निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
प्रयागेऽपि त्रिस्थलीसेतो स्कान्दे– 'यथाकथञ्चित्तीर्थेऽस्मिन्प्राणत्यागं करोति यः। तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि॥' पाद्मे विष्णुः– 'देहत्यागं तथा धीराः कुर्वन्ति प्रयागमरणे मम सन्निधौ। मत्तनुं प्रविशन्त्येव न पुनर्जन्मने नराः॥' कौर्मे– 'व्याधितो यदि वा दीनो वृद्धो वापि भवेन्नरः। गङ्गायमुनमासाद्य यस्तु प्राणान्परित्यजेत्॥ ईप्सितांल्लभते कामान्व दन्ति मुनिपुङ्गवाः॥' तथा– 'या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः। सा गतिस्त्यजतः प्राणान् गङ्गायमुनसङ्गमे॥' वाराहे– 'तत्र यो मुञ्चति प्राणान् वटमूलेषु सुन्दरि। सर्वलोकानतिक्रम्य मम लोकं प्रपद्यते॥ 'तथा– 'अकामो वा सकामो वा वटमूलेषु सुन्दरि। शीघ्रं प्राणान्प्रमुञ्चेत यदीच्छेत्परमां गतिम् ॥' तथा –'पञ्चयोजनविस्तीर्णे प्रयागस्य तु मण्डले। व्यतीतान् पुरुषान् सप्त भविष्यांश्र्च चतुर्दश॥ नरस्तारयते सर्वान् यस्तु प्राणान्परित्यजेत्॥' ब्राह्मे –'ध्यात्वा विष्णुपदाम्भोजं प्रयागे विष्णुतत्परः। तनुं त्यजति वै माघे तस्य मुक्तिर्न संशयः॥ दुष्कृतोऽपि दुराचारो ब्रह्महत्यादिपातकी। हरिं ध्यात्वा त्यजेद्देहं प्रायशो मुक्तिमान् भवेत्॥' भविष्योत्तरे– 'समाः सहस्राणि तु सप्त वै जले दशैकमग्नौ पतने च षोडश॥ महाहवे षष्टिरशीतिगोग्रहे अनाशके भारत चाक्षया गतिः॥ 'इति सामान्यतोऽपि फलम्। एवमन्येऽपि विधयो ज्ञेयाः। यत्तु– गौडाः 'प्रयागादिमरणं ब्राह्मणभिन्नविषयम्' इत्याहुः,– तद्दूषणं पितामहचरणैः प्रयागविधौ कृतमिति नात्रोच्यते।
अत्र दशाहमाशौचम्; त्रिरात्रस्य प्राप्तकालगोचरत्वादिति भट्टाः। युक्तं तु त्रिरात्रम्। दिवोदासीयेऽप्येवम्। शुद्धितत्त्वेऽपि काश्यपः– 'अनशनमृतानामशनिहतानामग्निजलप्रविष्टानां भृगुसङ्ग्रामदेशान्तरमृतानां जातदन्तानां च त्रिरात्रम्' इति। एवं मरणान्तप्रायश्चित्तेऽपि। पूर्वोक्तश्र्चात्मंहादेर्दाहाशौचादिनिषेधस्तदानीमेव, वत्सरान्ते तु सर्वमौर्ध्वदेहिकं कुर्यात्। 'गोब्राह्मणहतानां च पतितानां तथैव च। ऊर्ध्वे संवत्सरात्कुर्यात् सर्वमेवौर्ध्वदेहिकम्॥' इति हेमाद्रौ षट्त्रिंशन्मतात्॥ एवं म्लेच्छीकृतानामपि गयाश्राद्धमपि कार्यम्; 'ब्रह्महा च कृतघ्नश्र्च गोघाती पञ्चपातकी। सर्वे ते निष्कृतिं यान्ति गयायां पिण्डपातनात्॥' इत्यग्निपुराणात्। एवं ब्राह्मऽपि– 'क्रियते पतितानां तु गते संवत्सरे क्वचित्। देशधर्मप्रमाणत्वांद्गयाकूपे स्वबन्धुभिः॥ मार्तण्डपादमूले वा श्राद्धं हरिहरौस्मरन्।' सूर्यपद इत्यर्थः।
तत्र वर्षमध्ये कृत्यमुक्तमपरार्के वायुपुराणे– 'शुक्लपक्षे तु द्वादश्यां कुर्यात् श्राद्धं तु वत्सरम्। द्वादशाहनि वा कुर्याच्छुक्ले च प्रथमेऽहनि'। छागलेयः– 'नारायणबलिः कार्यो लोकगर्हाभयान्नरैः। तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः॥' व्यासः– 'नारायणं समुद्दिश्य शिवं वा यत्प्रदीयते। तस्य शुद्धिकरं कर्म तद्भवेन्नैतदन्यथा॥ इति। स चात्मघातादिप्रायश्चित्तं कृत्वा कार्यः। तदुक्तं हेमाद्रौ षट्त्रिंशन्मते– 'कृत्वा चान्द्रायणं पूर्व क्रिया कार्या यथाविधि। नारायणबलिः कार्यो लोकगर्हाभयान्नरैः॥ पिण्डोदकक्रियाः पश्चाद्वृषोत्सर्गादिकं च यत्। एकोद्दिष्टानि कुर्वीत सपिण्डीकरणं तथा॥' दिवोदासीये वृद्धशातातपस्तु– 'पतिते च मृते शुद्ध्यै प्राजापत्यांस्तु षोडश। मृते चापत्यरहिते कृच्छ्राणां नवतिं चरेत्॥' इत्याह। इदं प्रायश्र्चित्तार्हपित्रादिविषयम्; 'इन्द्रियैरपरित्यक्ता ये च मूढा विषादिनः। घातयन्ति स्वमात्मानं चाण्डालादिहताश्र्च ये॥ तेषां पुत्राश्र्च पौत्राश्र्च दयया समभिप्लुताः। यथा श्राद्धं प्रतन्वन्ति विष्णुनामप्रतिष्ठितम्॥ तथा ते सम्प्रवक्ष्यामि नमस्कृत्य स्वयम्भुवे॥” इति हेमाद्रौ तेनैवोक्तेः। तत्रैव बौधायनोऽपि– 'नारायणबलिं व्याख्यास्यामः– (‘चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि। दंष्ट्रिभ्यश्र्च पशुभ्यश्र्च मरणं पापकर्मणाम्॥ विषशस्त्ररज्जुपापाणाद्देशान्तरमृते वा') अभिशस्त्रपतितसुरापात्मत्यागिनां ब्राह्मणहतानां च द्वादशवर्षाणि त्रीणि वा कुर्वीत' इति।
गृह्यपरिशिष्टे तु– ‘चण्डालात्' इत्याद्युक्त्वा –'दग्ध्वा शरीरं प्रेतस्य संस्थाप्यास्थीनि यत्नतः। प्रायश्र्चित्तं तु कर्तव्यं पुत्रैश्र्चान्द्रायणत्रयम्॥' इत्युक्तम्। मन्दनरत्ने ब्राह्मे– ‘प्रमादादपि निःशङ्कस्त्वकस्माद्विधिचोदितः। चाण्डालैर्ब्राह्मणैश्र्चौरैर्निहतो यत्र कुत्रचित्॥ तस्य दाहादिकं कार्यं यस्मान्न पतितस्तु सः। चान्द्रायणं तप्तकृच्छ्रद्वयं तस्य विशुद्धये॥ यद्वा कृच्छ्रान्पञ्चदश कृत्वा तु विधिना दहेत्। बुद्धिपूर्वमृतानां तु त्रिंशत्कृच्छ्रं समाचरेत्॥ 'इत्युक्तम्। स्मृतिरत्नावल्यां तु– 'द्विगुणं प्रायश्र्चित्तं कृत्वार्वागप्यब्दात्सर्वं कार्यम्'इत्युक्तम्। 'आत्मनो घातशुद्ध्यर्थं चरेच्चान्द्रायणद्वयम्। तप्तकृच्छ्रचतुष्कं च त्रिंशत्कृच्छ्राणि वा पुनः॥ अर्वाक् संवत्सरात्कुर्याद्दहनादि यथोदितम्। कृत्वा नारायणबलिमनित्यत्वात्तदायुषः॥' इति। इदं चात्मवधनिमित्तं तज्जातिवधप्रायश्र्चित्तेन समुच्चितं कार्यम्। अत एव बौधायनेनोक्तम्– 'द्वादश वर्षाणि त्रीणि वा' इति। मदनपारिजाते स्मृत्यर्थसारे च– 'ब्रह्महादीनां तद्योग्यं प्रायश्र्चित्तं कृत्वा नारायणबलिः कार्यः' इत्युक्तम्। एवं म्लेच्छीकृतेतानामपि। यत्तु– कश्र्चिदाह 'पुत्रकृतेन प्रायश्र्चित्तेन पितुः पापनाशे मानाभावः, आत्मघाते तु वचनादस्तु, महापातके तु कथं स्यादिति,– स स्वयमेवात्मवधप्रायश्र्चित्तस्य जातिवधनिमित्तेन समुच्चयं वदन् हृदयशून्य एव। नहि जातिवधनिमित्तं पुत्रैः कार्यमिति वचनमस्ति; पुत्रकर्तृकसर्वप्रायश्र्चित्तादिविप्लवापत्तेः प्रागुक्तबौधायनवचनाच्चेति दिक्। इदं प्रायश्र्चित्तार्हाणामेव, प्रायश्र्चित्तानर्हाणां तु पतितोदकमात्रं कार्यम्' इति केचित्। मदनपारिजातादिवरसोऽप्येवम्। वस्तुतस्तु– 'तदर्हानर्हयोर्वचनेऽनुपादानादविशेषात्तत्रापि नारायणबलिर्गयाश्राद्धं च ' इति युक्तम्।
पतितोदकविधिस्तु 'पित्राद्यतिरिक्तविषयः' इत्यपरे। स यथा हेमाद्रौ ब्राह्मे– 'पतितस्य तु कारुण्याद्यस्तृप्तिं कर्तुमिच्छति। स हि दासीं समाहूय सर्वगां दत्तवेतनाम्॥ अशुद्धघटहस्तां तां यथावृत्तं ब्रवीत्यपि। हे दासि गच्छ मूल्येन तिलानानय सत्वरम् ॥ तोयपूर्णं घटं चेमं सतिलं दक्षिणामुखी। उपविष्टा तु वामेन चरणेन ततः क्षिप। कीर्तयेः पातकीसञ्ज्ञां त्वं पिवेति मुहुर्वद। निशम्य तस्य वाक्यं सा लब्धमूल्या करोति तत्॥ एवं कृते भवेत्तृप्तिः पतितानां च नान्यथा॥' इति। इदं च मृताहे कार्यम्; 'पतितस्य दासी मृताह्नि यदा घटमपवर्जयेदेतावतायमुपचरितो भवति' इति मदनरत्ने विष्णूक्तेः, इदं चात्मत्यागिविषयम्; 'आत्मत्यागिनः पतितास्ते नाशौचोदकभाजः स्युः' इत्युपक्रम्य विष्णुना एतस्याभिधानादिति गौडाः। यत्तु–कश्र्चिदाह 'यः पतितो घटस्फोटेन बान्धवैर्बहिष्कृतस्तद्विषयाणि क्रियानिषेधवाक्यानि। जीवत्येव तस्मिन्नन्त्यकर्मणः कृतत्वात्तत्पुनःकरणाभावात्' इति सस्वबन्धुत्यागेन जातवैराग्यस्य कृतप्रायश्र्चित्तस्याप्यकरणापत्तेर्मिताक्षरादिविरोधमपश्यन् मूर्ख इत्युपेक्षणीयः। न च कृतघटस्फोटस्य सङ्ग्रहविधिर्नेति वाच्यम्; मनुनाऽकृतघटस्फोटस्य त्यागमुक्त्वा– 'प्रायश्र्चित्ते तु चरिते पूर्णं कुम्भमपां नवम्। तेनैव सार्धे प्रास्येयुः स्नात्वा पुण्ये जलाशये॥' इत्युक्तेः। अन्यथाप्रायश्र्चित्तमात्रे एतत्प्रसङ्गात्। अतो घटस्फोटेन बहिष्कृतस्यापि पित्रादेरब्दान्ते नारायणबलिः कार्यः। निषेधास्तु पितृव्यादिपरा इति तत्त्वम्। केचित्तु– नारायणबलौ कृतेऽप्यन्त्यकर्मं सपिण्डनवर्जं कार्यम्; 'गोब्राह्मणहतानां च पतितानां तथैव च। व्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता॥' इति वचनात्, 'ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते।' इति श्राद्धप्रकारोक्तेश्र्चेत्याहुः। ते हेमाद्रिस्थपूर्वोक्तषत्रिंशन्मतविरोधान्निर्मूलत्वाच्छ्राद्धप्रकारस्य च वृद्धिश्राद्धविषयत्वादुपेक्ष्याः॥
नारायणबलिस्तु हेमाद्याद्यनुसारेणोच्यते॥ तत्रादौ क्रियानिबन्धे गारुडे तर्पणमुक्तम्– 'कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि। दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन्॥ अनादिनिधनो देवः शङ्खचक्रगदाधरः। अक्षय्यः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव॥” इति। शुक्लैकादश्यां देशकालौ सङ्कीर्त्यामुकगोत्रस्यामुकस्य दुर्मरणात्मघातजदोषनाशार्थमौर्ध्वदेहिकसम्प्रदानत्वयोग्यतासिद्ध्यर्थं नारायणबलिं करिष्ये इति सङ्कल्प्य। ब्रह्माणं विष्णुं शिवं यमं प्रेतं च पञ्चकुम्भेषु– 'विष्णुः स्वर्णमयः कार्यो रुद्रस्ताग्रमयस्तथा॥ ब्रह्मा रौप्यमयस्तत्र यमो लोहमयो भवेत्॥ प्रेतो दर्भमयः कार्य इति देवप्रकल्पना॥' इति गारुडोक्तासु सर्वासु हैमीषु वा प्रतिमासु पोडशोपचारैः पुरुषसूक्तेनाभ्यर्च्याग्निं प्रतिष्ठाप्य चरुं पुरुषसूक्तेन प्रत्यृचं नारायणायेदमिति हुत्वा देवानामग्रे दक्षिणाग्रदर्भेषु विष्णुरूपं प्रेतं स्मरन् नामगोत्राभ्यां मधुघृततिलयुतान् दश पिण्डान् यज्ञोपवीत्येवामुकगोत्रामुकशर्मन् प्रेत विष्णुरूपायं ते पिण्ड उपतिष्ठतामिति दत्त्वा पुरुषसूक्तेनाभिमन्त्र्य तेनैव शङ्खोदकेनाभिषिच्याभ्यर्च्य 'अमुकशर्माणममुकगोत्रं विष्णुरूपं प्रेतं तर्पयामि' इति पुरुषसूक्तेन प्रत्यूचं तर्पयित्वा एकमामान्नं ब्रह्मादिपञ्चभ्यो दद्यात्॥ मन्त्रस्तु– 'ब्रह्मविष्णुमहादेवा यमश्र्चैव सकिङ्करः। बलिं गृहीत्वा कुर्वन्तु प्रेतस्य च शुभां गतिम्॥” इति। मिताक्षरायां तु होमबल्यादि नोक्तम्। ततः प्रतिदैवतं त्रिविधं फलं शर्करामधुगुडघृतानि च निवेद्य पिण्डानभ्यर्च्य नद्यां क्षित्वा रात्रौ नव सप्त पञ्च वा विप्रान्निमन्त्र्योपोषितो जागरं कृत्वा श्र्चोभूते पुनर्विष्णुं यमं सम्पूज्य एकोद्दिष्टविधिना श्राद्धपञ्चकं करिष्ये' इत्युक्त्वा विष्णुब्रह्मशिवयमप्रेतान्स्मरन्विप्रानुपवेश्य नेतस्थाने चैकं विष्णुं स्मरन् पाद्यावाहनार्ध्ययुतं तृतिप्रश्र्नान्तं कृत्वोल्लेखनादि कृत्वाऽन्नशेषेण विष्णवे ब्रह्मणे शिवाय यमाय सपरिवाराय चतुरः पिण्डान् दत्त्वा प्रेतनामगोत्रे स्मृत्वा विष्णुनाम्ना पञ्चमं दत्त्वाऽभ्यर्च्याचान्तेभ्यो दक्षिणां दत्त्वैकं प्रेतं स्मृत्वा विशेषतः सन्तोष्य विप्रैः 'प्रेतायेदं तिलोदकमुपतिष्ठताम्' इति सतिलमुदकं दापयित्वा भुञ्जीतेति। अत्र विशेषान्तरं भट्टकृतान्त्येप्टिपद्धतौ ज्ञेयम्।
सर्पहते तु वर्षपर्यन्तं पूर्वेऽह्नयेकभक्तपूर्वं शुक्लपञ्चम्यामुपवासं नक्तं वा कृत्वा पिष्टमयं नागमनन्तवासुकिशङ्खपद्मकम्बलकर्कोटकाश्र्वतरघृतराष्ट्रशङ्गपालकालियतक्षककपिलेति नामभिः प्रतिमासं सम्पूज्य पायसेन विप्रान् सम्भोज्य वत्सरान्ते हैमं नागं गां च दत्त्वा नारायणबलिं कुर्यात्। मूलं तु हेमाद्रौ ज्ञेयम्। बौधायनसूत्रे– सर्पमृतानां 'नमोऽस्तु सर्पेभ्यः' इति तिस्र आहुतीर्हुत्वा, उदके मृतानां समुद्राय वयुनाय हुत्वेति क्रियां कुर्यादिति शेषः। व्यासः– 'सौवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम्। व्यासाय दत्त्वा विधिवत्पितुरानृण्यमाप्नुयात्॥ 'हेमाद्रौ भविष्ये– 'पञ्चम्यां पन्नगं हैमं स्वर्णेनैकेन कारयेत्। क्षीराज्यपात्रमध्यस्थं पूज्य विप्राय दापयेत्॥ प्रायश्र्चित्तमिदं प्रोक्तं नागदष्टस्य शम्भुना॥' इति। अपरार्के स्मृत्यन्तरेऽपि– 'तदैव शुद्ध्यति प्रेतो नारायणबलौ कृते। यो ददाति क्रियापिण्डं तस्मै प्रेताय वै सुतः॥ तस्यैवाशौचमुद्दिष्टं व्यहमेव न संशयः। विष्णुश्राद्धसमाप्तौ तु त्रयोदश्यां दिनत्रयम्॥ आशौचं पिण्डदः कुर्यान्न तु तद्वन्धुगोत्रजाः। यस्य वै मृत्युकाले तु व्युच्छिन्ना सन्ततिर्भवेत्॥ स वसेन्नरके नित्यं पङ्कमग्नः करी यथा॥' इत्युपक्रम्य– 'बलिं नारायणं कुर्यात्तस्योद्देशेन भक्तिमान्।' इति गारुडोक्तेरपुत्रस्यापि पत्न्याद्यैः कार्य इत्युक्तं देवयाज्ञिकेन॥
यति संस्कारः। —
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा