निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथाशौचापवादः। स च पञ्चधा– कर्तृतः, कर्मतः, द्रव्यतः, मृतदोषतः, विधानाच्च। आद्यो ब्रह्मचारियत्यादिषु। 'नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम्। नाशौच कीर्तितं सद्भिः पतिते च तथा मृते॥” इति कौर्मोक्तेः। तुर्यपादे 'शावे वापि तथैव च' इति देवलपाठः। आशौचमन्त्यकर्मोपलक्षणम्; 'ब्रह्मचारी न कुर्वीत शववाहादिकाः क्रियाः। यदि कुर्याच्चरेत्कृच्छ्रं पुनःसंस्कारमेव च॥' इति देवलोक्तेः। –एतत्पित्राद्यतिरिक्तविषयम्; 'आचार्यं स्वमुपाध्यायं मातरं पितरं गुरुम्। निर्हत्य तु व्रती प्रेतं न व्रतेन वियुज्यते॥' इति मनूक्तेः। हारीतः– मातापित्रोस्तु यत्प्रोक्तं व्रतचारी तु पुत्रकः। व्रतस्थोऽपि हि कुर्वीत पिण्डदानोदकक्रियाम्॥ भवत्यशौचं नैवास्य नैवाग्निस्तस्य लुप्यते। स्वाध्यायं च प्रकुर्वीत पूर्ववद्विधिदर्शितम्॥' संवर्तः– 'अन्यगोत्रोपसम्बन्धः प्रेतस्याग्निं ददाति यः। पिण्डं चोदकदानं च स दशाहं समाचरेत्॥' निर्हरणमन्त्यकर्मपरम्। एवं मातामहस्य ; 'यथा व्रतस्थोऽपि सुतः पितुः कुर्यात् क्रियां नृप। तथा मातामहस्यापि दौहित्रः कर्तुमर्हति॥ इत्यपरा भविष्योक्तेः। 'मातापित्रोरुपाध्यायाचार्ययोरौर्ध्वदेहिकम्। कुर्वन्मातामहस्यापि व्रती न अश्यते व्रतात्॥ इति कालादर्शाच्च। तत्रान्त्यकर्मनिमित्तमस्पृश्यत्वं दशाहमस्त्येव, 'सगोत्रो वाऽसगोत्रो वा योऽग्निं दद्यात्सखे नरः। सोऽपि कुर्यान्नवश्राद्धं शुद्ध्येत्तु दशमेऽहनि॥' इति दिवोदासोक्तवचनात्। अत एव 'ब्रह्मचारिणः शवकर्मिणो व्रतान्निवृत्तिरन्यत्र मातापित्रोर्गुरोश्च' इति गौतमीये व्रतनिवृत्तेरेव पर्युदासो नाशौचस्य। सन्ध्यादिकर्मलोपस्तु नास्ति 'न त्यजेत्सूतके कर्म ब्रह्मचारी स्वकं क्वचित्।' इति छन्दोगपरिशिष्टात्, 'पित्रोर्गुरोर्विपत्तौ तु ब्रह्मचार्यपि यः सुतः। सव्रतश्चापि कुर्वीत अग्निपिण्डोदकक्रियाम्॥ तेनाशौचं न कर्तव्यं सन्ध्या चैव न लुप्यते। अग्निकार्यं च कर्तव्यं सायं प्रातश्च नित्यशः॥' इति चन्द्रिकायां संवर्तोक्तेश्च अत्र कर्मानधिकाररूपाशौचनिषेध एव। अपरार्कमाधवादयस्तु एकाहमाशौचमाहुः– 'आचार्यं वाप्युपाध्यायं गुरुं वा पितरं च वा। मातरं वा स्वयं दग्ध्वा व्रतस्थस्तत्र भोजनम्॥ कृत्वा पतति नो तस्मात्प्रेतान्नं तत्र भक्षयेत्। अन्यत्र भोजनं कुर्यान्न च तैः सह संवसेत्॥ एकाहमशुचिर्भूत्वा द्वितीयेऽहनि शुध्यति॥” इति ब्राह्मोक्तेः। तदन्नभोजने तु प्रायश्चित्तं पुनरुपनयनमाशौचं च।
दिवोदासादयस्तु– ब्राह्मोक्तेः प्रथमेऽह्नि सन्ध्यादिलोपः, 'ब्रह्मचारी यदा कुर्यात्पिण्डनिर्वपणं पितुः। तावत्कालमशौचं स्यात्पुनः स्त्रात्वा विशुद्ध्यति॥ इति प्रजापतिवचनात्, द्वितीयाहादौ पिण्डदानकाले एवास्पृश्यत्वमात्रं नान्यदेत्याहुः। दशाहमस्पृश्यत्वेऽपि कर्माङ्गनानविधानार्थमेतदिति युक्तम्। अन्त्यकर्माकरणे तु ब्रह्मचारिणः पित्रादिमरणेऽप्याशौचाभाव एव। सोऽपि ब्रह्मचर्य काल एव समावर्तनोत्तरं तु पूर्वमृतानां त्र्यहाशौचं भवत्येव, 'आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात्। समाप्ते तूदकं दत्त्वा त्रिरात्रमशुचिर्भवेत्॥' इति मनूक्तेः। तत्रापि विकल्पः; 'पितर्यपि मृते नैषां दोषो भवति कर्हिचित्। आशौचं कर्मणोऽन्ते स्यात्र्यहं वा ब्रह्मचारिणाम्॥' इति छन्दोगपरिशिष्टात्। तथा कृतजीवच्छ्राद्धेन किमयाशौचं न कार्यमिति हेमाद्रिः। शुद्धितत्वे कौर्मे– 'सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपद्रवे। डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजः॥' उपद्रवे= अत्यन्तमरके; 'उपसर्गमृते चैव सद्यःशौचं विधीयते।' इति पराशरोक्तेः। उपसर्ग = अत्यन्तमरक इति शूलपाण्यनिरुद्धभट्टादयः। याज्ञवल्क्योऽपि– 'आपद्यपि च कष्टायां सद्यःशौचं विधीयते॥' इति मरणसमयेऽपि नाशौचम्। तथा च शुद्धिरत्नाकरे दक्षः– 'स्वस्थकाले त्विदं सर्वं सूतकं परिकीर्तितम्। आपद्धतस्य सर्वस्य सूतकेऽपि न सूतकम्॥ ' अतः सति वैराग्ये सन्न्यासोऽप्यातुरस्य भवतीति केचित्॥
अथ कर्मतः त्रिंशच्छोक्याम्– 'तत्तत्कार्येषु सत्रिव्रतिनृपनृपवद्दीक्षितर्त्विक्स्वदेश भ्रंशापत्स्वप्यनेकश्रुतिपठनभिषक्कारुशिल्प्यातुराणाम्। सम्प्रारब्धेषु दानोपनयनयजनश्राद्धयुद्ध-प्रतिष्ठाचूडातीर्थार्थयात्राजपपरिणयनाद्युत्सवेष्वेतदर्थे॥' नाशौचमिति शेषः। सत्री= अन्नसत्रवान्; मुख्यसत्रस्य 'दीक्षित' पदात्सिद्धेः। व्रती= अनन्तव्रतादिनियमवान्। 'न व्रतिनां व्रते' इति विष्णूक्तेः। प्रचेताः– 'कारवः शिल्पिनो वैद्या दासी दासास्तथैव च। राजानो राजभृत्याश्च सद्यः शौचाः प्रकीर्तिताः॥' कारवः = सूपकाराद्याः, शिल्पिनः= चैलनिर्णेजकाद्याः, आतुरस्य व्याधिनाशार्थे दानादौ। तुलादानादेः प्रारम्भो नान्दीश्राद्धं सङ्कल्पो वा। यजनं= तडागोत्सर्गकोटिहोमादिः। लघुविष्णुः– 'व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। आरब्धे सूतकं न स्यादनारब्धे तु सूतकम्॥ प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः। नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया॥' इति। पाकस्य परि समन्तात्क्रिया पाकप्रोक्षणमिति शुद्धिप्रदीपः,– तन्मन्दम् ; रूढेर्योगाद्वलवत्त्वात्। तीर्थेति = आशौचे आकस्मिकतीर्थप्राप्तौ 'विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि। न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत्॥' इति पैठीनसिस्मृतेः। अत्र विशेषः प्रागुक्तः। जपः= पुरश्चरणादिः, स्तोत्रपाठः अविच्छेदेन सङ्कल्पितहरिवंशश्रवणादिश्च। अत एवोक्तं ब्राह्मे– 'गृहीत नियमस्यापि न स्यादन्यस्य कस्यचित्॥” इति। एवं देवपूजादि। मदनपारिजाते यमोऽपि– 'शिवविष्ण्वर्चनं दीक्षा यस्य चाग्निपरिग्रहः। श्रौतकर्मणि कुर्वीत स्त्रातः शुद्धिमवाप्नुयात्॥' गौडशुद्धितत्त्वे मन्त्रमुक्तावल्याम्– 'जपो देवार्चनविधिः कार्यो दीक्षान्वितैनरैः। नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम्॥ राघवभहीये नारदः– 'अथ सूतकिनः पूजां वक्ष्याम्यागमचोदिताम्। स्नात्वा नित्यं च निर्वर्त्य मानस्या क्रियया तु वै॥ बाह्यपूजाक्रमेणैव ध्यानयोगेन पूजयेत्। यदि कामो न चेत्कामी नित्यं पूर्ववदाचरेत्॥' यत्तु नृसिंहकल्पे – 'सदा मन्त्रजपं मुक्त्वा यदि स्यादशुचिर्नरः। मनसावहितस्तत्र स्मरेन्मत्रं न तूच्चरेत्॥ 'तन्मूत्राद्याशौचपरम्। रामार्चनचन्द्रिकायाम् –'अशुचिर्वा शुचिर्वापि गच्छंस्तिष्ठन्स्वपन्नपि \। मन्त्रैकस्मरणो विद्वान् मनसैव सदाभ्यसेत्॥' कालनियमाभावे तु स्तोत्रहरिवंशादि हेयमेव। उत्सवः=रथयात्रादिः। एषु नाशौचम्। अयं चाशौचाभावोऽनन्यगतित्वे आर्तौ च ज्ञेयः। अत्र मूलमाकरे स्पष्टम्।
अत्र दीक्षितस्य अवभृथात्पूर्वमेवाशौचाभावः। तदादि त्वाशौचमस्त्येव। 'तेन वैतानोपासनाः कार्याः' इति वैतानत्वेऽप्यवभृथादि न भवत्येव। अत एवोक्तं माधवीये ब्राह्मे'–तद्वद्गृहीतदीक्षस्य त्रैविद्यस्य महामखे। स्त्रानं त्ववभृथे यावत्तावत्तस्य न सूतकम्॥' इति। वैतानोपासनाः कार्याः' इत्यनेनैव सिद्धेर्ऋत्विजां दीक्षितानां चेति पुनर्दीक्षितग्रहणं यजमाने स्वयङ्कर्तृत्वार्थं स्नानप्राप्त्यर्थं वेति विज्ञानेश्र्वरः। वस्तुतस्तु – दीक्षणीयासंस्कृतस्य प्रागवभृथात्कर्मप्राप्त्यर्थे 'दीक्षित' ग्रहणम्। तेन ततः पूर्वं निषेध एव। –यत्तु 'प्रारम्भोवरणं यज्ञे' इति, तहत्विक्परम्। तथा च छन्दोगपरिशिष्टे – 'न दीक्षिण्याः परं यज्ञे न कृच्छ्रादि तपश्र्चरन्।' इति शुद्धितत्त्वेऽप्येवम्। ऋत्विजां च मधुपर्कोत्तरमाशौचाभावः;'गृहीतमधुपर्कस्य यजमानात्तु ऋत्विजः। पश्चादशौचे पतिते न भवेदिति निश्र्चयः॥' इति ब्राह्मात्। अत एव रामाण्डारः– 'चतुर्णां वरणपक्षेऽन्येषामाशोचेऽन्य आगमयितव्यः' इत्याह। एवं स्मार्तेऽपि तुलाकोटिहोमादौ मधुपर्के सति दोपाभावो ज्ञेयः। यत्तु 'प्रारम्भो वरणं यज्ञे' इति, तत्रापि मधुपर्कान्तं ज्ञेयम्। तेनाधानेष्टिपशुबन्धादौ तदभावादन्ये भवन्तीति सिद्धम्।
अपवादान्तरमाह याज्ञवल्क्यः – 'वैतानोपासनाः कार्याः क्रियाश्र्च श्रुतिचोदनात्'। तत्र त्यागमात्रे स्नानोत्तरं स्वयङ्कर्तृत्वम्; 'श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात्।' इति स्मृतेः। त्यागातिरिक्ते तु श्रौते स्मार्ते चान्यस्यैव कर्तृत्वम् ; 'सूतके मृतके चैव अशक्तौ श्राद्धभोजने। प्रवासादिनिमित्तेषु हावयेन्न तु हापयेत्॥' इति बृहस्पत्युक्तेः, ‘नित्यानि निवर्तेरन्वैतानवर्ज्यम्, शालाग्नौ चैकेऽन्य एतानि कुर्युः' इति पैटीनसिस्मृतेश्र्चेति विज्ञानेश्र्वरः। 'एक' ग्रहणं पूजार्थम्। तेन स्मार्तं कार्यमेवेति हारलतायाम्। दाक्षिणात्यास्तु विकल्पमाहुः। अपरार्कादिनिबन्धास्तु – श्रौतं सर्वं स्वयं कार्यं, स्मार्ते तु त्यागातिरिक्तेऽन्यस्यैव कर्तृत्वम्। त्यागमात्रे तु स्वस्य; 'कर्म वैतानिकं कार्यस्नानोपस्पर्शवान् स्वयम्।' इति हारीतोक्तेः, 'दर्श च पूर्णमासं च कर्म वैतानिकं च यत्। सूतकेऽपि त्यजन्मोहात्प्रायश्र्चित्तीयते द्विजः॥' इति मरीच्युक्तेचः ,जन्महान्योर्वितानस्य कर्मत्यागो न विद्यते। शालाग्नौ केवलो होमः कार्य एवान्यगोत्रजैः॥' इति जाबा-लोक्तेश्र्चेत्याहुः। अपरार्केऽप्येवम्, याज्ञिका अप्येवम् ; 'सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत्। पिण्डयज्ञं चरुं होममसगोत्रेण कारयेत्॥' इति जातूकर्ण्योक्तेश्र्च । चरुः=स्मार्तस्थालीपाकः। श्रवणाकर्मादिश्र्चेति विज्ञानेश्वरः। प्रारब्धं तु सपिण्डेनापि कार्यम्; 'न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत्।' इति मनूक्तेः। छन्दोगपरिशिष्टेऽपि'होमः श्रौते तु कर्तव्यः शुष्कान्नेन फलेन वा। अकृतं हावयेत्स्मार्ते तदभावे कृताकृतम्॥ 'अकृतं = व्रीह्यादि। कृताकृतं = तण्डुलादि। स्मार्त-होमादौ तु विकल्पो ज्ञेयः; 'शालाग्नौ चैके'इति प्रागुक्तेः। यदा करणं तदाऽन्यद्वारा।
अत्रेदं तत्त्वम्– येषां बह्वचादीनां द्वादशरात्रमहोमेऽपि नाग्निविच्छेदस्तैर्न कार्यम्। तैत्तिरीयाद्यैः कार्यम् ; 'चतूरात्रमहूयमानोऽग्निर्लोकिकः सम्पद्यते' इति सुदर्शनभाष्ये वचनात्। समारूढे त्वग्नौ तेनापि न कार्यम्, किन्तु पुनराधानमेव; समारोपप्रत्यवरोहयोराशौचापवादाभावादनन्यकर्तृकत्वाच्च । अन्यथा पुनराधानमपि स्यात्। यत्त्वाश्र्वलायनः – 'तौ चापि सूतके शावे पर्वणीष्टिं महापदि। पुष्पवत्यां च भार्यायां न कुर्यात्तां कदाचन। स्मार्ताग्निः सूतके शावे स्वयं न जुहुयाद्द्विजः। श्रौताग्निस्तु सकृद्धुत्वा समाप्ते वा स्वयं हुनेत्॥” इति,तदपि समारूढपरम्। तदाह स एव – 'स्मार्ताग्निरात्मनोऽन्येषामभावे सूतकादिषु। समारोप्यतदन्तेषु विहृत्य जुहुयात्स्वयम्॥' इति। तथा च मनुः – 'प्रत्यूहेन्नाग्निषु क्रियाः' इति वैश्र्वदेवस्य त्वग्निसाध्यत्वेऽपि वचनान्निवृत्तिः; 'विप्रो दशाहमासीत वैश्र्वादेवविवर्जितः। इति संवर्तॊक्तेः । यद्यपि–‘पञ्चयज्ञविधानं तु न कुर्यान्मृतजन्मनोः।' इति तेनैवोक्तेः पूर्वनिषेधो व्यर्थस्तथाप्यापस्तम्बादीनां वैश्र्वदेवस्य पञ्चयज्ञभिन्नत्वात्पृथनिषेधः। हरदत्तस्त्वाशौचेऽपि बह्वचैर्वैश्र्वदेवः कार्य ; 'तस्य द्वावनध्यायौ यदात्माऽशुचिर्यद्देशः' इति ब्रह्मयज्ञस्यैवाशौचे विशिष्य निषेधात्।
सन्ध्यादीनामध्यपवादमाहापरार्के पुलस्त्यः– 'सन्ध्यामिष्टिं चरुं होमं यावज्जीवं समाचरेत्। न त्यजेत्सूतके वापि त्यजन् गच्छेदधो द्विजः॥ सूतके मृतके चैव सन्ध्याकर्म समाचरेत्। मनसोच्चारयेन्मत्रान्प्राणायाममृते द्विजः॥' यत्तु चन्द्रिकायां जाबालः– 'सन्ध्या पञ्चमहायज्ञा नैत्यकं स्मृतिकर्म च। तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया॥'इति। यच्च संवर्तः–'सूतके कर्मणां त्यागः सन्ध्यादीनां विधीयते।' यच्च विष्णुपुराणम् - 'सर्वकालमुपासा तु सन्ध्ययोः पार्थिवेष्यते। अन्यत्र सूतकाशौचविभ्रमातुरभीतितः॥ 'इति, तत्पूर्णसन्ध्यापरम्; 'अर्ध्यान्ता मानसी सन्ध्या कुशवारिविवर्जिता।' इति शुद्धिदीपे च्यवनोक्तेः। पैठीनसिस्त्वयर्ध्ये मन्त्रोच्चारणमाह– 'सूतके सावित्र्याऽञ्जलिं प्रक्षिप्य सूर्यं ध्यायन्नमस्कुर्यात्। प्रयोगपारिजाते भारद्वाजोऽपि – 'सूतके मृतके कुर्यात् प्राणायामममन्त्रकम्। तथा मार्जनमत्रांस्तु मनसोचार्य मार्जयेत्॥ गायत्रीं सम्यगुच्चार्य सूर्यायार्घ्यं निवेदयेत्। मार्जनं तु न वा कार्यमुपस्थानं नचैव हि॥' ग्रहणेश्राद्धादावप्याशौचापवादमाह व्याघः– 'स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके।' इति।लैङ्गेऽपि– 'सूतके मृतके चैव न दोषो राहुदर्शने। तावदेव भवेच्छुद्धिर्यावन्मुक्तिर्न दृश्यते॥ प्रयोगपारिजाते बृहस्पतिः– 'कन्याविवाहे सङ्क्रान्तौ सूतकं न कदाचन।' वृद्धशातातपः– 'यदा भोजनकाले तु अशुचिर्भवति द्विजः। भूमौ निक्षिप्य तं ग्रासं स्नात्वा विप्रोविशुद्ध्यति॥ भक्षयित्वा तु तं ग्रासमहोरात्रेण शुद्ध्यति। अशित्वा सर्वमेवान्नं त्रिरात्रेण विशुद्ध्यति॥ इदमविशेपात्सूतकादिपरमपीति शुद्धितत्त्वे शूलपाणौ च।
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा