निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ द्रव्यतः। मरीचिः– 'लवणे मधुमांसे च पुष्पमूलफलेषु च। शाककाष्ठतृणेष्वप्सु दधिसर्पिःपयःसु च॥ तिलौषधाजिने चैव पक्वापक्वे स्वयङ्ग्रहः। पण्येषु चैव सर्वेषु नाशौचं मृतसूतके॥' स्वयमेव स्वाम्यनुज्ञया ग्राह्यं न तद्धस्तादित्यर्थः। क्रये तु तद्धस्तादपि न दोषः। पक्वं=लड्डुकादि। अपक्वं= तण्डुलादि। –एतदन्नसत्रपरम्; 'अन्नसत्रे प्रवृत्तानामाममन्नमगर्हिततम्। भुक्त्वा पक्वान्नमेतेषां त्रिरात्रं तु व्रती भवेत्॥' इत्यङ्गिरसोक्तेः। पक्वान्नमोदनादि, न तु भक्ष्यम्। षट्त्रिंशन्मते– 'उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत्। एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत्॥ विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके। परैरन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः॥ भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके।अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः॥' बृहस्पतिः– 'विवाहोत्सव–' इत्याद्युक्त्वा– 'पूर्वसङ्कल्पितान्नेषु न दोषः परिकीर्तितः।' षडशीतौ– 'संसर्गाद्यस्य वाऽऽशौचं यस्यातिक्रान्तकालता। तदीयस्य पदार्थस्य नाशौचं विद्यते क्वचित्॥' शुद्धितत्त्वे– 'शुद्ध्येत्' इत्यनुवृत्तौ विष्णुः–'प्रोक्षणेन च पुस्तकम्' इति॥
स्वेच्छामरणे निर्णयः—
अथ मृतदोषे हेमाद्रौ षट्त्रिंशन्मते कौमें च– 'व्यापादयेऽद्य आत्मानं स्वयमग्न्युदकादिभिः। विहितं तस्य नाशौचं नापि कार्योदकक्रिया॥' शवदर्शनं यावदाशौचमस्त्येव; 'हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम्।' इति याज्ञवल्क्योक्तेः। शुद्धितत्त्वे कौर्मे– 'सद्यःशौचं समाख्यातं शापादिमरणे तथा।' 'आदि' पदादभिचारहते। भविष्ये– 'स्वेच्छया मरणं विप्राच्छृङ्गिदंष्ट्रिसरीसृपैः।अन्त्यान्त्यजविषोद्बन्धैरात्मना चैव ताडनैः॥ पाखण्डमाश्रिताश्र्चैव महापातकिनस्तथा। स्त्रियश्र्च व्यभिचारिण्य आरूढपतितास्तथा॥ न तेषां स्नानसंस्कारो न श्राद्धं न सपिण्डनम्॥ 'गौतमः– 'प्रायोऽनाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैशश्र्चेच्छताम्' इति। नाशौचमिति शेषः। अङ्गिराः– 'चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि।दंष्ट्रिभ्यश्र्च पशुभ्यश्र्च मरणं पापकर्मणाम् ॥ उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते। नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति॥' षट्रत्रिंशन्मतेऽप्येवम्। ब्राह्मेऽपि– ‘श्रृङ्गिदंष्ट्रिनखिव्यालविषवह्निक्रियाजलैः।' व्यालः= गजः। 'सुदूरात्परिहर्तव्यः कुर्वन्क्रीडां मृतस्तु यः। नागानां विप्रियं कुर्वन्हतश्र्चाप्यथ विद्युता॥ निगृहीतः स्वयं राज्ञा चौर्यदोषेण कुत्रचित्। परदारान् हरन्तश्र्च द्वेषात्तत्पतिभिर्हताः॥ असमानैश्र्च सङ्कीर्णैश्र्चण्डालाद्यैश्र्च विग्रहम्। कृत्वा तैर्निहतास्तद्वच्चण्डालादीन्समाश्रिताः॥ शस्त्राग्निगरदाश्र्चैव पाखण्डाः क्रूरबुद्धयः। क्रोधात्प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम्॥ गिरिवृक्षप्रपातं च ये कुर्वन्ति नराधमाः। कुशिल्पजीविनो ये च सूनालङ्कारधारिणः॥ मुखेभगास्तु ये केचित् क्लीबप्राया नपुंसकाः। ब्रह्मदण्डहता ये च ये चापि ब्राह्मणैर्हताः। महापातकिनो ये च पतितास्ते प्रकीर्तिताः॥ पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः। न चाश्रुपातः पिण्डो वा कार्यं श्राद्धादिकं क्वचित्॥ एतानिपतितानां तु यः करोति विमोहितः। तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा॥
'एतद्बुद्धिपूर्वं सर्वेषां करणे तु माधवीये वसिष्ठः– ‘य आत्मत्यागिनां कुर्यात्स्त्रेहात्प्रेतक्रियां द्विजः। स तप्तकृच्छ्रसहितं चरेच्चान्द्रायणव्रतम्॥' अज्ञाने तु– 'कृत्वाग्निमुदकं स्नानं संस्पर्शं वहनं कथाम्। रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुध्यति॥” इति ज्ञेयम्। प्रत्येकं बुद्धिपूर्वे एतदिति मदनपारिजातः। प्रत्येकं तु स्पर्शाश्रुणोर्मिताक्षरायाम्– 'तच्छवं केवलं स्पृष्टमश्रु वा पतितं यदि। पूर्वोक्तानामकारी चेदेकरात्रमभोजनम्॥ एकरात्रं तु नाश्रीयान्त्रिरात्रं बुद्धिपूर्वकम्॥' इति माधवीये उत्तरार्धम्। अन्येषु तु संवर्तः– 'एषामन्यतमं प्रेतं यो वहेत दहेत वा। कटोदकक्रियां कृत्वा कृच्छ्रं सान्तपनं चरेत्॥' अज्ञाने त्वर्धम्। एतदनाहिताग्नेः, आहिताग्नेः कृच्छ्र एवेति माधवः। मिताक्षरायाम्– 'आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया। तेषामपि तथा गङ्गातोये संस्थापनं हितम्॥'
आहिताग्नेस्तु विशेषो हेमाद्रौ भविष्ये– 'वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे। पात्राणि तु दहेदग्नौ साग्निके पापकर्मणि॥ छन्दोगपरिशिष्टेऽपि– 'महापातकसंयुक्तोदौरात्म्यादग्निमान् यदि। पुत्रादिः पालयेदग्नीन्युक्त आदोषसङ्क्षयात्॥ प्रायश्र्चित्तं न कुर्याद्यः कुर्वन्वा म्रियते यदि। गृह्यं निर्वापच्छ्रौतमप्स्वस्येत् सपरिच्छदम्॥ पात्राणि दद्याद्विप्राय दहेदप्स्वेव वा क्षिपेत्॥' माधवीये पराशरः– 'आहिताग्निर्मृतो विप्रश्र्चण्डालेनात्मघातकः। दहेत ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम्॥ प्राजापत्यं चरेत्पश्र्चाद्विप्राणामनुशासनात्। दग्ध्वाऽस्थीनि पुनर्गृह्य क्षीरेण क्षालयेत्ततः॥ स्वेनाग्निना स्वमन्त्रेण पृथगेनं पुनर्दहेत्॥' हेमाद्रौ तु– 'दाहयित्वा शवं तेषां शूद्रैरविधिपूर्वकम्।' इत्युक्तम्, –एतद्दर्पादिना मरणे ज्ञेयम् ; 'तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।' इति श्रुतावात्महनने एव दोषोक्तेः। प्रमादमरणे त्वाशौचादि सर्व भवत्येव। तदाहाङ्गिराः– 'अथ कश्र्चित्प्रमादेन प्रियेताग्न्युदकादिभिः। तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया॥ 'ब्राह्मेऽपि– 'प्रमादादपि निःशङ्कस्त्वकस्माद्विधिचोदितः। श्रृङ्गिदंष्ट्रिनखिव्यालविषविद्युज्जलादिभिः॥ चण्डालैरथ वा चोरैर्निहतो वापि कुत्रचित्। तस्य दाहादिकं कार्यं, यस्मान्न पतितस्तु सः॥' इति। प्रमादमरणे त्रिरात्रमाशौचमिति गौडाः शुद्धितत्त्वादयः। दशाहादीति दाक्षिणात्याः।
अस्यापवादो हेमाद्रौ भविष्ये– 'प्रमादादिच्छया वापि न कुर्यात्सर्पतो मृते।' नागपूजां विना न कुर्यादित्यर्थः। बौधायनोऽपि– 'बुद्धिपूर्वात्महन्तृृणां क्रियालोपो विधीयते। 'क्रिया= अन्त्यकर्म। तत्र दुर्मरणनिमित्तं दानादि कार्यम्। तच्च विश्र्वप्रकाशादौ शातातपीये च– 'व्याघ्रेण निहते विप्रे विप्रकन्यां विवाहयेत्। सर्पदष्टे नागबलिर्देयः सर्पश्र्च काञ्चनः॥ चतुर्निष्कमितं हैमं गजं दद्याद्गजैर्हेते। राज्ञा विनिहते दद्यात्पुरुषं तु हिरण्मयम्॥ चौरेण निहते धेनुं वैरिणा निहते वृषम्। वृषेण निहते दद्याद्यथाशक्त्या तु काञ्चनम्॥ शय्यामृते प्रदातव्या शय्या तूलीसमन्विता। निष्कमात्रसुवर्णस्य विष्णुना समधिष्ठिता॥ शौचहीने मृते चैव द्विनिष्कं स्वर्णजं हरिम्। संस्कारहीने च मृते कुमारमुपनाययेत्॥ निष्कत्रयं स्वर्णमितं दद्यादश्र्वं हयाहते। शुना हते क्षेत्रपालं स्थापयेन्निजशक्तितः॥ सूकरेण हते दद्यान्महिषं दक्षिणान्वितम्। कृमिभिश्र्च मृते दद्याद्गोधूमान्पञ्चखारिकाः॥ वृक्षं वृक्षहते दद्यात्सौवर्णं वस्त्रसंयुतम्। श्रृङ्गिणा निहते दद्याद्वृषभं वस्त्रसंयुतम्॥ शकटेन मृते दद्याद्द्रव्यं सोपस्करान्वितम्। भृगुपातमृते चैव प्रदद्याद्धान्यपर्वतम्॥ अग्निना निहते कार्यमुदपानं स्वशक्तितः। दारुणा निहते चैव कर्तव्या सदने सभा॥ शस्त्रेण निहते दद्यान्महिषीं दक्षिणान्विताम्। अश्मना निहते दद्यात्सवत्सां गां पयस्विनीम्॥ वृषेण च मृते दद्यान्मेदिनीं हेमनिर्मिताम्। उद्वन्धनेन च मृते कपिं कनकनिर्मितम्॥ मृते जलेन वरुणं हैमं दद्याद्द्विनिष्कजम्। विषूचिकामृते स्वादु भोजयेच्च शतं द्विजान्॥ घृतधेनुः प्रदातव्या कण्ठान्नकवले मृते। कासरोगेण च मृते अष्टकृच्छ्रं व्रतं चरेत्॥ अतिसारमृते लक्षं गायत्र्याः प्रयतो जपेत्। शाकिन्यादिग्रहग्रस्ते जपेद्रं यथोदितम्॥ विद्युत्पातेन निहते विद्यादानं समाचरेत्। अन्तरिक्षमृते कार्यं वेदपारायणं तथा॥ सच्छास्त्रपुस्तकं दद्यादस्पृश्यस्पर्शतो मृते। पतिते च मृतेकुर्यात्प्राजापत्यांस्तु षोडश॥ मृते चापत्यरहिते कृच्छ्राणां नवतिं चरेत्। एवं कृते विधाने तु विदध्यादौर्ध्वदेहिकम्॥'
तथा वैधमरणेऽपि न दोपः। तदाहतुर्मनु– वृद्धगार्ग्यौ– 'वृद्धः शौचमृते लुप्तप्रत्याख्यातभिषक्क्रियः। आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः॥ तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयः। तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत्॥” इति। हेमाद्रौ विष्णुधर्मेऽपि– 'नरस्तु व्याधिरहितो न त्यजेदात्मनस्तनुम्॥ असुर्या नाम ते लोका अन्धेन तमसा वृताः। तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥ अरिष्टैरात्मनो ज्ञात्वा मृत्युकालमुपस्थितम्। व्याधितो भिषजा त्यक्तः पूर्णे वाऽऽयुषि चात्मनः॥ यथा युगानुसारेण सन्त्यजेदात्मनस्तनुम्। तस्मिन्काले तनुत्यागाद्यथेष्टं फलमाप्नुयात्॥ आयुषस्तु पुरा दृष्टं मरणं ब्राह्मणस्य च॥' नेति गौडानामपपाठः; उत्तरार्धे असङ्गतेः। क्षत्रियस्य तु सङ्ग्रामे मृते भर्तरि योषितः।' अपरार्के ब्रह्मगर्गः– 'यो जीवितुं न शक्नोति महाव्याध्युपपीडितः। सोऽग्न्युदकं महायात्रां कुर्वन्नत्र न दुष्यति॥' अत्रोक्तवक्ष्यमाणवचोनिचयात् प्रयागातिरिक्तेऽचिकित्स्यरोगाद्युपहतानामधिकारः। सोऽपि जीर्णवानप्रस्थस्यैवेति विज्ञानेश्र्वरदेवयाज्ञिकादयः। अत एव मिताक्षरादौ भृगु पातानशनादिकं वानप्रस्थस्यैवोक्तम्। मनुरपि–'आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम्। वीतशोकभयो विप्रो ब्रह्मभूयाय कल्पते॥'इति। तेनान्यत्रापि तद्विषयतैव; मूलैक्यादिति केचित्, –तन्न; वानप्रस्थमरणे आशौचनिषेधात्। तेन गृहस्थादिपरमेवेदम्। तेन यतेर्नाधिकारः; काम्येऽनधिकाराच्च। नैमित्तिकत्वेत्वकरणे दोषो नित्यता च स्यात्। प्रयागे त्वरोगिणां रोगिणां च। यत्तु – 'शूद्राश्र्च क्षत्रियावैश्या अन्त्यजाश्र्च तथाऽधमाः। एते त्यजेयुः प्राणान्वै वर्जयित्वा द्विजं नृप॥ पतित्वा ब्राह्मणस्तत्र ब्रह्महा चात्महा भवेत्॥' इति, –तन्निर्मूलमिति भट्टाः। तत्त्वं तु –हेमाद्रौ व्रतकाण्डेऽलिखनान्निर्मूलत्वं चिन्त्यमेव; प्रक्रमात्तु पतित्वेति भृगुपातमात्रपरं युक्तम्; 'ब्राह्मणस्याप्यनुज्ञातम्' इति वक्ष्यमाणविरोधाच्च। यत्तु–आदित्यपुराणे– 'अब्राह्मणो वा स्वर्गादिमहाफलजिगीषया। प्रविशेज्ज्वलनं तोयं करोत्यनशनं तथा॥' इति,– तत्प्रयागातिरि– क्तपरमिति केचित्। हेमाद्रौ त्वेतदग्रे 'प्रयागवटशाखाग्रात्' इत्युक्तेर्ब्राह्मणस्य प्रयागेऽपि नेति प्रतीयते।
माधवीयेऽपरार्के चादित्यपुराणे– 'दुश्र्चिकित्स्यैर्महारोगैः पीडितस्तु पुमानपि। प्रविशेज्ज्वलनं दीप्तं करोत्यनशनं तथा॥ अगाधतोयराशिं च भृगोः पतनमेव च। गच्छेन्महापथं वापि तुषारगिरिमादरात्॥प्रयागवटशाखाग्राद्देहत्यागं करोति च। स्वयं देहविनाशस्य काले प्राप्ते महामतिः॥ उत्तमान् प्राप्नुयाल्लोकानात्मघाती भवेत्क्वचित्। महापापक्षयात्स्वर्गे दिव्यान्भोगान्समश्र्नुते॥ एतेषामधिकारस्तु सर्वेषां सर्वजन्तुषु। नराणामथ नारीणां सर्ववर्णेषु सर्वदा॥ ईदृशं मरणं येषां जीवतां कुत्रचिद्भवेत्। आशौचं स्यात्र्यहं तेषां वज्रानलहते तथा। वाराणस्यां म्रियेद्यस्तु प्रत्याख्यातभिषक्क्रियः। काष्ठपाषाणमध्यस्थो जाह्नवीजलमध्यगः। अविमुक्तोन्मुखस्तस्य कर्णमूलगतो हरः। प्रणवं तारकं ब्रूते नान्यथा कुत्रचित्क्क्वचित्॥' हेमाद्रौ चैवम्। अत्र 'प्राप्ते काले' इत्युक्तेरप्राप्तमरणकालायाः स्त्रिया अन्वारोहणे सम्पूर्णमेवाशौचम्। पृथ्वीचन्द्रस्त्वत्रापि त्र्यहमाह। शुद्धितत्त्वादिगौडग्रन्थेष्वप्येवम्।
एतच्च वृद्धादिमरणं कलौ निषिद्धम्; 'भृग्वग्निपतनैश्र्चैव वृद्धादिमरणे तथा।' इति माधवेन पृथ्वीचन्द्रेण च कलिवर्ज्येषूक्तेः। न चात्र यावदुक्तनिषेधः; विशिष्टोद्देशे वाक्यभेदात्। नच कलौ वानप्रस्थाश्रमनिषेधादेव सिद्धेर्मरणनिषेधो व्यर्थ इति वाच्यम्; 'सर्ववर्णेषु' इत्यादिभिस्तद्भिन्नस्यापि प्राप्तेः। काम्यं भवत्येव; 'ये वै तन्वं १ विसृजन्ति' इति श्रुतेः स्मृत्या सङ्कोचायोगात्। नचेयं स्वाभाविकमृत्युपरा; धीरपदोक्तेः, मात्स्य-भार-तादिषु– ' न लोकवचनात्तात न वेदवचनादपि। मतिरुत्क्रमणीया ते प्रयागमरणं प्रति॥' इत्युक्तेः। अत एव विष्णुधर्मे रोग्यादिमरणमुक्त्वोक्तम्– 'यथा युगानुसारेण सन्त्यजेदात्मनस्तनुम्।' इति। काश्यामप्युक्तं मात्स्ये– 'अग्निप्रवेशं ये कुर्युरविमुक्ते विधानतः। प्रविशन्ति मुखं ते मे निःसन्दिग्धं वरानने॥' हेमाद्रौ विवखान्– 'सर्वेन्द्रियवियुक्तस्य स्वव्यापाराक्षमस्य च । प्रायश्र्चित्तमनुज्ञातमग्निपातो महापथः॥ धर्मार्जनासमर्थस्य कर्तुः पापाङ्कितस्य च। ब्राह्मणस्याप्यनुज्ञातं तीर्थे प्राणविमोक्षणम्॥' अपरार्के चैवम्। सहगमनं कलौभवत्येव;‘कलौ नान्या गतिः स्त्रीणां सहानुगमनाहते॥” इति ब्रह्मवैवर्तात्।एतेन मरणान्तिकप्रायश्र्चित्तं काशीखण्डादौ चातुर्वर्ण्यस्यतनुत्यागविधयश्र्च युगान्तरपरा एव।
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा