निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ रात्रौ जनने मरणे वा– 'रात्रिं त्रिभागां कृत्वाऽऽद्यभागद्वये चेत्पूर्वं दिनम्, अन्त्ये तूत्तरम्' इति मिताक्षरायाम्। यत्तु– प्रागर्धरात्रात् प्राग्वा सूर्योदयात्पूर्वं दिनमित्युक्तं, तत्र देशाचारतो व्यवस्था। सर्वं चाशौचमाहिताग्नेहं तद्भिन्नस्स मरणमारभ्य ज्ञेयम्; 'अनग्निमत उत्क्रान्तेराशौचादि द्विजातिषु। दाहादग्निमतो विद्याद्विदेशस्थे मृते सति॥” इति पैठनसिस्मृतेः। साग्निः= आहिताग्निः। 'आहिताग्निश्चेत्प्रवसन्म्रियेत पुनःसंस्कारं कृत्वा शववदाशौचम्' इति वसिष्ठे विशेषोक्तेः, 'दाहादेव तु कर्तव्यं यस्य वैतानिको विधिः' इति ब्राह्माच्च। यत्तु– धूर्तस्वामिना रामाण्डारेण चोक्तम्, आहिताग्नेरपि मरणाद्येव दशरात्रं, 'दशाहं शावमाशौचम्' इति मरणनिमित्तत्वात्तस्य, यत्तु दाहादेव तस्याशौचमुक्तं तत्संस्कारनिमित्ताशौचं पृथगेव; तेन गृह्याग्नेः संस्काराङ्गं त्रिरात्रम्, श्रौतामेस्तु दशरात्रम्। मरणनिमित्तं तूभयोर्दशाहं दाहात्प्रागपीति,– तदेतद्वचनविरोधात्– पूर्वस्यैवोत्कर्षान्मूलकल्पनालाघवाच्च चिन्त्यम्।
अथातिक्रान्ताशौचम्। तत्राशौचमध्ये जननादौ ज्ञाते तच्छेषेण शुद्धि; 'विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्देशम्। यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत्॥' इति मनूक्तेः। अत्र केचिदेतत्पुत्रातिरिक्तविषयम्। तेषां त्वाशौचमध्ये श्रवणेऽपि तदाद्येव दशाहादि। 'पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः। श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत्॥' इत्यस्य सर्वापवादत्वादित्याहुः,–तन्न; ज्ञातमरणस्य निमित्तत्वात्, 'अनग्निमत उत्क्रान्तेः' इत्यादिविरोधाच्च। स्मृत्यर्थसारेऽपि– जनने मरणे वा प्रथमदिनादूर्ध्वं ज्ञाते पुत्रादीनां शेषेणैव शुद्धिः' इति। षडशीतावपरार्के चैवम्। दशाहादूर्ध्वं ज्ञाते तु वृद्धवसिष्ठः– ‘मासत्रये त्रिरात्रं स्यात् षण्मासे पक्षिणी तथा। अहस्तु नवमादर्वागूर्ध्वं स्नानेन शुध्यति॥' जनने त्वतिक्रान्ताशौचं नास्त्येव; 'नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्वम्पि।' इति देवलोक्तेः। पितुः स्नानं तत्रापि भवत्येव; 'निर्देशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च। सवासा जलमाप्लुत्य शुद्धो भवति मानवः॥' इति मनूक्तेः। तच्चातिक्रान्ताशौचं दशाहादिजात्याशौचविषयम्, न त्वनुपनीतादिनिमित्तत्रिरात्रादौ ; 'उपनीते तु विषमं तस्मिन्नेवातिकालजम्।' इति व्याघ्रोक्तेः। 'निर्दशं ज्ञातिमरणम्', 'अतिक्रान्ते दशाहे तु' इति मनूक्तेश्च।माधवीये देवलस्तु– 'आ त्रिपक्षात्रिरात्रं स्यात् षण्मासात् पक्षिणी ततः। परमेकाहमावर्षादूर्ध्वं स्नातो विशुध्यति॥' इत्याह। तत्रापदनापद्विषयत्वेन व्यवस्था। इदं चैकदेशे।
देशान्तरे तु स्नानमात्रम्; 'देशान्तरमृतं श्रुत्वा क्लीबे वैखानसे यतौ। मृते स्नानने शुध्यन्ति गर्भस्रावे च गोत्रिणः। इति पराशरोक्तेरिति विज्ञानेश्वरः। स्नानं वत्सरान्ते; 'अर्वाक्त्रिपक्षात्रिनिशं षण्मासाच्च दिवानिशम्। अहः संवत्सरादर्वाग्देशान्तरमृतेष्वपि॥' इति विष्णूतेरिति माधवः। इदं सपिण्डानां देशान्तरे स्त्रानं सोदकानामिति युक्तम्। लक्षणं त्वाह बृहस्पतिः– 'महानद्यन्तरं यत्र गिरिर्वा व्यवधायकः। वाचो यत्र विभिद्यन्तेतद्देशान्तरमुच्यते॥ देशान्तरं वदन्त्येके षष्टियोजनमायतम्। चत्वारिंशद्वदन्त्यन्ये त्रिशदन्ये तथैव च॥' इति। एतत्सर्वं मातापितृभिन्न विषयम्। तयोस्तु 'पितरौ चेत्' इति पूर्वपैठीनसिवाक्यात्सदा पूर्णमेव दशाहादि। स्मृत्यर्थसारेऽपि– 'मातापितृमरणे दूरदेशेऽपि संवत्सरोर्ध्वमपि पुत्रो दशाहादिक पूर्णमाशौचं कुर्यात्। स्त्रीपुंसयोः परस्परं सपत्नीषु चैवम्' इति। शुद्धितत्त्वादयो गौडास्तु– 'ऊर्ध्वं संवत्सरादाद्याद्वन्धुश्चेच्छ्रयते मृतः। भवदेकाहमेवात्र तच्च सन्न्यासिनां न तु॥ इति देवलोक्तेः पित्रोरब्धमध्ये त्रिरात्रमूर्ध्वमेकाहः। बन्धुर्माता पिता भर्ता च। पूर्वोक्तदशाहस्तु कलिङ्गादिदेशपर इत्याहुः, ते 'बन्धु' पदस्य पुत्रादिपरत्वे मानाभावादुपेक्ष्याः। सापत्नमातुस्तु दक्षः– 'पितृपत्न्यमपेतायां मातृवर्जं द्विजोत्तमः। संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत्॥' 'हीनवर्णमातृषु सपत्नीषु चैवम्' इति स्मृत्यर्थसारे। केचित्– 'पितुः पत्यां प्रमीतायामौरसे तनये तथा। इति ब्राह्मोक्तेस्त्वौरसेऽपीदमाहुः। षडशीतावप्येवम्। एतत्सर्ववर्णतुल्यम्, 'तुल्यं वयसि सर्वेषामतिक्रान्ते तथैव च।" इति व्याघ्रोक्तः।
अथाशौचसम्पाते उच्यते– तत्र शावे शावं, सूतके सूतकम्। शावे सूतकं, सूतके शावं वा। तत्राप्युत्तरं कालतः पूर्वेण समं न्यूनमधिकं चेति द्वादश भेदाः। यदैकदिने समं न्यूनमधिकं वाशौचद्वयं तत्र तन्त्रेणान्यसिद्धिः द्वयोरेककालत्वात्। यदा तु द्वितीयादिदिनेषुत्तरं सजातीयं शावे जननं वा समकालं न्यूनकालं वा परं स्यात्तदा षट्सु पक्षेषु पूर्वशेषेण शुद्धिः ; 'अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति।' इति याज्ञवल्क्योक्तेः। अन्तरा ज्ञाते इत्यर्थः; ज्ञातस्यैव जननादेर्निमित्तत्वात्। पूर्वाशौचोत्तरं तन्मध्योत्पन्ने ज्ञाते तूत्तरमेव कार्यम्। शुद्धितत्त्वेऽप्युक्तं– पूर्वाशौचान्तरुत्पन्नं समानं लघु वा निमित्तं तत्कालादुपरि श्रुतं स्वाशौचहेतुरेव। अज्ञातं तु न। 'अविज्ञाते न दोषः स्याच्छ्राद्धादिषु कथञ्चन।' इत्यस्याशौचसाङ्कर्येऽपि प्रवृत्तेः। तेनाज्ञानाद्वृषोत्सर्गादौ कृते पश्चात् ज्ञातेऽपि नावृत्तिरिति। माधवीये यमोऽपि– 'जनने जननं चेत्स्यान्मरणे मरणं तथा। पूर्वशेषेण शुद्धिः स्यादुत्तराशौचवर्जनम्॥' अत्र केचित्– 'अन्तर्दशाहे स्यातां चेत्पुनर्भरणजन्मनी। तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम्॥' इति मनुपराशराद्यैर्दशाहग्रहणात् पूर्णाशौचे एव पूर्वशेषेण शुद्धिः। त्र्यहाद्यल्पाशौचसम्पाते तूत्तरेणैव शुद्धिरित्याहुः; हरदत्तोऽप्येवमाह, गौडा अप्येवम्,– तन्न; याज्ञवल्क्यादिवशेन दशाहस्य तुल्यकालाशौचोपलक्षणत्वात्। ‘समानाशौचसम्पाते प्रथमेन समापयेत्।असमानं द्वितीयेन धर्मराजवचो यथा॥' इति माधवीये शोक्तेः। अपरार्कमिताक्षरादिविरोधाच्च।
यदा तु सूतके शावं समं न्यूनमधिकं वा तदा न पूर्वरोपाच्छुद्धिः। तदाहाङ्गिराः– ‘सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकम्। तत्राधिकृत्यं मृतकं शौचं कुर्यान्न सूतकम्॥' षट्त्रिंशन्मते– ‘शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत्। शावेन शुद्ध्यते सूतिर्न सूतिः शावशोधिनी॥ चतुर्विंशतिमतेऽपि– 'मृतेन शुद्ध्यते जातं न मृतं जातकेन तु।' अतो यदा दशाहजननमध्ये तदन्ते वा त्र्यहादि शावं तदा पूर्वेण शुद्धावपि तन्निमित्तमस्पृश्यत्वं भवत्येव। ‘मरणोत्पत्तियोगे तु गरीयो मरणं भवेत्।' इति कौर्माच्च। गौतम– व्याख्यायां वृद्धात्रिरपि– सूतकाद्द्विगुणं शावं शावाद्द्विगुणमार्तवम्। आर्तवाद्द्विगुणा सूतिस्ततोऽपि शवदाहकः॥' अत्र पूर्वपूर्वेण नोत्तरोत्तरनिवृत्तिरस्पृश्यत्वाधिक्यादित्यर्थः। षडशीतावपि– 'स्वभाववहुसूतिस्तु न्यूनशावविशोधिनी।' इति। रात्रिशेषादौ वर्धितद्वित्रिदिनैरागन्तुकैः सूतेर्बहुत्वं न स्वभावेन। अतस्तत्र न्यूनशावस्यापि न पूर्वेण शुद्धिरिति वक्तुं स्वभावेत्युक्तम्। ब्राह्मेऽपि– 'नागन्तुकैरथाहोभिराशौचमपनुद्यते। न च पातनिमित्तेन शावस्यान्यस्य शोधनम्॥' इति। एवं नव पक्षाः। यदा तु त्र्यहाद्यल्पाशौचमध्ये सजातीयं विजातीयं वा दीर्घकालमुत्तरं, तदाप्युत्तरं पूर्णं कार्यं न पूर्वेण शुद्धिः; 'स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद्यदि। न पूर्वेण विशुद्धिः स्यात् स्वकालेनैव शुध्यति॥' इत्युशन– सोक्तेः। तेन त्र्यहादिशावमध्ये दशाहादिसूतकेऽपि न पूर्वेण शुद्धिरित्यपरार्कः । शावनिमित्तमस्पृश्यत्वं च भवत्येव। शुद्धिविवेके तु– 'शावेन शुद्ध्यते सूतिः' इति
प्रागुक्तेस्तत्राप्युत्तराशौचनिवृत्तिरुक्ता, –तन्न; उत्तरस्य कालाधिक्येन बलवत्त्वात्। माधवीये यमोऽपि– 'अघवृद्धिमदाशौचं पश्चिमेन समापयेत्। यथा त्रिरात्रे प्रक्रान्ते दशाहं प्रविशेद्यदि॥ आशौचं पुनरागच्छेत्तत्समाप्य विशुध्यति॥ इति। हारीतोऽपि– 'गुरुणा लघु शुध्येत्तु लघुना नैव तद्गुरु।' इति। गुरुत्वं लघुत्वं च कालकृतमेव, पूर्वानुरोधात्। एतच्च हरदत्तेन स्पष्टमुक्तम्। मिताक्षरायामप्येवम्। यत्तु– 'अघानां यौगपद्ये तु ज्ञेया शुद्धिर्गरीयसी। मरणोत्पत्तियोगे तु गरीयो मरणं भवेत्॥” इति हारीतकौर्मादि, तत्रास्पृश्यत्वाभिप्रायं शावस्य गुरुत्वं ज्ञेयम्।
क्वचिदल्पकालेनापि दीर्घकालाशौचनिवृत्तिमाह देवलः– 'परतः परतोऽशुद्धिरघवृद्धौ विधीयते। स्याच्चेत्पञ्चतमादह्नः पूर्वेणैवात्र शिष्यते॥' अस्यार्थः– अघवृद्धौ दीर्घाशौचे परतोऽशुद्धिः परमाशौचम्। यदि पूर्वाशौचमुत्तरस्य पञ्चमदिनात्परतोऽनुवर्तते, तदा पूर्वेणैव शुद्धिः। पूर्वस्योत्तराशौचार्धाधिककालव्यापित्वे पूर्वशेषाच्छुद्धिरित्यर्थः। यथा षष्ठे मासे गर्भपातनिमित्तषडहाशौचमध्ये दशाहपाते पूर्वेणोत्तरनिवृत्तिः। यथा वा त्र्यहमध्ये स्रावपातनिमित्तचतुरहपञ्चायोरिति कश्चित्– तन्नः दशाहावधि पूर्वशेषशुद्ध्यावेदकवाक्यविरोधात्, षष्ठादिदिने पूर्णाशौच मन्त्यरात्रौ तु द्व्यह इत्यनौचित्याच्च। अस्मद्गुरवस्तु पञ्चतमादह्न आशौचं ततो न्यूनं त्र्यहादि चेत्स्यादस्मिन्विषये पूर्वेणैवाशुद्धिः शिष्यते। दशाहादिरात्रिशेषे त्र्यहादिपाते त्र्यहाद्यल्पाशौचानां परस्परं रात्रिशेषे सम्पाते च न द्व्यहादिवृद्धिरित्यर्थमाहुः। क्कचित्पूर्वशेषेण शुद्धेरपवादमाह गौतमः– 'रात्रिशेषे सति द्वाभ्यां, प्रभाते तिसृभिः' इति। प्रभाते= अन्त्ययामे; 'रात्रिशेषे द्व्यहाच्छुद्धिर्यामशेषे शुचिरूयहात्।' इति शातातपोक्तेः। इदं शावान्ते सूतकपाते सजातीये वा तुल्यम्। अत्र केचित्- 'रात्रि' शब्दोऽहोरात्रपरः। 'अहः शेषे द्वाभ्यां प्रभाते तिसृभिः' इति शङ्खलिखितोक्तेः। 'अथ यदि दशरात्राः सन्निपतेयुराद्यं दशरात्रमाशौचमानवमाद्दिवसादत ऊर्ध्वं द्विरात्रेण व्युष्टायां त्रिरात्रेण' इति बौधायनोक्तेः। 'पुनः पाते दशाहात्प्राक् पूर्वेण सह गच्छति। दशमेऽह्नि पतेद्यस्याहर्द्वयात्स विशुध्यति॥' इति 'प्रभाते तु त्रिरात्रेण दशरात्रेष्वयं विधिः।' इति देवलोक्तेश्च। 'नवम-दशम' शब्दौ चोपान्त्यान्त्यदिनपरौ। तेन क्षत्रियादावपि तथेत्याहुः। माधवीयेऽप्येवम्
अन्ये त्वाहुः– 'अन्तर्दशाहे स्यातां चे पुनर्भरणजन्मनी। तावत्स्यादशुचिर्विप्रो यावतत्स्यादनिर्दशम्॥” इति मनुपराशराद्यैर्दशमदिनेनोत्तरस्य शुद्धेरुक्तत्वाद्विरोधः स्पष्ट एव। विरोधे च– 'यद्वै किञ्चन मनुरवदत्तद्वेषजम्,' 'कलौ पाराशरस्मृतिः' इत्यनेन पूर्ववचसां बाधः। अत एव वाचस्पतिना तेषामनाकरत्वमुक्तम्। साकरत्वेऽपि जातिमात्रविप्रादिविषयं देशान्तरविषयं वा युगान्तरविषयं वास्तु। तेन गौतमीये 'रात्रि' शब्दो नाहोरात्रपरः। 'रात्रिमात्रावशिष्टे' इति मिताक्षरोक्तेश्च न कुकविकृतेरिवान्यथा व्याख्या युक्ता। माधवस्तु 'अनिर्गतदशाहम्' इति पूर्वस्वग्रन्थविरोधादुपेक्ष्य इति। अस्मत्पितृचरणास्तु बौधायनीये– 'आनवमाद्दिवसात्' इति द्वितीया शौचस्य नवमं दिनं प्रथमस्य दशममेवाह। द्व्यहादिवृद्धेः पूर्वशेषापवादत्वात्। तस्य च न्यायतो द्वितीयदिनादेव प्रवृत्तेः, अत ऊर्ध्वमिति दशमरात्रिपरम्। शङ्खलिग्वितोक्तौ देवलोक्तौ चाहःशेषे दशमेऽह्नि चातीते रात्रौ पतेदित्यर्थः। 'दशम्यां पिता नाम कुर्यात्' इतिवत्। तेम न मन्वाद्यैर्विरोधो नापि मिताक्षराद्यैरित्याहुः। अपराकै निर्णयामृतस्वरसोऽप्येवम्। यत्तु तत्रैव ब्राह्मे– ' आद्यं भागद्वयं यावत्सूतकस्य तु सूतकम्। द्वितीयं पतति त्वाद्यात्सूतकाच्छुद्धिरिष्यते॥अत ऊर्ध्वं द्वितीयात्तु सूतकान्ताच्छुचिः स्मृतः। एवमेव विचार्यं स्यान्मृतके मृतकान्तरम्॥ मृतकस्यान्तरे यत्र सूतकं प्रतिपद्यते। सूतकस्यान्तरे वाथ मृतकं यत्र विद्यते॥ मृतकान्ते भवेत्तत्र शुद्धिर्वर्णेषु सर्वशः॥ इति। अस्यार्थस्तत्रैवोक्तः– पूर्वाशौचचरमाहोरात्रस्य दिनरूपे आद्यभागद्वयेऽन्याशौचपाते पूर्वेण शुद्धिः।भागद्वयोर्ध्वं रात्रौ सूतकान्तरे द्वितीयात्पूर्वभिन्नात्सूतकान्ताद्वयहादिरूपाच्छुद्धिरिति। अपरार्के त्वाशौचकालं त्रेधा विभज्य निर्गुणाविषयत्वेनेदमुक्तम्। अस्य वचनस्य निर्मूलत्वोक्तिरज्ञोक्तिरेव। अतः पूर्वाशौचान्त्यरात्रावन्याशौचेऽहोरात्रद्वयमधिकम्, रात्रेरन्त्ययामे तु दिनत्रयमिति भट्टचरणोपदिष्टः पन्थाः। –एतत्सम्पूर्णाशौचसम्पाते एव। रात्रिशेषे त्रिरात्रादिसम्पाते तु पूर्वशेषेणैव शुद्धिः; द्विरात्रादिवृद्धेः पूर्ववाक्यैर्दशाहविषयत्वादपवादाभावे शेषशुद्धेरेव सामान्यतः प्रवृत्तेः। षडशीतौ तु दशाहान्ते त्र्यहपातेऽपि द्वित्रिदिनवृद्धिरुक्ता, 'रात्रिशेषे यदाशौचं पूर्वानधिकमापतेत्। ऊर्ध्वं दिनद्वयं पूर्वाद्यामशेषे दिनत्रयम्॥' इति। अनधिकं= समं न्यूनं वा। तत्तुच्छम्, निर्मूलत्वादन्ते पक्षिण्यादिपातेऽपि द्विरात्रादिवृद्ध्यापत्तेश्च। पूर्वाशौचान्तर्वर्धितद्वित्रिदिनमध्येऽधिकाशौचान्तरपाते तु वर्धितस्याल्पत्वादधिकेनैव शुद्धिः। न च वर्धितस्य पूर्वशेषत्वं शङ्कनीयम्; रात्रिशेषपूर्वशेषशुद्ध्यपवादे नैमित्तिकावृत्तिन्यायोज्जीवनात्, अपवादाभावे उत्सर्गस्य प्राप्तेः
अपवादान्तरमाह शङ्खः– 'मातर्यग्रे प्रमीतायामशुद्धौ म्रियते पिता। पितुः शेषेण शुद्धिः स्यान्मातुः कार्या तु पक्षिणी॥' पादत्रयं स्पष्टम्। तुर्यस्य त्वयमर्थः– पित्राशौचमध्ये मातृमृतौ पित्राशौचान्ते मातुः पक्षिणीमधिकां कुर्यादिति। अत्राशुद्धावित्युक्तेरात्महादेः पितुराशौचाभावान्मातृमरणे न पक्षिणी, किन्तु पूर्णमेवाशौचम्। इयं च पक्षिणी तृतीयादिदिनपरा; नाद्यदिनद्वये प्रतिनिमित्तनैमित्तिकावृत्तिन्ययापवादत्वादिति पितृचरणाः। सपिण्डाद्याशौचेन मातापित्रोराशौचापगमो नास्त्येव। एवं भर्तुरपि। इयं च पक्षिणी दशमदिनात्पूर्वं मातृमरणे ज्ञेया। दशम्यां रात्रौ तत्प्रभाते वा मातृमरणे द्व्यहत्र्यहसमुच्चिता पक्षिणीति कश्चित्,– तन्न; सङ्ख्यान्तरोपजननापत्त्या त्र्यहादिश्रुतिबाधापत्तेः। अत एव 'एका देया षड्देया' इत्यादौ श्रुतसङ्ख्याबाधापत्तेः समुच्चयो निरस्तो द्वादशे। गुरुणि लघोरन्तर्गतेः 'गुरुणा लघु शुद्धयेत्' इत्युक्तेश्च।
'यदा नारी विशेदग्निं प्रियस्य प्रियवाञ्छया। तदाशौचं विधातव्यं भर्त्राीशौचक्रमेण हि॥' इति पृथ्वीचन्द्रोदये लघुहारीतोक्तेः। तत्रैव षडशीतिमतेऽपि– 'मृतं पतिमनुव्रज्य पत्नी चेदनलं गता। न तत्र पक्षिणी कार्या पैतृकादेव शुध्यति॥ पुत्रोऽन्यो वाऽग्निदस्तस्यास्तावदेवाशुचिस्तयोः। नवश्राद्धं सपिण्डं च युगपत्तु समापयेत्॥' गृहीताशौचानां पुत्राणां पितुः संस्कारे मातुः सपिण्डस्य वा मरणे नायं निर्णयः, अतिक्रान्तकालाद्विद्यमाननिमित्तस्य बलवत्त्वात्। द्वादशवर्षोत्तरं संस्काराशौचमध्ये सपिण्डमरणेऽप्येवम्। यत्तु– अप– रार्के ब्राह्मे– 'ऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी। त्र्यहाशौचे तु निर्वृत्ते श्राद्धं प्राप्नोति शास्त्रवत्॥' इति,– तद्भर्तुराशौचोत्तरमन्वारोहणे त्रिरात्राशौचपरमिति पृथ्वीचन्द्रः। ब्राह्मणादेः क्षत्रियाद्यनुगमनेऽल्पाशौचपरमित्यपरार्कः। शुद्धितत्त्वादयो गौडास्तु– 'भर्तुराशौचोत्तरमन्वारोहणे त्रिरात्रम्, सहगमने तु सम्पूर्णम्; युद्धहतस्य सद्यःशौचेऽन्वारोहणे ब्राह्मोक्तेस्त्रिरात्रत्वात्। भर्तुरपि त्र्यहेण पिण्डदानम्। एकचितौ तु सद्यःशौचम्' इत्याहुः। अन्यत्प्रागुक्तम्।
पूर्वशेषेण शुद्धेरपवादान्तरमुक्तं षडशीत्याम्– 'पूर्वाशौचेन या शुद्धिः सूतके मृतके च सा।सूतिकामग्निदं हित्वा प्रेतस्य च सुतानपि॥' निर्णयामृते स्मृतिसङ्ग्रहेऽपि 'इयं विशुद्धिरुदिता सूतिकामग्निदं विना॥ –इदं मूल्येन दाहकरणे। मातुलादिसम्बन्धेन दाहमात्रकरणे तु त्रिरात्रमेवेत्युक्तं प्राक्। वृद्धात्रिः– 'सूतकाद्द्विगुणं शावं शावाद्द्विगुणमार्तवम्। आर्तवाद्द्विगुणा सूतिस्ततोऽपि शवदाहकः॥' तथाशौचसम्पाते न शावजनननिमित्तकार्यप्रतिबन्धः। ‘आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत्। कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुध्यति॥” इति प्रजापतिस्मृतेः। आशौचे तु द्विविधेऽपि शातातपः– 'अन्तर्दशाहे जननात्पश्चात्स्यान्मरणं यदि। प्रेतमुद्दिश्य कर्तव्यं पिण्डदानं यथाविधि॥ प्रारब्धे तपिण्डे तु मध्ये चेज्जननं भवेत्। तथैवाशौचपिण्डांस्तु शेषान्दद्याद्यथाविधि॥' मातुः पक्षिणीमध्ये पितुरेकादशाहं च कुर्यात्। 'आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि।' इति स्मृतेः। केचित्तु– इदं क्षत्रियादिपरम्, विप्रादेस्त्वाशौचान्तर एकादशाहश्राद्धं नेत्याहुः। अत एव विज्ञानेश्वरेण– 'दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत्।' इति शुचित्वं महैकोद्दिष्टाङ्गविप्रनिमन्त्रणपरमिति वदता तत्र शुद्धेरङ्गत्वं दर्शितम्। एवं वृषोत्सर्गशय्यादावपि। देवयाज्ञिकेन त्वाशौचान्तरेऽपि भवत्येवेत्युक्तम्॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा