानि यानि च॥ दीपदानानि यत्किञ्चित्पञ्चवर्षाधिके सदा। कर्तव्यं तु स्वगश्रेष्ठ व्रतार्वाक् प्रेततृप्तये॥ स्वाहाकारेणैव कार्याण्येकोद्दिष्टानि षोडशः। ऋजुदर्भैस्तिलैः शुक्लैः प्राचीनावीतिना तथा॥' इति तत्रैवोक्तेः। –अत्र मूलं चिन्त्यम्। वार्षिकादि तु न भवत्येव; सपिण्डनाभावे पितृत्वायोगाद्वचनाभावाच्च।

अनुपनीता परिणीतमृतौ निर्णयः।—

दिवोदासीये– 'अव्रते निधनं प्राप्ते विप्रादौ शूद्रजातिवत्। क्रियाः सर्वाः समुद्दिष्टाः सपिण्डीकरणं विना॥ उदकं पिण्डदानं च कृतचूडे विधीयते॥' इति। स्त्रीणां तूद्वाहात्प्रागुदकपिण्डदानविकल्पः; 'स्त्रीणां चैकेऽप्रत्तानाम्' इति गौतमोक्तेः। 'स्त्रीशूद्राश्च सधर्माणः' इति वचनात् शूद्रेऽप्येवम्। एत–द्वयोनिमित्तमाशौचं सर्ववर्णसमम् ; 'तुल्यं वयसि सर्वेषामतिक्रान्ते तथैव च।' इति व्याघ्र-पादोक्तेः। यानि तु– 'निर्वृत्तचूडके विप्रे त्रिरात्राच्छुद्धिरिष्यते।' इति। 'निवृत्ते क्षत्रिये षड्भिर्वैश्ये नवभिरुच्यते। शुद्रे त्रिवर्णन्यूने तु मृते शुद्धिस्तु पञ्चभिः॥ अत ऊर्ध्वं मृते शूद्रे द्वादशाहो विधीयते। षड्वर्षान्तमतीते तु शुद्रे मासमशौचकम्॥' इत्याङ्गिरसादीनि, तानि शिष्टविगानान्नादर्तव्यानीति विज्ञानेश्वर-मदनपारिजातादयः। तेनैतद्वशाच्छूद्राणां व्यवस्था प्रागुक्ता हेयैव। 'तुल्ये वयसि सर्वेषाम्' इति दाक्षिणात्यपरम्। अन्यदेशे कौर्मोक्ता व्यवस्थेति शुद्धितत्वे॥

जात्याशौचम्।—

अथ जात्याशौचम्। तच्च द्विजपुंसामुपनयनोर्ध्वं प्रवर्तते; 'त्रिरात्रमात्रतादेशाद्दशरात्रमतः परम्। क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु। त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः॥ इति याज्ञवल्क्योक्तेः। यत्तु– स एव 'त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते।' इत्याह, –तत्र दशाहे त्रिरात्रमस्पृश्यत्वम्। एकदिनोत्पन्ने आशौचद्वये दशाहमस्पृश्यत्वम् ; 'मरणं यदि तुल्यं स्यान्मरणेन कथञ्चन। अस्पृश्यं तु भवेद्गोत्रं सर्वमेव सबान्धवम्॥' इत्याङ्गिरसोक्तेः। दशाहाशौचपरत्वे 'दशरात्रमतः परम्' इत्यनेन पौनरुत्त्यापत्तेरिति शुद्धिविवेकादयः, –तन्न, स्मृतिभेदात्, त्रिरात्रं दशरात्रं वेति विकल्पायोगाच्च। यस्तु पुत्राणां वेदानध्याप्य वृत्तिं विदधाति तत्राहाश्वलायनः– 'द्वादशरात्रं महागुरुषु दानाध्ययने वर्जयेरन्' इति। अत्र यावदुक्तनिषेधो वाऽस्पृश्यत्वमात्रं वा, नतु कर्मानधिकारः; एकादशाहान्ते वैश्वदेवोक्तेः। 'एकादशाहिकं मुक्त्वा तत्र ह्यन्ते विधीयते।' इति। शुद्धितत्त्वे तु– 'त्रयः पुरुषस्यातिगुरवो भवन्ति – माता पिताऽऽचार्यश्च' इति विष्णूक्तेः पित्रादयो महागुरवः। भर्ताप्युक्तो रामायणे– 'पतिर्बन्धुर्गतिर्भर्ता दैवतं गुरुरेव च।' शातातपः– 'पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः।' 'एक' पदमूढानां पितृमातृनिषेधार्थम्। सोदकानां त्रिरात्रम्; 'यहात्तूदकदायिनः' इति मनूक्तेः। अग्निपुराणे– 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते। समानोदकभावस्तु निवर्तेत चतुर्दशे॥ जन्मनामस्मृतर्वैके तत्परं गोत्रमुच्यते॥' बृहस्पतिः– 'दशाहेन सपिण्डास्तु शुद्धयन्ति प्रेतसूतके। त्रिरात्रेण सकुल्यास्तु स्नात्वा शुद्ध्यन्ति गोत्रजाः॥'

स्त्रीशूद्रयोस्तु विवाहोर्ध्वं जात्याशौचम्; 'वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः। इत्युक्तेः, 'दत्तानां भर्तुरेव हि। स्वजात्युक्तमशौचं स्यान्मृतके जातके तथा।' इति माधवीये ब्राह्माच्च। शूद्रस्य विवाहाभावेऽपि षोडशवर्षोर्ध्वे मासः, 'अनूढभार्यः शूद्रस्तु षोडशाद्वत्सरात्परम्। मृत्युं समधिगच्छेच्चेन्मासात्तस्यापि बान्धवाः॥ शुद्धिं समधि– गच्छन्ति नात्र कार्या विचारणा॥” इत्यपरार्के शङ्खोक्तेः। निर्णयामृत-मदन-पारिजातादौ त्वन्यथोक्तम्। हारीतः– 'आ मौञ्जीबन्धनाद्विप्रः क्षत्रियश्चा धनुर्ग्रहात्। आ प्रतोदग्रहाद्वैश्यः शूद्रो वस्त्रद्वयग्रहात्॥ धनुःप्रतोदावष्टमेऽब्दे वस्त्रद्वमिति।मेधातिथिस्तु– 'त्रिरात्रमात्रतादेशात् ' इत्यत्र व्रतं कालोपलक्षणार्थम्। स च कालः स्वकीयः सर्वेषां चाष्टमवर्षरूपः। तेन चतुर्णामपि वर्णानामुपनयनाभावेऽप्यष्टमादूर्ध्वं पूर्णमेवाशौचम्। तथापि ‘प्रागष्टमाच्छिशवः प्रोक्ताः' इति स्मृत्यन्तरादूर्ध्वं सम्पूर्णमर्वाक् त्रिरात्रम्। येऽपि ‘आ षोडशाद्भवेद्वालः’ इत्याहुस्तेषामप्यष्टमादूर्ध्वं शूद्रे मास एव, 'ऊर्ध्वमष्टभ्यो वर्षेभ्यः शुद्धिः शूद्रस्य मासिकी।' इति वचनादित्याह। हारलता-शुद्धितत्वादिगौडग्रन्थेष्वप्युक्तम्– 'अनुपनीतो विप्र' इत्युक्त्वा – 'म्रियते यत्र तत्र स्यादाशौचं त्र्यहमेव हि। द्विजन्मनामयं कालत्रयाणां तु षडाब्दिकः॥' इत्यादिपुराणोक्तेरुपनयनकालोपलक्षणम्। 'षडब्द 'पदं मासत्रयाधिकपरम्; 'गर्भाष्टमेऽष्टमे वाऽब्दे' इत्युक्तेः। यत्तु जाबालः– 'व्रतचूडा–द्विजानां च प्रतीतिषु यथाक्रमम्। दशाहे त्र्यह एकाहे शुद्ध्यन्त्यपि हि निर्गुणाः॥' इति। द्विजाः=दन्ताः। इदं 'प्रतीतिषु' इत्युक्तेः पञ्चाब्दोषनीतपरमिति। –तदेतन्नाद्रियन्ते वृद्धाः।

यानि तु परराशरः– 'एकाहाद्ब्राह्मणः शुध्येद्योऽग्निवेदसमन्वितः। त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः॥’ केवलवेदः केवलश्रौताग्नेरप्युपलक्षणम्। अयं सङ्कोचो होमाध्ययनपर एव, न तु सन्ध्यादाविति हारलतायाम्। अङ्गिराः– 'सर्वेषामेव वर्णानां सूतके मृतके तथा।दशाहाच्छुद्धिरेतेषामिति शातातपोऽब्रवीत्॥' देवलः– 'आशुच्यं दशरात्रं तु सर्वेषामपरे विदुः। निधने प्रसवे चैव पश्यन्तः कर्मणः क्षयम्॥' अत्यन्तोत्कृष्टस्य कर्महानौ पीडावतो विप्रपरिचर्यापरशूद्रस्य दशरात्रमिति हारलतायाम्। दक्षः– 'सद्यःशौचं तथैकाहरूयहश्चतुरहस्तथा। षड्दशद्वादशाहश्च पक्षो मासस्तथैव च॥ मरणान्तं तथा चान्य–दशपक्षास्तु सूतके॥' मिताक्षरायां स्मृत्यन्तरे– 'चतुर्थे दशरात्रं स्यात् षण्णिशाः पुंसि पञ्चमे। षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयम्। अष्टमे दिनमेकं स्यान्नवमे यामकद्वयम्। दशमे स्नानमात्रेण चैतद्गौणं तु सूतकम्॥' इत्यादीनि, तान्यापदनापद्गुणवदगुणवद्विषयाणि देशाचारभेदाद्वा ज्ञेयानि। सद्यः शौचादिषडहान्ताः पक्षा यायावरादिपराः। अत्र मरणान्तं जननादिनिमित्ताद्भिन्नम्। ( अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु।' इत्युक्तत्वान्मधुपर्कपश्वालम्भवत् ) शिष्टविगानान्नादर्त्तव्यानीति विज्ञानेश्वरः । 'अस्नात्वा चाप्यहुत्वा च अदत्त्वाऽश्नंस्तथा द्विजः। एवंविधस्य विप्रस्य सर्वदा सूतकं भवेत्॥” इति दक्षोक्त्या– ‘अन्यपूर्वा यस्य गेहे भार्या स्यात्तस्य नित्यशः। आशौचं सर्वकार्येषु देहे भवति सर्वदा॥' इति ब्राह्मादिवशाद्व्यवस्थेत्यपररार्क–मदनपारिजातादयः।

माधवस्तु– 'वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा।' इति कलिवर्ज्येषूक्तेः, 'दशाह एव विप्रस्य सपिण्डमरणे सति। कल्पान्तराणि कुर्वाणः कलौ भवति किल्बिषी॥' इति हारीतोक्तेश्च न्यूनाशौचपक्षा युगान्तैरविषयाः। मरणान्तादिपक्षास्तु निन्दार्थवादः। अन्यथा– 'नामधारकविप्रस्तु दशाहं सूतकी भवेत्।" इति विरोधः स्यादित्याह। यत्तु देवलः– 'दशाहादित्रिभागेन कृते सञ्चयने कमात्। अङ्गस्पर्शनमिच्छन्ति वर्णानां तत्त्वदर्शिनः॥” इति पूर्णाशौचे स्पृश्यतामाह। यच्चानुपनीतातिक्रान्ताशौचे त्रिरात्रादौ तेनैवोक्तम् – 'स्वाशौचकालाद्विज्ञेयं स्पर्शनं तु त्रिभागतः।" इति, तदपि युगान्तरेषु; 'अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च॥ इति माधवीये कलौ तन्निषेधात्। यत्तु हारलतायाम्–'चतुर्थेऽहनि कर्तव्यः संस्पर्शो ब्राह्मणस्य तु।' इति प्रचेतसोक्तेरुयहैकाहाशौचेऽपि चतुर्थाह एवासस्पर्श इति, –तन्न; देवलादिवशेनास्य दशाहगोचरत्वात्। ये तु वर्णसङ्करजा मूर्धावसिक्ताद्यास्तेषामाशौचविशेषः कलौ नोपयुक्त इति नोच्यते। प्रतिलोमजानां नाशौचम्। मलापकर्षणार्थं तु स्नानमात्रमिति विज्ञानेश्वरः। माधवस्तु– 'शौचाशौचे प्रकुर्वरिन् शूद्रवर्णस्य सङ्कराः।' इति ब्राह्मोक्तेः शवदाह। हारलताप्येवम्।

दत्तक्रीतकृत्रिमादिपुत्रेषु अहीनवर्णगासु स्त्रीषु च सपिण्डत्वेऽपि प्रसवे मरणे च पूर्वापरपित्रोर्भर्त्रोश्च त्रिरात्रमेव न दशाहादि ; 'अनौरसेषु पुत्रेषु जातेषु च मृतेषु च। परपूर्वासुभार्यासु प्रसूतासु मृतासु च॥ इति त्रिरात्रानुवृत्तौ विष्णूक्तेः । सपिण्डानां त्वेकाहः,

'परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च। भर्तृपित्रोस्त्रिरात्रं स्यादेकाहस्तु सपिण्डतः॥' इति माधवीये हारीतोक्तेः, 'सूतके मृतके चैव त्रिरात्रं परपूर्वयोः। एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुः॥' इति मरीच्युक्तेश्च। शङ्खः–'अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च। परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते॥' परपूर्वा=पुनर्भूः। इदं सवर्णासु, हीनवर्णासु तु शङ्खलिखितौ– 'परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च। नानध्यायो भवेत्तस्य नाशौचं नोदकक्रिया॥ ब्राह्मेऽपि– 'आशौचं तु त्रिरात्रं स्यात्समवर्णेषु निश्चितम्॥' यत्तु षडशीतौ– 'अन्यपूर्वावरुद्धासु त्रिदिनाच्छुद्धिरिष्यते। तास्खेवानन्यपूर्वासु पञ्चाहोभिर्विशुध्यति॥' इति। तत्र पञ्चाहे मूलं चिन्त्यम्। यत्तु याज्ञवल्क्यः– 'अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च।' इत्येकाहमाह, – तदसन्निधौ ज्ञेयम्। यदा पितुरेकाहस्तदा सपिण्डानां स्नानम् ; 'अन्याश्रितेषु दारेषु परपत्नीसुतेषु च। गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्पिता॥' इति प्रजापत्युक्तेः। पितेति वोढुरुपलक्षणम् ; तथोपक्रमात्। यत्तु – दत्तके पालक प्रतियोगिकपुत्रत्वात्पूर्वपितुर्न त्रिरात्रम्, पूर्वसम्बन्धनिवृत्तेश्च न दशाहादीति कश्चित्, तन्न; जनकेऽपि 'बैजिकादभिसम्बन्धादनुरुन्ध्यादघं व्यहम्।' इति वाचनिकाशौचस्यानिवार्यत्वात्।

पितृमरणेऽपि दत्तकादीनां त्रिरात्रम्। शुद्धितत्वे ब्राह्मे 'दत्तकश्च स्वयन्दत्तः कृत्रिमः क्रीत एव च।' इत्युपक्रम्य– 'सूतके मृतके चैव व्यहाशौचस्य भागिनः।' इत्युक्तेः। स्मृतिकौमुद्यां हारलतायामप्येवम्। दत्तकस्य पुत्रपौत्राणां जनने मरणे वा सपिण्डानामेकाहः; 'बीजिनश्च' इति गौतमेन साप्तपौरुषसापिण्ड्योक्तेः, सपिण्डानां चैकाहस्योक्तत्वात्, सपिण्डे तु पुत्रीकृते दशाह एव; तत्राकाङ्क्षाभावात्सपिण्डत्वेन दशाहप्राबल्याच्च ॥ पूर्वापरयोर्भत्रुत्पन्नयोः पुत्रयोस्त्वाह माधवीये मरीचिः– 'मातुरैक्याद्विपितृकौ भ्रातरावन्यगोत्रजौ। एकाहं सूतके तत्र त्रिरात्रं मृतके तयोः॥” इति दिक्॥

ऊढकन्यानां तु विष्णुराह– 'संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्प्रसवमरणे चेत् पितृगृहे स्यातां तदैकरात्रं त्रिरात्रं च' इति। प्रसवे एकरात्रं, मरणे त्रिरात्रमिति विज्ञानेश्वरापरार्कौ। माधवस्तु– प्रसवेऽपि त्रिरात्रं पित्रोः, एकरात्रं भ्रात्रादिबन्धुवर्गस्य, –'दत्ता नारी पितुर्गेहे सूयेताथ म्रियेत वा। तद्वन्धुवर्गस्त्वेकेन शुचिस्तज्जनकस्त्रिभिः॥' इति ब्राह्मोक्तरित्याह। यत्तु कश्चिदाह– 'पक्ष 'पदेन भ्रातरो गृह्यन्ते। वाक्यान्तरेण भगिनीमृतौ त्रिरात्रोत्तेरिति तच्चिन्त्यम्; तदभावादेतद्विरोधाच्च। भ्रातुः प्रसवे एकाहः, मृतौ त्रिरात्रमिति केचित्। युक्ता तु पक्षिणी; 'परस्परमृतौ भ्रातृभगिन्योः पक्षिणी भवेत्।'इति ब्राह्मात्। भ्रातृभिन्नानामेकाहः; वर्गोक्ते', 'इतरेषां यथाविधि' इति वक्ष्यमाण– वचनाच्च। यत्तु ‘प्रधानगृहे मृतौ पित्रोः पूर्णं भ्रातुरूयह' इति कश्चित् स निर्मूलत्वात 'नाशौचं पितृपक्षे' इत्येतद्विरोधाच भ्रान्तः। 'दत्ता नारी पितुर्गेहे प्रधाने सूयते यदा। प्रियते वा तदा तस्याः पिता शुध्येत्रिभिर्दिनैः॥” इति कल्पतरौ शुद्धितत्त्वे च। पतिगृहे प्रसवे तु पित्रादीनामाशौचं नास्ति। मृतौ पित्रोत्रिरात्रमस्त्येव; 'प्रत्ताप्रत्तासु योषित्सु संस्कृतासंस्कृतासु च। मातापित्रोस्त्रिरात्रं स्यादितरेषां यथाविधि॥' 'अदत्तासु पित्रोरेकरात्रम्' इति माधवीये शङ्ककार्ष्णाजिनिस्मृतेः, 'बैजिकादभिसम्बन्धात्' इत्युक्तेश्च। स्मृत्यर्थसारेऽप्येवम्॥

माधवस्तु इदं त्रिरात्रं जातदन्तापरम्, दन्तोत्पत्तेः प्रागेकरात्रं पित्रोः; 'सद्यस्त्वप्रौढकन्यायां प्रौढायां वासराच्छुचिः। प्रदत्तायां त्रिरात्रेण दत्तायां पक्षिणी भवेत्॥' इति पुलस्त्योक्तेः, अन्यत्र कन्यामृतौ पित्रोः पक्षिणीत्याह। षडशीतावपि– 'पितृगेहादतोऽन्यत्र यदि पुत्री प्रमीयते। पक्षिणी तत्र पित्रोः स्यान्नान्येषामिति निश्चयः॥” इति। ग्रामान्तरे इयमिति स्मृत्यर्थसारे। भ्रातुस्तु पक्षिणी; 'श्वशुरयोर्भगिन्यां च मातुलान्यां च मातुले। पित्रोः स्वसरि तद्वच्च पक्षिणीं क्षपयेन्निशाम्॥' इति वृद्धबृहस्पतिस्मृतेः। शुद्धितत्वे कौर्मे– 'आदन्तात्सोदरे सद्य आचूडादेकरात्रकम्। आप्रदानात् त्रिरात्रं स्याद्दशरात्रमतः परम्॥' पित्रोर्मृतौ स्त्रीणां त्रिरात्रम्; 'पित्रोरुपरमे स्त्रीणामूढानां तु कथं भवेत्। त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान् यमः॥' इति माधवीये वृद्धमनूक्तेः। इदं दशाहान्तः, ऊर्ध्वं तु पक्षिणी। भ्रातुर्भगिनीगृहे, तस्या वा तद्गृहे मृतौ त्रिरात्रम्, अन्यत्र तु पक्षिणीति षडशीतावुक्तम्। ब्राह्मेऽपि– 'परस्परमृतौ भ्रातृभगिन्योः पक्षिणी भवेत्। मातुलाशौचवत् पुत्र्याः पितृव्याशौचमिष्यते॥' इति। शिष्टास्त्वस्य निर्मूलत्वापितृव्ये स्त्रानमात्रमाहुः।

दौहित्रभागिनेययोराशौचम्।—

त्रिंशच्छ्लोक्याम्–'प्रेतेष्वाचार्यमातामहदुहितृसुतश्रोत्रियर्त्विक्सयोज्यस्वस्त्रीयेषु त्रिरात्रं त्रिदिवसमशुचिः, सोदकस्तूभयत्र। पक्षिण्याशौचमृत्विग्दुहितृसुतसहाध्यायिबन्धुत्रया न्तेवासिश्वश्रूसुमित्रश्वशुरभगिनिकाभागिनेयप्रयाणे। मातामह्यां च पित्रोः स्वसरि च विरतौ मातुले मातुलान्यां चाथो सज्योतिरेव स्वविषयनृपतौ ग्रामनाथे च नष्टे। शिष्योपाध्यायबन्धुत्रयगुरुतनयाचार्यभार्यासगोत्रानूचानश्रोत्रियेषु स्वगृहपरमृतौ मातुले चैकरात्रम्॥ रात्रिं सब्रह्मचारिण्यथ तु कथमपि स्वल्पसम्बन्धयुक्ते स्नानं वासोयुतं स्यादिदमपि सकलं सर्ववर्णेषु तुल्यम्॥” इति। अत्र मूलं मिताक्षरादौ स्पष्टम्। दौहित्रभागिनेययोरुपनीतयोस्त्रिरात्रम्, अनुपनीतयोः पक्षिणी; 'संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनी सुते। संस्कृते तु त्रिरात्रं स्यादिति धर्मो व्यवस्थितः॥' इति बृद्धमनूक्तेः। संस्कृते दाहेन। तेन दाहे त्रिरात्रं नान्यथेति गौडाः, –तन्न;

श्रोत्रिये स्वगृहमृत आशौचम्।—

विशेषवैयर्थ्यात्। मातुलादौ सन्निधिविदेशाभ्यां पक्षिण्येकाहयोर्व्यवस्था। मनुः– 'त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति। तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः॥' श्रोत्रिये स्वगृहे मृते त्रिरात्रम्, 'श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत्।' इति स्मृतेरिति माधवः। एकग्रामीणे त्वेकाहः।

ऋत्विग्विषये।—

ऋत्विजि बह्वल्पकालश्रौतस्मार्तयाजनपरे त्रिरात्रैकरात्रे ज्ञेये। यद्यपि कर्म कुर्वत एष वाचकः शब्दो भवतीति शम्बराचार्यैः कर्ममध्ये ऋत्विक्त्वमुक्तं, तथापि कर्मण्याशौचनिषेधात्तदुत्तरमेवैतज्ज्ञेयम्। गौडास्तु– 'समानोदकानां त्र्यो गोत्रजानामहः स्मृतम्। मातृबन्धौ गुरौ मित्र मण्डलाधिपतौ तथा॥' इति जाबालोक्तेर्मातृबन्धुष्वेकाहमाहुः। शिष्ये स्वोपनीते त्र्यहः; 'शिष्यसतीर्थ्यब्रह्मचारिषु क्रमेण त्रिरात्रमहोरात्रमेकाहः' इति माधवीये बौधायनोक्तेः। अन्यत्र तु मनुः– 'मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च।' इति। बन्धुत्रयम्– आत्मपितृष्वसृमातृष्वसृमातुलपुत्राः, पितुः पितृष्वसृमातृष्व-समातुलपुत्राः, मातुः पितृष्वसृमातृष्वसृमातुलपुत्राश्चेति विज्ञानेश्वरः। अत्र पक्षिणी।

पितृष्वस्रादि कभ्यानामाशौचम्।—

पितृण्वस्त्रादि पितृष्वत्रादिकन्यानामूढानां त्वेकाहः; 'तद्वन्धुवर्गस्त्वेकेन' इति पूर्वोक्तब्राह्मात्। यत्तु षडशीत्याम्– 'एवं पित्रोर्भगिन्यौ ये ये पितामहयोस्तथा। ये मातामहयोश्चैव भगिन्यौ तत्प्रजाश्च याः॥ मातुलाः स्वस्य पित्रोश्च पत्यश्चैषां प्रजाश्च याः। भ्रातरश्चेति सर्वेषु पक्षिणी स्वगृहे व्यहम्॥ एवं श्वशुरजामातृदौहित्रविपदि स्मृतम्॥', यच्च यमः– 'जामातरि मृते शुद्धिस्त्रिरात्रेणोभयोः स्मृता। पक्षिणी शालकानां स्यादिति शातातपोऽब्रवीत्' इति, तन्निर्मूलत्वान्मिताक्षरादिविरोधाच्चोपेक्ष्यम्।

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬