निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
मदनपारिजाते विष्णुः– 'असपिण्डे स्ववेश्मनि मृते एकरात्रम्।' अत्र हरदत्तः– 'अन्तःशवे च' इत्यापस्तम्बसूत्रतः शवे ग्रामे धनुःशतादर्वागन्नमभोज्यम्। दीपमुदकुम्भं चोपनिधाय तु भुञ्जीत यदि समानवंशं न गृहमेवं सूतिकायामित्याह। प्रधानगृह मृतौ तु– 'गृहे यस्य मृतः कश्चिदसपिण्डः कथञ्चन।तस्याप्यशौचं विज्ञेयं त्रिरात्रं नात्र संशयः॥' इत्यङ्गिरसोक्तमिति माधवः। एतेन– 'त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च।' इति कौर्मं व्याख्यातम्। शुद्धितत्त्वे बृहन्मनुः– 'श्वशूद्रपतिताश्चान्त्या मृताश्चेद्विजमन्दिरे। शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा॥ दशरात्राच्छुनि मृते मासाच्छूद्रे भवेच्छुचिः। द्वाभ्यां तु पतिते गेहमन्त्ये मासचतुष्टयात्॥ अत्यन्त्ये वर्जयेद्वेहमित्येवं मनुरब्रवीत्॥' अन्त्यः= म्लेच्छः अत्यन्त्यः= श्वपाक इति वाचस्पतिः। तत्रैव यमः– 'द्विजस्य मरणे वेश्म विशुध्यति दिनत्रयात्।' संवर्तः– 'गृहशुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिते। प्रोत्सृज्य मृन्मयं भाण्डं सिद्धमन्नं तथैव च॥ गोमयेनोपलिप्याथ छागेन घ्रापयेद्बुधः। ब्राह्मणैर्मत्रपूतैश्च हिरण्यकुशवारिभिः॥ सर्वमभ्युक्षयेद्वेश्म ततः शुध्यत्यसंशयम्॥' बृहद्विष्णुः– 'ग्राममध्यगतो यावच्छवस्तिष्ठति कस्यचित्। ग्रामस्य तावदाशौचं निर्गते शुचितामियात्॥' गृहे पश्चादौ मृतेऽप्येवम्।
यत्तु माधवीये प्रचेतसा मातृष्वस्रादिषु त्रिरात्रमुक्तम्– 'मातृष्वसामातुलयोः श्वश्रूश्वशुरयोर्गुरोः। मृते चर्त्विजि याज्ये च त्रिरात्रेण विशुध्यति॥” इति। गुरुः= आचार्यः, ऋत्विक्= कुलागतः। तत्स्वगृहमृतौ ज्ञेयम्। श्वशुरयोरन्यत्र मृतावपि सन्निधौ त्रिरात्रम्। असन्निधौ पक्षिणी, देशान्तरे एकरात्रम्, वक्ष्यमाणविष्णुक्तेरिति माधवगौडादयः। अन्यत्र तु मातृष्वस्रदिषु पक्षिणी; 'पित्रोः स्वसरि तद्वच्च पक्षिणी क्षपयेन्निशाम्' इति वृद्धमनूक्तेः। यत्तु वृद्धमनुः– 'भगिन्यां संस्कृतायां तु भ्रातर्यपि च संस्कृते।मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते॥ शालके तत्सुते चैव सद्यःस्त्रानेन शुद्ध्यति॥ इति, तद्भातृदौहित्रादौ देशान्तरे, शालकसुतजामात्रोः स्वदेशे ज्ञेयम्। शालके तु स्वदेशे एकाहः; 'आचार्यपत्नीपुत्रोपाध्यायमातुलश्चशुरश्वश्रश्वशुर्यसहाध्यायिशिष्येष्वेकरात्रम्' इति माधवीये विष्णूतेः। हरदत्तीये दशश्लोक्यामप्येवम्। श्वशुर्यः= शालकः, देशान्तरे स्नानम्, श्वशुरयोर्देशान्तरे एकाहः। जाबालः– 'एकोदकानां तु त्र्यहो गोत्रजानामहः स्मृतम्।' सर्वत्र मूल्याभावेऽपि क्रियाकर्तुर्दशाहः, 'गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरेत्। प्रेताहारैः समं तत्र दशरात्रेण शुद्ध्यति॥” इति मनूक्तेः। शिष्यइत्युपलक्षणम् ; ‘निरन्वये सपिण्डे तु मृते सति दयान्वितः। तदाशौचं पुरा चीर्त्वा कुर्यात्तु पितृवक्रियाम्॥' इति माधवीये ब्राह्मोक्तेः। दिवोदासीये– 'सगोत्रो वाऽसगोत्रो वा योऽग्निं दद्यात्सखे नरः। सोऽपि कुर्यान्नवश्राद्धं शुद्ध्येच्च दशमेऽहनि॥' यत्रैकविषये पक्षिण्येकाहादिपक्षद्वयमुक्तं, तत्र सन्निधिविदेशमैत्र्यादिकृता व्यवस्था।
युद्धे मृतस्याशौचः।—
त्रिंशोक्याम्– 'वानप्रस्थे यतौ चोपरमति कुलजे पण्ढके वाप्लवः स्याद्योषिगोविप्रगुप्त्यै मृतवति तु दिनं युद्धविद्धे तु सद्यः।' अत्र मूलमाकरे स्पष्टम्। युद्धमूर्ध्नि मृतस्य स्नानम्, 'उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च। सद्यः सन्तिष्ठते यज्ञस्तथाशौचमिति स्थितिः॥' इति मनूक्तेः। यज्ञः=अन्त्यकर्म। सर्वं तदैवेत्यर्थः। यस्तु भारते राजधर्मेषु– 'अशोच्यो हि हतः शूरः स्वर्गलोके महीयते। न ह्यन्नमुदकं तस्य न स्नानं नाप्यशौचकम्॥' इति श्राद्धादिनिषेधः स पुत्राद्यभावपरः। अत एव तत्र कर्णादीनां श्राद्धमुक्तम्। अन्ये तु दशपिण्ड निषेधमाहुर्यतिवत्। यत्तु पराशरः– 'आहवेऽपि हतानां च एकरात्रमशौचकम्।' इति तद्युद्धक्षतेन कालान्तरमृते ज्ञेयम्। 'असन्निधौ स्नानम्' इति माधवः। शुद्धितत्त्वे अग्निपुराणे– 'दंष्ट्रिभिः शृङ्गिभिर्वापि हता म्लेच्छैश्च तस्करैः। ये स्वाम्यर्थे हता यान्ति राजन्स्वर्गं न संशयः॥ सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः॥' यत्तु बृहस्पतिः– 'डिम्बाहवे विद्युता च राज्ञा गोविप्रपालने। सद्यःशौचं मृतस्याहुरुयहं चान्ये महर्षयः॥' तच्छस्त्रं विना पराङ्मुखहते च त्रिरात्रम्। राज्ञा वध्ये हते सद्यः शौचमन्यत्र त्रिरात्रम्। तथैव व्याघ्रः– 'क्षतेन म्रियते यस्तु तस्याशौचं भवेद्विधा। आसप्ताहात्रिरात्रं स्याद्दशरात्रमतः परम्॥ शस्त्राघाते त्र्यहादूर्ध्वं यदि कश्चित्प्रमीयते। आशौचं प्राकृतं तस्य सर्ववर्णेषु नित्यशः॥' शस्त्राघाते क्षतं विना। शवस्पर्शे तु हारीतः– 'शवस्पृशो ग्रामं न प्रविशेयुरानक्षत्रदर्शनात्, रात्रौ चेदादित्यस्य।' यत्तु मनुः– 'अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः। शवस्पृशो विशुद्ध्यन्ति त्र्यहात्तूदकदायिनः॥' इति। अह्ना रात्र्या चेत्यहोरात्रमित्युक्तम्। त्रिभिस्त्रिरात्रैरिति नवरात्रमेवं दशरात्रमित्यर्थः। तत्तदन्नाशने तद्गृहवासेऽनापदि च ज्ञेयम्। अङ्गिराः– 'आशौचं यस्य संसर्गादापतेगृहमेधिनः। क्रियास्तस्य न लुप्यन्ते गृह्याणां च न तद्भवेत्॥'
अथ निर्हाराद्याशौचम्। स्नेहेन सवर्णनिर्हारे तदन्नाशने तद्गृहवासे च दशाहः तदन्नानशने तद्गृहवासे त्र्यहः। गृहावासेऽन्नाभक्षणे चैकाहः। भृतिग्रहणेन निर्हारे दाहे च तज्जात्याशौचम्; 'यदि निर्हरति प्रेतं प्रलोभाकान्तमानसः। दशाहेन द्विजः शुद्ध्येद्वादशाहेन भूमिपः। मासार्धेन च वैश्यस्तु शूद्रो मासेन शुद्ध्यति॥” इति कौर्मोक्तेः। विजातीय निर्हारे तु शवजातीयमाशौचम्। अत्र भृतिग्रहे द्विगुणम्; 'अवरश्चेद्वरं वर्णं वरो वाऽप्यवरं यदि। वहेच्छवं तदाशौचं द्रव्यार्थे द्विगुणं भवेत्॥' इति व्याघोक्तेः। कौर्ममेतदिति गौडाः। दाहेऽप्येवम्। यत्तु ब्राह्मे– 'योऽसवर्णं तु मूल्येन नीत्वा चैव दहेन्नरः। आशौचं तु भवेत्तस्य प्रेतजातिसमं नृप॥' इति,– तदापदि ज्ञेयम्। सोदकनिहरे तु दशाह इति माधवः।अलङ्करणे तु शङ्कः– 'कृच्छ्रपादोऽसपिण्डस्य प्रेतालङ्करणे कृते। अज्ञानादुपवासः स्यादशक्तौ स्नानमिष्यते॥' धर्मार्थमनाथसवर्णहरणे क्रियाकरणे च द्विजस्यानन्तयज्ञफलम्। 'स्नानं प्राणायामोऽग्निस्पर्शश्च' इति माधवीये। अग्निदेऽप्येवम् ; 'प्रेतसंस्पर्शसंस्कारैर्ब्राह्मणो नैव दुष्यति। वोढा चैवाग्निदाता च सद्यः स्नात्वा विशुद्ध्यति॥ इत्यपरार्के वृद्धपराशरोक्तेः। मातुलत्वादिसम्बन्धे त्रिरात्रम्; 'असम्बन्धिद्विजान्वहित्वा दहित्वा च सद्यःशौचम्, सम्बन्धे त्रिरात्रम्' इति पैठीनसिस्मृतेः।
गौतममिताक्षरायां वृद्धान्त्रिः– सूतकाद्विगुणं शावं शावाद्विगुणमार्तवम्। आर्तवाद्द्विगुणा सूतिस्ततोऽपि शवदाहकः॥' अत्र पूर्वेणोत्तरनिवृत्तिरित्यर्थः। विष्णुः– 'मृतं द्विजं न शूद्रेण हारयेन्न शूद्रं द्विजेन'। देवलः– 'ब्रह्मचारी न कुर्वीत शववाहादिकक्रियाम्। यदि कुर्याच्चरेत्कृच्छ्रं पुनःसंस्कारमेव च॥' याज्ञवल्क्यः– 'आचार्यपित्रुपाध्यायान्निर्हत्यापि व्रती व्रती'। अनुगमने तु सपिण्डे न दोषः; 'विहित हि सपिण्डानां प्रेतनिर्हरणादिकम्। तेषां करोति यः कश्चित्तस्याधिक्यं न विद्यते॥' इति देवलोक्तेः। 'दोषः स्यात्वसपिण्डस्य तत्रानाथक्रियां विना।' इति हारीतोक्तेश्च। समोत्कृष्टवर्णे तु माधवीये कण्वः– 'अनुगम्य शवं बुद्ध्या स्नात्वा स्पृष्ट्वा हुताशनम्। सर्पिः प्राश्य पुनः स्नात्वा प्राणायामैर्विशुध्यति॥' इति। ‘हीनवर्णे तु क्षत्रियेऽहः, वैश्ये पक्षिणी, शुद्रे त्रिरात्रम्, क्षत्रियस्य वैश्येऽहः, शूद्रे पक्षिणी, वैश्यस्य शूद्रेऽहः' इति विज्ञानेश्वरः । माधवस्तु–
1 अत्र ज्ञेयमित्युत्तर "–' अनदन्नन्नमह्नेव न चेत्तेषां गृहे वसेत्।' इति तेनैवोक्तेः। " इति विशेषः क्वचित्।
‘विप्रस्य वैश्ये द्व्यहः, क्षत्रस्य शूद्रेऽप्येवम् अन्यत् प्राग्वत्। स्नानाग्निस्पर्शघृताशनानि सर्वत्रेत्याह। हीनवर्णस्य दाहौर्ध्वदेहिककरणे तु ब्राह्मे– 'ब्राह्मणो हीनवर्णस्य न कुर्यादौर्ध्वदेहिकम्। कामालोभात्तथा मोहात् कृत्वा तज्ज्ञातितां व्रजेत्॥' मनुः– 'व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च। अभिचार महीनं च त्रिभिः कृच्छ्रैर्व्यपोहति॥ परेषां सवर्णानां हीनेषु तद्द्वैगुण्यत्रैगुण्यचातुर्गुण्याद्युह्यम्॥
अथ रोदने समोत्तमवर्णयोः सञ्चयनात्पूर्वं सचैलस्नानमूर्ध्वमाचमनम्। हीनवर्णेषु तु सञ्चयनात्प्राक् सचैलमूर्ध्वं स्नानमात्रम्। विप्रस्य क्षत्रवैश्यविषये तु ब्राह्मे– 'अस्थिसञ्चयने विप्रो रौति चेत्क्षत्रवैश्ययोः। तदा स्नातः सचैलस्तु द्वितीयेऽहनि शुध्यति॥ कृते तु सञ्चये विप्रः स्नानेनैव शुचिर्भवेत्॥' क्षत्रियस्य वैश्येऽप्येवम्। शुद्धे तु सञ्चयनाप्राक् विप्रस्य त्रिरात्रम्। क्षत्रवैश्ययोर्द्विरात्रम्। ऊर्ध्वं तु द्विजानामेकाहः। शूद्रस्य शूद्रे स्पर्श विना सञ्चयात्पूर्वमेकाहः। ऊर्ध्वे सज्योतिरिति माधवीये ज्ञेयम्। शुद्धितत्वे पारस्करस्तु– 'अस्थिसञ्चयनादूर्ध्वं मासं यावद्विजातयः। दिवसेनैव शुध्यन्ति वाससां क्षालनेन च॥ सजातेर्दिवसेनैव त्र्यहात्क्षत्रियवैश्ययोः॥' इत्युक्तम्। सपिण्डानां रोदननिर्हारादावदोष इत्युक्तं प्राक्। विज्ञानेश्वरस्तु– 'मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम्। वर्जयेत्तदहोरात्रं दानश्राद्धादिकर्म च॥” इति पारस्करोक्तेः सर्वत्रैकरात्रमाह॥
अथाशौचान्नभक्षणे विष्णुः– 'ब्राह्मणादीनामाशौचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं यावत्तेषामाशौचव्यपगमे प्रायश्चित्तम्' इति। अज्ञाने त्वङ्गिराः– 'अन्तर्दशाहे भुक्त्वाऽन्नं सूतके मृतकेऽपि वा। अस्याशौचं भवेत्तावद्यावदन्नं व्रजत्यधः॥' प्रायश्चित्तं त्वमत्या विप्रस्य वर्णक्रमेणैकाहत्र्यहपञ्चाहसप्ताहोपवासाः, दश विंशतिः षष्टिः शतं च प्राणायामाः पञ्चगव्याशनं च।अभ्यासे द्विगुणम्। आपदि तु प्राणायामशतं पञ्चशतमष्टशतमष्टसहस्रं गायत्रीजपश्च। मत्यापदि तु सवर्णाशौचे त्रिरघमर्षणं गायत्र्यष्टसहस्रं च। क्षत्रियाशौचे उपवासश्च। वैश्याशौचे त्रिरात्रोपवासश्च।शूद्राशौचे कृच्छ्रः। क्षत्रवैश्ययोः पञ्चशतमष्टशतं गायत्रीजपः। उत्तमेषु शूद्रस्य सर्वत्र स्नानम्। मत्याऽनापदि विप्रस्य वर्णेषुसान्तपनकृच्छ्रमहासान्तपनचान्द्राणि। अभ्यासे तुमासिकद्वैमासिकत्रैमासिकषाण्मासिकानीत्यादि माधवीयादौ ज्ञेयम्॥
अथ दासस्य स्वदास्युत्पन्नस्य सपिण्डमृतौ स्नानमात्रेण स्वामिकार्ये स्पृश्यत्वम्। भक्तदासस्य व्यहोर्ध्वम्; 'सद्यः स्पृश्यो गर्भदासो भक्तदासरूयहाच्छुचिः।' इति स्मृत्यन्तरोक्तेः, 'मूल्यकर्मकराः शूद्रा दासीदासास्तथैव च। स्नाने शरीरसंस्कारे गृहकर्मण्यदूषिताः॥ इति शातातपोक्तेश्च। –एतच्चानन्यसाध्ये तत्कार्यमात्रे॥ अन्यत्र मासाद्याशौचमस्त्येव। एवं दास्यामपि। सूतिकायास्तस्या अस्पृश्यत्वमपि मासमात्रम्; 'दासी दासश्च सर्वो वै यस्य वर्णस्य यो भवेत्। तद्वर्णस्य भवेच्छौचं दास्या मासस्तु सूतकम्॥'
इत्यङ्गिरसोक्तेः। षडशीतावपि– 'स्वामिशौचेन दासाद्याः स्पृश्या मासात्तु कर्मसु। योग्याः स्युर्मासतो दासी सूती चेत्स्पृशतामियात्॥” दत्तदासादीनां स्वसपिण्डमरणादौ स्वाम्याशौचसमसङ्ख्यदिनोर्ध्वं सत्यपि मासाद्याशौचे स्वामिकार्ये स्पृश्यतेति हरदत्तः, 'दासान्तेवासिभृतकाः शिष्याश्चैकत्रवासिनः। स्वामितुल्येन शौचेन शुध्यन्ति मृतसूतके॥ ' इति बृहस्पतिस्मृतेः। दासाश्चत्र– 'गृहजातस्तथा क्रीतो लब्धो दायादुपागतः। अन्नाकालभृतस्तद्वदाहितः स्वामिना च यः॥ मोक्षितो महतश्चर्णायुद्धप्राप्तः पणे जितः। तवाहमित्युपगतः प्रवज्यावसितः कृतः॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः। विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः॥' इति नारदोक्तेषु गर्भभक्तदासौ विना ज्ञेयाः। वडवा= दासी, तयाहृतस्तामुद्वाह्य दासो जात इत्यर्थः। अन्तेवास्यपि तेनैवोक्तः– 'स्वशिल्पमिच्छ– न्नाहर्तुं बान्धवानामनुज्ञया। आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम्॥ आचार्यः शिक्षदेनं स्वगृहे दत्तभोजनम्॥” इति। शिष्यः= तत्तुल्यो विद्यार्थी। दासादेः स्वामितत्स– पिण्डमरणे तु विष्णुः– 'पत्नीनां दासानामानुलोम्येन स्वामितुल्यमाशौचम्, मृते स्वामिन्यात्मीयम्। इति प्रतिलोमदासानामाशौचाभावः; 'वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः।' इति याज्ञवल्क्योक्तेः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा