निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ विधानादाशौचाभावः। यथा– यतियुद्धमृतादिषु –'त्रयाणामाश्रमाणां च कुर्याद्दाहादिकाः क्रियाः। यतेः किञ्चिन्न कर्तव्यं न चान्येषां करोति सः॥' इति ब्राह्मात्। उशनाः– 'एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा। अहन्येकादशे प्राप्ते पार्वणं तु विधीयते॥ सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः। त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते॥' तत्संस्कारं वक्ष्यामः॥ दत्तात्रेयः– 'एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रियाम्। न कुर्याद्वार्षिकादन्यद्ब्रह्मीभूताय भिक्षवे॥' वार्षिकादिति पूर्व भाविमासिकादिनिषेधो न तु दर्शादेः। 'सन्न्यासिनोऽप्याब्दिकादि पुत्रः कुर्याद्यथाविधि।' इति वायवीयोक्तेः। पृथ्वीचन्द्रोदये प्रजापतिः– 'अहन्येकादशे प्राप्ते पार्वणं तु विधीयते। सपिण्डीकरणं तस्य न कर्तव्यं सुतादिभिः॥' एषु सपिण्डनादिनिषेधानुवादेन पार्वणोक्तेस्तत्स्था– नापन्नत्वं पार्वणस्य गम्यते। 'न गिरागिरेति ब्रूयादैरं कृत्वोद्गेयम्' इतिवत्। इदं वार्षिकादिविधानं च त्रिदण्डिनामेव।एकदण्डिपरमहंसादीनां तु न किमपि कार्यम्, पूर्वोक्तोशनोवाक्ये त्रिदण्डिग्रहणादिति शूलपाण्यादयो गौडाः ; 'त्रिदण्डि' शब्देन मनोदण्डादिदण्डत्रयोक्तेः, 'यस्यैते नियता दण्डाः स त्रिदण्डीति चोच्यते।' इति स्मृतेः।
नारायणबलिविधिः —
बौधायनः– 'नारायणबलिश्र्चास्य कर्तव्यो द्वादशेऽहनि। अस्य पार्वणेन समुच्चयो ज्ञेयः। तं च स एवाह– ‘कृत्वा विष्णोर्महापूजां पायसं विनिवेदयेत्। अग्नौ हुत्वा तु तच्छेषं व्याहृतीभिः समाहितः॥ यतीन् गृहस्थान्साधून्वा निमन्त्र्य द्वादशावरान् ॥ अभ्यर्च्य गन्धपुष्पाद्यैर्मन्त्रैर्द्वादशनामभिः॥ सम्भोज्य हव्येनान्नेन दक्षिणां च निवेदयेत्। त्रयोदशं द्विजश्रेष्ठमात्मज्ञं संयतेन्द्रियम्॥ विष्णुं यथा तथाभ्यर्च्य पाद्याद्यैश्र्च विधानतः। दद्यात् पुरुषसूक्तेन गन्धपुष्पादिकं क्रमात्। वस्त्रालङ्करणादीनि यथाशक्ति प्रदापयेत्। उच्छिष्टसन्निधौ तस्य दर्भानास्तीर्य भूतले॥ भूर्भुवःस्वःस्वधायुक्तैस्तस्मै दद्याद्बलित्रयम्। अश्र्वमेधसहस्रस्य वाजपेयशतस्य च॥ यत्फलं तलभेदेवं यः करोति यतिक्रियाम् ॥
शौनकस्तु– 'शौनकोऽहं प्रवक्ष्यामि नारायणबलिं परम्। चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि॥ दंष्ट्रिभ्यश्र्च पशुभ्यश्र्च रज्जुशस्त्रविषाश्मभिः। देशान्तरमृतानां च मृतानां वाऽन्यसाधनैः॥ जीवच्छ्राद्धमृतानां च कनिष्ठानां तथैव च। यतीनां योगिनां पुंसामन्येषां मोक्षकाङ्क्षिणाम्॥ पुण्यायाघक्षयार्थाय द्वादशेऽहनि कारयेत्॥ द्वादश्यां श्रवणेऽब्दान्ते पञ्चम्यां पर्वणोऽस्तु वा॥' इत्युक्त्वा अतो देवेति षड्भिः पुरुषसूक्तेन च प्रत्यृचं पायसं हुत्वा केशवादिद्वादशनामभिस्तद्रूपिणे पित्रे द्वादश विप्रान् सम्भोज्य तैरेव द्वादश पिण्डान्दद्यादित्यधिकमाह। युद्धमृते तु प्रागुक्तम्। कृतजीवच्छ्राद्धे मृते सपिण्डैराशौचादि कार्यं न वा। तदुक्तं हेमाद्रौ लैङ्गे– 'मृते कुर्यान्न कुर्याद्वा जीवन्मुक्तो यतः स्वयम्। कालं गते द्विजे भूमौ खनेद्वापि दहेत वा॥ पुत्रकृत्यमशेषं च कृत्वा दोषो न विद्यते॥' जीवत्यपि विशेषस्तत्रैवोक्तः– 'नित्यं नैमित्तिकं यत्तु कुर्याद्वा सन्त्यजेत वा। बान्धवेऽपि मृते तस्य नैवाशौचं विधीयते॥ सूतकं च न सन्देहः स्नानमात्रेण शुद्ध्यति॥– एतद्योगिविषयम्; 'योगमार्गरतोऽपि च' इति तस्याप्युक्तेः। तथा आहिताग्नौ प्रोषितमृते तदस्थिदाहात्पूर्वं पुत्रादीनामाशौचं सन्ध्यादिकर्मलोपश्र्च नास्ति; 'अनग्निमत उत्क्रान्तेराशौचादि द्विजातिषु। दाहादग्निमतो विद्याद्विदेशस्थे मृते सति॥” इति स्मृतेः। आहिताग्नेर्दाहात्प्रागपि दशाहः संस्काराङ्गं च भिन्नो दशाह इति धूर्तस्वामी रामाण्डाश्र्च । तच्चिन्त्यम्; मूलैक्याद्वचोविरोधाच्च। एतत्प्रागुक्तम्। अत्र देहस्यैव सम्भवे दाहः; 'आहिताग्नौ विदेशस्थे मृते सति कलेवरम्। निधेयं नाग्निभिर्यावत्तदीयैरपि दह्यते॥ इति ब्राह्मोक्तेः॥
विदेशमृतावस्थ्यलाभे च निर्णयः। —
तदभावे छन्दोगपरिशिष्टे– 'विदेशमरणेऽस्थीनि आहृत्याभ्यज्य सर्पिषा। दाहयेद्वर्हिषाच्छाद्य पात्रन्यासादि पूर्ववत्॥ अस्नामलाभे पार्णानि शकलान्युक्तियावृता । दाहयेदस्थिसङ्ख्यानि ततः प्रभृति सूतकम्॥' हेमाद्रो षट्त्रिंशन्मते– 'कुर्याद्दर्भमयं प्रेतं दर्भैस्त्रिशतषष्टिभिः। पालाशीभिः समिद्भिर्वा सङ्ख्या चैवं प्रकीर्तिता॥" भविष्ये– 'चत्वारिंशच्छिरःस्थाने ग्रीवायां च दशैव तु। बाह्वोश्र्चैव शतं दद्याविंशतिं च तथोरसि॥ उदरे विंशतिं दद्यात्रिंशतं कटिदेशयोः। ऊर्वोश्र्चैव शतं दद्यात् त्रिशतं जानुजङ्घयोः॥ पादाङ्गुलीषु दश वै एषा च प्रेतकल्पना॥" मदनरत्ने यज्ञपार्श्र्वः– ‘शिरस्यशीत्यर्धं दद्याद् ग्रीवायां च दशैव तु। बाह्वोश्र्चैकशतं दद्याद्दशचैवाङ्गुलीषु च॥ उरसि त्रिंशतं दद्याविंशतिं जठरोदरे। द्वादशार्धं वृषणयोरष्टार्धे शिश्र्न एव तु॥ ऊर्वोश्र्चैकशतं दद्यात्रिंशतं जङ्घयोर्द्वयोः। पादाङ्गुलीषु द्वे दद्यादेतत्प्रेतस्य कल्पनम्॥ मस्तके नारिकेरं तु अलाबुं तालुके तथा। पञ्चरत्नं मुखे न्यस्य जिह्वायां कदलीफलम्॥ चक्षुषोस्तु कपर्दौ द्वौ नासिकायां तु कालकम्। कर्णयोर्ब्रह्मपत्राणि केशे वटप्ररोहकाः॥ नालकं कमलानां तु अत्रस्थाने विनिक्षिपेत्। मृत्तिका तु वसा धातुर्हरितालकगन्धकौ॥ शुक्रे तु पारदं दद्यात्पुरीपे पित्तलं तथा॥ सन्धीपु तिलपिष्टं तु मांसे स्याद्यवपिष्टकम्॥मधु स्यालोहितस्थाने त्वचास्थाने मृगत्वचा॥ स्तनयोर्जम्बीरे देये नासायां शतपत्रकम्॥ कमलं नाभिदेशे स्याद्वृन्ताके वृषणाश्रिते। लिङ्गे च रक्तमूलं तु परिधानं दुकूललकम्॥ गोमूत्रं गोमयं गन्धं सर्वौषध्यादि सर्वतः॥' इति।
इदं निरग्नेरपि। तत्रैव वृद्धमनुः– 'प्रोषितस्य तथा कालो गतश्र्चेद् द्वादशाब्दिकः। प्राप्ते त्रयोदशे वर्षे प्रेतकार्याणि कारयेत्॥' बृहस्पतिः– 'यस्य न श्रूयते वार्ता यावद् द्वादशवत्सरान्। कुशपुत्रकदाहेन तस्य स्यादवधारणा॥' भविष्ये– 'पितरि प्रोषिते यस्य न वार्ता नैव चागमः॥ ऊर्ध्वं पञ्चदशाद्वर्षात्कृत्वा तत्प्रतिरूपकम्॥ कुर्यात्तस्य तु संस्कारं यथोक्तविधिना ततः। तदादीन्येव सर्वाणि प्रेतकर्माणि कारयेत्॥' द्वादशाब्दप्रतीक्षा पितृभिन्नविषयेति मदनरत्ने उक्तम्। गृह्यकारिकायां तु – 'तस्य पूर्ववयस्कस्य विंशत्यब्दोर्ध्वतः क्रिया। ऊर्ध्वं पञ्चदशाब्दात्तु मध्यमे वयसि स्मृता॥ द्वादशाद्वत्सरादूर्ध्वमुत्तरे वयसि स्मृता। चान्द्रायणत्रयं कृत्वा त्रिंशत्कृच्छ्राणि वा सुतैः॥ कुशैः प्रतिकृतिं दग्ध्वा कार्या शौचादिका क्रिया॥” इत्युक्तम्। पराशरः– 'देशान्तरगतो नष्टस्तिथिर्न ज्ञायते यदि। कृष्णाष्टमी ह्यमावास्या कृष्णा चैकादशी च या॥ उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत्॥' इदं मासज्ञाने।
तत्राहिताग्नेः पूर्णाशौचम्। अनाहिताग्नेस्तु त्रिरात्रम्;' अनाहिताग्नेर्देहस्तु दाह्यो गृह्याग्निना स्वयम्। तदभावे पलाशानां वृन्तैः कार्यः पुमानपि। वेष्टितव्यस्तथा यत्नात् कृष्णसारस्य चर्मणा। ऊर्णासूत्रेण बध्वा तु प्रलेप्तव्यो यवैस्तथा॥ सुपिष्टैर्जलसम्मिश्रैर्दग्धव्यश्र्च तथाग्निना। असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा सबान्धवैः॥ एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत्॥' इति ब्राह्मोक्तेः। इदं त्रिरात्रं न दशाहमध्ये दाहे, तत्र 'प्रोषिते कालशेषः स्यात्' इत्युक्तेः, किन्तु तदूर्ध्वम्। तत्र पत्नीपुत्रयोः पूर्वमगृहीताशौचयोर्दशाहाद्येव । गृहीताशौचयोस्तु त्रिरात्रम्। पत्नीमृतौ भर्तुश्र्चैवं , सपढयोश्चैवमिति स्मृत्यर्थसारे। अन्यसपिण्डानां तु सर्वत्र पर्णशरदाहे त्रिरात्रम्। तदाहाङ्गिराः– 'देशान्तरमृतं श्रुत्वा नाशौचं चेत्कथञ्चन।' गृहीतमिति शेषः। 'कालात्ययेऽपि कुर्वीत दाहकाले दिनत्रयम्।' इति। स्मृत्यर्थसारे तु गृहीताशौचानां स्नानमात्रमुक्तम् ।बह्वृचपरिशिष्टेऽपि– अथातीतसंस्कारः स चेदन्तर्दशाहं स्यात्तत्रैव सर्वं समापयेदूर्ध्वमाहिताग्नेर्दाहात्सर्वमाशौचं कुर्यादन्येषु पत्नीपुत्रयोः पूर्वमगृहीताशौचयोः सर्वमाशौचम् । गृहीताशौचयोः कर्माङ्गं त्रिरात्रमिति । षडशीतावप्येवम् । विश्र्वादर्शे तु 'प्रतिकृतिदहने त्वग्निदे स्यात्रिरात्रम्' इत्युक्तम्। द्वादशवर्षादिप्रतीक्षोत्तरं दाहे तु पुत्रादीनां सर्वेषां त्रिरात्रमिति कल्पतरुदिवोदासादयः॥
अथ प्रेतसंस्कारे कालः। हेमाद्रौ गार्ग्यः– 'प्रत्यक्षशवसंस्कारे दिनं नैव विशोधयेत्। आशौचमध्ये संस्कारे दिनं शोध्यं तु सम्भवे॥ आशौचविनिवृत्तौ चेत्पुनः संस्क्रियते मृतः। संशोध्यैव दिनं ग्राह्यमूर्ध्वं संवत्सराद्यदि॥ प्रेतकार्याणि कुर्वीत श्रेष्ठं तत्रोत्तरायणम्। कृष्णपक्षश्र्च तत्रापि वर्जयेत्तु दिनक्षयम्॥' वाराहे– 'चतुर्थाष्टमगे चन्द्रे द्वादशे च विवर्जयेत्। प्रेतकृत्यं व्यतीपाते वैधृतौ परिघे तथा॥ करणे विष्टिसञ्ज्ञे च शनैश्र्चरदिने तथा। त्रयोदश्यां विशेषेण जन्मतारात्रये तथा॥' जन्मदशमैकोनविंशानि जन्मताराः। भारते– 'नक्षत्रे तु न कुर्वीत यस्मिञ्जातो भवेन्नरः। न प्रौष्ठपदयोः कार्यं तथाग्नेये च भारत। दारुणेषु च सर्वेषु प्रत्यरे च विवर्जयेत्॥' काश्यपः– 'भरण्यार्द्रामघाश्र्लेषामूलं द्विचरणानि च। प्रेतकृत्येऽतिदुष्टानि धनिष्ठाद्यं च पञ्चकम्॥ फल्गुनीद्वितयं रोहिण्यनूराधापुनर्वसू। आषाढे द्वे विशाखा च भानि द्विचरणानि च॥' ज्योतिर्नारदः– 'चतुर्दशीं तिथिं नन्दां भद्रां शुक्रारवासरौ। सितेज्ययोरस्तमयं द्व्यङ्घ्रिभं विषमाङ्घ्रिभम्॥ शुक्लपक्षं च सन्त्यज्य पुनर्दहनमुत्तमम्। वसूत्तरार्धतः पञ्चनक्षत्रेषु त्रिजन्मसु॥ पौष्णब्रह्मर्क्षयोश्र्चैव दहनात्कुलनाशनम्॥' अस्यापवादमाह तत्रैव बैजवापः– 'प्रेतस्य साक्षादग्धस्य प्राप्ते त्वेकादशेऽहनि। नक्षत्रतिथिवारादि शोधनीयं न किञ्चन॥ युगमन्वादिसङ्क्रान्तिदर्शे प्रेतक्रिया यदि। दैवादापतिता तत्र नक्षत्रादि न शोधयेत्॥' विश्र्वप्रकाशेऽपि– 'गुरुभार्गवयोर्मौढ्ये पौषमासे मलिम्लुचे।नातीतः पितृमेधः स्याद्गयां गोदावरीं विना॥' दानमपि तत्रैवोक्तम्–‘भद्रायां भूमिदानं स्यात्रिपादर्क्षे हिरण्यदः। वारेषु तत्तद्वर्णं तु वासोदानं विधीयते॥ धनिष्ठापञ्चकमृते पञ्चरत्नानि दापयेत्। एकाशीतिपलं कांस्यं तदर्धं वा तदर्धकम्॥ नवषट्त्रिपलं वापि दद्याद्विप्राय शक्तितः॥' इत्यलं प्रसङ्गेन ॥
जीवतो ह्यौर्ध्वदेहिके कृते। —
हेमाद्रौ वृद्धमनुः– 'अमृतं मृतमाकर्ण्य कृतं यस्यौर्ध्वदेहिकम्। प्रायश्चित्तमसौ स्मार्तं कृत्वानी-नादधीत च॥ जीवन्यदि समागच्छेद् घृतकुम्भे निमज्ज्य तम् । उद्धृत्य स्नापयित्वास्य जातकर्मादि कारयेत्॥ द्वादशाहं व्रतचर्या त्रिरात्रमथवास्य तु। स्नात्वोद्वहेत तां भार्यामन्यां वा तदभावतः॥ अग्नीनाधाय विधिवद् व्रात्यस्तोमेन वा यजेत्। अथेन्द्राग्नेन पशुना गिरिं गत्वा च तत्र तु॥ इष्टिमायुष्मतीं कुर्यादीप्सितांश्र्च ऋतूंस्ततः॥' अनाहिताग्नेस्तु चरुः। मृतवार्ताश्रवणे त्वाश्र्वलायनः– 'सुरभय एव यस्मिन् जीवे मृतशब्दः' इति। यस्य तु जीवत एव मृतिवार्तां श्रुत्वा स्त्रिया सहगमनं कृतं तदा तद्वैधमेव, भर्तुर्मरणज्ञानस्यैव निमित्तत्वात्। प्रमात्वस्य गौरवेणायुक्तत्वाच्चेति केचित्। तन्न; मरणज्ञानस्य निमित्तत्वेऽतीतानागतयोरपि तथात्वापत्तेः। भर्तुर्वैधदाहाभावेन तस्याः सहगमनाभावाच्च। तस्मादाशौचवज्ज्ञातमरणस्यैव निमित्तत्वम्। न चात्र तदस्ति। परं काम्यं मरणमस्तु। अत आत्महननदोषोऽस्तीति तातपादाः।
तथा सर्पसंस्कारे कृते त्रिरात्रमाशौचम्। तद्विधिं चाह शौनकः– 'अथ वक्ष्यामि सर्पस्य संस्कारविधिमुत्तमम्। सिनीवाल्यां पौर्णमास्यां पञ्चम्यां वापि कारयेत्॥ कृतसर्पवधो विप्रः पूर्वजन्मनि वा यदि। वधं प्रख्यापयेत्यापी चरेत्कृच्छ्रांश्र्चतुर्दश। विप्राय लोहदण्डं च तन्मूल्यं वापि दापयेत्।' मूल्यमाह– 'निष्कत्रयं द्विनिष्कं वा निष्कमेकं कनीयसम् । अनुमत्यादिकर्तॄणां निष्कमर्धं तदर्धकम्॥' इदं स्वर्णरूप्ययोः शक्त्या ज्ञेयम्। संस्कारमाह– ‘प्रियङ्गुव्रीहिगोधूमैस्तिलपिष्टेन वा पुनः। कृत्वा सर्पाकृतिं शूर्पे निधाय प्रार्थयेदहिम्॥ एहि पूर्वमृतः सर्प अस्मिन्पिष्टे समाविश।संस्कारार्थमहं भक्त्या प्रार्थयामि समाहितः॥ वस्त्रोपवीतगन्धाद्यैः सम्पूज्य च हरेद्वहिः। कुर्यात्संस्कारसङ्कल्पं प्राणायामपुरः सरम्॥ यज्ञोपवीतिना कार्यं सर्पसंस्कारकर्म तु। लौकिकाग्निं प्रतिष्ठाप्य समिदाधानमाचरेत्॥ ततोऽग्नेरग्निदिग्भागे भूमिं सम्प्रोक्ष्य वारिभिः। चितिं कृत्वाथ संस्तीर्य कुशैराग्नेयकाग्रकैः॥ पर्युक्ष्याग्निं परिस्तीर्य परिषिच्य समर्चयेत्। कृत्वेध्माधानमाघारौ चक्षुषी च यथाविधि॥सर्पं गृहीत्वा यत्नेन चितिमारोपयेत्सुधीः। स्रुवेण जुहुयादाज्यमग्नै व्याहृतिभिस्त्रिभिः॥ सर्पास्ये जुहुयादाज्यं व्याहृत्या च समग्रया। आज्यशेषं स्रुवेणैव सर्पदेहे निषेचयेत्॥ चमसस्थैर्जलैः सर्पं व्याहत्याभ्युक्ष्य पाणिना॥ अग्ने रक्षाण इत्यनया सर्पायानं प्रदापयेत्॥ उपतिष्ठेद्दह्यमानं नमोऽस्तु सर्पमन्त्रतः। ज्ञानतोऽज्ञानतो वापि कृतः सर्पवधो मया॥ पूर्वजन्मनि वा सर्प तत्सर्वं क्षन्तुमर्हसि। क्षीराज्येन ततश्र्चाग्निं प्रोक्ष्य व्याहृतिभिर्जलैः॥ नास्थिसञ्चयनं कुर्यात् स्नात्वाचम्य गृहं व्रजेत् । ब्रह्मचर्यादिकं कार्यं त्रिरात्राशौचमिष्यते ॥ सचैलं तु चतुर्थेऽह्नि स्नात्वा विप्रान् समर्चयेत् । सर्पोऽनन्तस्तथा शेषः कपिलो नाग एव च ॥ कालिकः शङ्खपालश्र्च भूधरश्र्चेति नामभिः। गन्पुष्पाक्षतैर्धूपदीपाद्यैरर्चयेद् द्विान्॥ घृतपायसभक्ष्यैश्र्च द्विजानष्टौ तु भोजयेत्। एवं कृते विधानेन सर्पसंस्कारकर्मणि॥ सर्पहिंसाकृतात्पापान्मुच्यते नात्र संशयः॥'
इति सर्पसंस्कारः॥
क्वचित्तु जीवतोऽप्यन्त्यकर्माशौचं च कार्यम्। यथा– प्रायश्र्चित्तानिच्छोः पतितस्य घटस्फोटे; 'पतितस्योदकं कार्यं सपिण्डैर्बान्धवैः सह। निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ॥ दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत्तदा। अहोरात्रमुपासीरन्नाशौचं बान्धवैः सह॥' इति मनूक्तेः। निन्दिते= रिक्तादौ । अपरार्के वसिष्ठोऽपि– 'वेदविप्लावकशूद्रयाजकोत्तमवर्णवर्गपतितास्तेषां पात्रनिनयनमपात्रसंस्कारादकृत्स्नं पात्रमादाय दासोऽसवर्णपुत्रो वा बन्धुरसददृशो वा गुणहीनः सव्येन पादेन प्रवृत्ताग्रान् दर्भान् लोहितान् वोपस्तीर्यापः पूर्णपात्रमस्मै निनयेन्निनेतारं चास्य प्रकीर्णकेशा ज्ञातयोऽन्वालभेरन्नपसव्यं कृत्वा गृहेषु स्वैरमापद्येरन्नत ऊर्ध्वं तेन तं धर्मयेयुस्तद्धर्माणस्तं धर्मयन्तः ॥' इति। उत्तमवर्णाः= ब्राह्मणादयः, तेपां वर्गः समूहस्तस्मात्पतिता ब्रह्महादयः। अपात्रसंस्कारः=कुत्सितपात्रसमूहः। प्रवृत्ताग्राः = छिन्नाग्राः। स्वैरं= यथेच्छं धर्मादिकार्यं कुर्युः। अस्माद्वचनसामर्थ्यात्पात्रनिनयनात्प्रापतितज्ञातीनां धर्मकार्येष्वधिकारो।
नास्तीत्यपरार्कः। 'तस्य विद्यागुरून् योनिसम्बन्धांश्र्च सन्निपात्य सर्वाणयुदकादिप्रेतकार्याणि कुर्युः, पात्रं चास्य विपर्यस्येयुर्दासः कर्मकरो वाऽवकरादमेध्यं पात्रमानीय दासीघटात्पूरयित्वा दक्षिणामुखः पदा विपर्यस्येदमुमनुदकं करोमीति नामग्राहं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखा अप उपस्पृश्य ग्रामं प्रविशेयुः॥' इति गौतमोक्तेश्र्च । उदकादीत्युक्तेर्दाहनिवृत्तिः। प्रेतकार्याणि= एकादशाहश्राद्धान्तानि। दास्याहृतोऽम्बुघटः दासीघटः। तेनोदकेनामेध्यपात्रं पूरयित्वा दासादिर्न्युब्जं वामपादेन कुर्यादिति हरदत्तः। अत्र नामग्राहवचनमुदकदिप्रेतकार्ये तद्वर्जनत्वार्थम्। तेन तत्तूष्णीं भवति। एतच्च प्रायश्र्चित्तानिच्छोः। 'तस्य गुरोर्बान्धवानां राज्ञश्र्च समक्षं दोषानभिख्याप्य तमनुभाष्य पुनःपुनराचारं लभस्वेति स यद्येवमप्यनवस्थितमतिः स्यात्ततोऽस्य पात्रं विपर्यस्येत्' इति शङ्खोक्तेः। जीवन्तमेवोद्दिश्य पिण्डोदकश्राद्धानि नाम्ना दद्यादित्यपरार्कः॥
कृतप्रायश्चित्तस्य घटस्फोटे कृतेऽपि सङ्ग्रहविधिमाह गौतमः– 'यस्तु प्रायश्र्चित्तेन शुद्ध्येत्तस्मिञ्छुद्धे शातकुम्भमयं पात्रं पुण्यह्रदात्पूरयित्वा स्रवन्तीभ्यो वा तत एनमुपस्पर्शयेयुरथास्मै तत्पात्रं दद्युस्तत्स प्रतिगृह्य जपेत्– 'शान्ता द्यौः शान्ता पृथिवी शान्तं विश्र्वमन्तरिक्षं यो रोचनस्तमिह गृह्णामि' इत्येतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिः कूष्माण्डैश्र्चाज्यञ्जुहुयाविरण्यं दद्याद्गां चाचार्याय। यस्य तु प्राणान्तिकं प्रायश्र्चित्तं स मृतः शुद्ध्येत्सर्वाण्येव तस्मिन्नुदकादीनि प्रेतकर्माणि कुर्युरेतदेव शान्त्युदकं सर्वेषूपपातकेषु' इति। घटस्फोटोत्तरं प्राणान्तिकप्रायश्र्चित्ते कृते तु मृत एव शुद्ध्येन्न तत्र सङ्ग्रहविधिः। अतस्तेन विनापि प्रेतकर्म कुर्यादित्यर्थः। उपपातकेष्वपि घटस्फोटे कृते एवं कार्यमित्यर्थः। याज्ञवल्क्यः– 'चरितव्रत आयाते निनयेरन्नवं घटम्। जुगुप्सेरन्न चाप्येनं संवसेयुश्र्च सर्वशः॥' कृतघटस्फोटस्यैवायं परिग्रहविधिरिति मिताक्षरायामपरार्के च। अन्यथा प्रायश्चित्तमात्रे एतत्प्रसङ्गात्। मनुरपि घटस्फोटमुक्त्वा– 'निवर्तेरंस्ततस्तस्मात्सम्भाषणसहासनैः' इत्युक्त्वा– 'प्रायश्र्चित्ते तु चरिते पूर्णकुम्भमपां नवम्। तेनैव साधै प्राश्नीयुः स्नात्वा पुण्ये जलाशये॥' इति तच्छब्दं प्रायुङ्क्त। अपरार्के वसिष्टोऽपि– 'पतितानां चरितव्रतानां प्रत्युद्धारोऽथाप्युदाहरन्ति– ‘अग्रेऽभ्युद्धरतां गच्छेत्कीडन्निव हसन्निव। पश्चात्पातयतां गच्छेच्छोचन्निव रुदन्निव॥' इत्याचार्यमातृपितृहन्तारस्तत्प्रसादादपगतपापा एषा तेषां प्रत्यापत्तिः। पूर्णह्रदात्प्रवृत्ताद्वा सकाञ्चनं पात्रं माहेयं वाऽद्भिः पूरयित्वापोहिष्ठीयाभिरेनमद्भिरभिषिञ्चेयुः, 'सर्व एवाभिषिक्तस्य प्रत्युद्धारः पुत्रजन्मना व्याख्यातः' इति। प्रत्युद्धारः= परिग्रहः। तत्रोद्धरतां हसन्निवाग्रेसरः स्यात् पातयतां घटस्फोटं कुर्वतां शोचन्निव पश्र्चाद्गच्छेत्। मातापित्रादिहनृृणां परिग्रहो न कार्यः। तत्प्रसादे सति चीर्णव्रतानां कार्यः। प्रवृत्त= निर्झरः। पुत्रजन्मनेत्यभिषेकोत्तरं जातकर्मादयः संस्काराः पुत्रजन्मवत्कार्या इत्यपरार्के व्याख्यौ। अत एव विज्ञानेश्र्वरः– 'घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम्। प्रदद्यात्प्रथमं गोभिः सत्कृतस्य हि सक्रिया॥' इत्यत्र गवां भक्षणाभावे पुनर्व्रतं चरेदित्येतत्प्रकृते, एवं चरितव्रतविधौ विशेषोऽयमिति वदन् घटस्फोटोत्तरं परिग्रह एव, एतन्न सर्वत्रेत्याह। तस्मात्कृतेऽपि घटस्फोटे प्रायश्र्चित्तं परिग्रहविधिः पुनःसंस्कारा भवन्तीति सिद्धम्। तथा जीवच्छ्राद्धे कृते हेमाद्री बौधायनः–' तत्राशौचन्दशाहं स्यात्' इत्यलं प्रसङ्गेन।
एवं सापवादे आशौचे उक्ते प्रतिशाखं भिन्नेऽप्यन्त्यकर्मणि साधारणं किञ्चिदुच्यते । तत्राधिकारिणः श्राद्धप्रकरणे प्रागुक्ताः। सर्वाभावे धर्मपुत्रो वा कार्यः; 'अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः। पिण्डोदकक्रियाहेतोर्नामसङ्कीर्तनाय च॥” इति व्यासवचनात्। गृह्यपरिशिष्टे– 'असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान्। प्रथमेऽहनि योदद्यात्स दशाहं समापयेत्॥' दद्यात्पिण्डमिति शेषः। भविष्ये– 'यत्राद्यो दीयते पिण्डस्तत्रसर्व समापयेत्।' ब्राह्मेऽपि– 'प्रथमेऽहनि यो दद्यात्प्रेतायान्नं समाहितः। अन्नं नवसु चान्येषु स एव प्रददात्यपि॥' विज्ञानेश्र्वरादयस्तु 'केचित्तु अग्निं दद्यात्' इति व्याचक्षते। 'सगोत्रो वाऽसगोत्रो वा योऽग्निं दद्यात्सखे नरः। सोऽपि कुर्यान्नवश्राद्धं शुद्ध्येत्तु दशमेऽहनि॥” इति दिवोदासीये वचनाञ्च।
तत्रैव– 'दृष्ट्वा स्थानस्थमासन्नमर्धोन्मीलितलोचनम् । भूमिष्ठं पितरं पुत्रो यदि दानं प्रदापयेत्॥ तद्विशिष्टं गया श्राद्धादश्वमेधशतादपि॥' तानि यथा– 'मोक्षं देहि हृषीकेश मोक्षं देहि जनार्दन।मोक्षधेनुप्रदानेन मुकुन्दः प्रीयतां मम॥' इति मोक्षधेनुमन्त्रः । 'ऐहिकामुष्मिकं यच्च सप्तजन्मार्जितम् ऋणम्। तत्सर्वं शुद्धिमायातु गामेतां ददतो मम॥' इति ऋणधेनोः। 'आजन्मोपार्जितं पापं मनोवाक्कायकर्मभिः। तत्सर्वे नाशमायातु गोप्रदानेन केशव॥ इति पापधेनोः। भारते– 'शुक्लपक्षे दिवा भूमौ गङ्गायां चोत्तरायणे। धन्यास्तात मरिष्यन्ति हृदयस्थे जनार्दने॥' हेमाद्रौ वाराहे– 'व्यतीपातोऽथ सङ्क्रान्तिस्तथैव ग्रहणं रवेः । पुण्यकालास्तदा सर्वे यदा मृत्युरुपस्थितः॥' व्यासः– 'आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत्। तदभावे तु गौरेव नरकोत्तारणाय वै॥ तदा यदि न शक्नोति दातुं वैतरणीं तु गाम्। शैक्तोऽन्योऽरुक्तदां दत्त्वा दद्यायो मृतस्य तु॥'
दश दानानि। —
मदनमरत्ने जातूकर्ण्यः– 'उत्क्रान्त्यादीनि दानानि दश दद्यान्मृतस्य तु। गोभूतिलहिरण्याज्यवासो धान्यं गुडानि च॥ रौप्यं लवणमित्याहुर्दश दानान्यनुक्रमात्॥ एतानि दश दानानि नराणां मृत्युजन्मनोः। कुर्यादभ्युदयार्थं तु प्रेतेऽपि हि परत्र वै॥ ब्राह्मे– 'ताम्रपात्रं तिलैः पूर्णं प्रस्थमात्रैर्द्विजाय तु। सहिरण्यं च यो दद्याच्छ्रद्धावित्तानुसारतः॥ सर्वपापविशुद्धात्मा लभते गतिमुत्तमाम्। उत्क्रान्तिवैतरिण्यौ च दशदानानि चैव हि॥ प्रेतेऽपि कृत्वा तं प्रेतं शवधर्मेण दाहयेत्॥' तत्रैव परिशिष्टे– 'म्रियमाणस्य कर्णे तु पुण्यमन्त्रान् जपेत्ततः।' क्रियानिबन्धे गारुडे त्वष्टौ दानान्युक्तानि। 'तुलसीसन्निधौ कृत्वा शालग्रामशिलां तथा। तिला लोहं हिरण्यं च कार्पासं लवणं तथा। सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥' इति। दशदानवैतरिणीधेनूत्क्रान्तिधेनुदानादि भट्टकृतान्त्येष्टिपद्धतौ ज्ञेयम्। कर्ताऽन्त्यकर्माधिकारार्थं त्रीन् कृच्छ्रान् कुर्यादिति तत्रैवोक्तम्। अत्र देवयाज्ञिकेन मुमूर्षोर्मधुपर्कदानमुक्तम्। तदुक्तं वाराहे– दृष्ट्वा सुविह्वलं ह्येनं यममार्गानुसारिणम्। प्रयाणकाले तु नरो मन्त्रेण विधिपूर्वकम्॥ मधुपर्कं त्वरन् गृह्य इमं मत्रमुदाहरेत्। ॐ गृहाण चेमं मधुपर्कमाद्यं संसारनाशनकरं त्वमृतेन तुल्यम्। नारायणेन रचितं भगवत्प्रियाणां दाहे च शान्तिकरणं सुरलोकपूज्यम्॥ अनेनैव तु मन्त्रेण दद्याच्च मधुपर्ककम्। नरस्य मृत्युकाले तु परलोकसुखावहम्॥'
दुर्मरणे निर्णयः। —
अथ दुर्मरणे दिवोदासीये– ' चण्डालादिमृते विप्रे त्वन्तरिक्षमृतेऽपि वा। कृच्छ्रातिकृच्छ्रचान्द्रैस्तु शुद्धिस्तत्र प्रकीर्तिता॥' देवजानीये जाबालिः– 'शूद्रेण दग्धो यो विप्रो न लभेच्छाश्वतीं गतिम् प्रायश्र्चित्तं प्रकुर्वीत ब्राह्मणः पापशुद्धये॥ चान्द्रायणं निर्णयः पराकं च प्राजापत्यं विशोधनम्॥' गृह्यकारिकायाम्– 'उदक्या सूतिका वापि यदि प्रेतं स्पृशन्ति हि। तस्यैष विधिरादिष्टो वात्स्येनैव महात्मना॥' एषः= सूतिकोक्तः । मदनरत्ने स्मृत्यन्तरे– 'ऊर्ध्वाच्छिष्टाधरोच्छिष्टोभयोच्छिष्टे तथैव च। अस्पृश्यस्पर्शने चैव खट्वादिमरणेऽपि च॥ श्र्वानक्रव्यादसंस्पर्शे क्रिमिकीटोद्भवेऽपि च। एतद्दोषानुसारेण प्रायश्र्चित्तं समाचरेत्। कृच्छ्रांस्त्रिषट्पञ्चदशांश्र्चान्द्रत्रयमथापि वा। शुद्ध्यै तदानीं सम्पाद्य शवधर्मेण दाहयेत्॥' गृह्यकारिकायाम्– 'खट्टायां मरणे चैव त्रींस्त्रीन्कृच्छ्रान् प्रकल्पयेत्। सप्तान्त्यजैस्तु संस्पृष्टो मृतो दैवात्कथञ्चन॥एकत्रिंशता कृच्छ्रस्तु शुद्धिरुक्ता मनीषिभिः। कुणपे त्वर्धदग्धे तु चिता स्पृष्टाऽन्त्यजादिभिः। तत्स्पर्शने दूषणं च त्रिभिः कृच्छ्रेर्विशुध्यति।' धर्मप्रदीपे तु– 'चाण्डालसूतिकोदक्या स्पृष्ठे प्रेते तथैव च। तस्य पापविशुद्ध्यर्थं कृच्छ्रान् पञ्चदशाचरेत्॥' इत्युक्तम्। मनुः– 'अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसम्पर्कदूषिता।' अत्रापि कृच्छ्रत्रयम्; 'अस्पृश्यस्पर्शने चैव' इत्युक्तेः।
रात्रिभोगे मरणे निर्णयः ।—
तत्रैव कर्मप्रदीपे–'रात्रौ वा रात्रिशेषे वा म्रियन्ते चेद्विजातयः। दाहं कृत्वा यथान्यायं द्वौ पिण्डौ निर्वपेत्सुतः॥' रजस्वलागर्भिण्यादिमृतौ तु वक्ष्यामः। निर्णयामृते पारिजाते यमः– 'सन्ध्यायां वा तथा रात्रौ दाहः पाथेयकर्म च। नवश्राद्धं च नो कुर्यात्कृतं निष्फलतां व्रजेत्॥' एतद्दिनमृतस्य रात्रिनिषेधार्थम्। यत्तुस्कान्दे 'यदि रात्रौ दहेत्तस्य समाप्तिर्दहनस्य तु। परेऽहन्युदिते सूर्ये कार्या तस्योदकक्रिया। दग्धस्य तु न वै कार्या रात्रौ जातूदकक्रिया॥'इति,–तन्निर्मूलम्। रात्रिमृतस्य तु तत्रैव सङ्ग्रहे–'रात्रौ दग्ध्वा तु पिण्डान्तं कृत्वा वपनवर्जितम्। वपनं नेष्यते रात्रौ श्र्वस्तनी वापनक्रिया॥' इति। वपनं तु प्रातः। तच्च सर्वैः पुत्रैः कार्यम्; 'गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरोर्मृतौ। आधाने सोमयागे च वपनं सप्तसु स्मृतम्॥” इति मिताक्षरायां स्मृतेः। मरणस्यानङ्गित्वान्नैमित्तिकमिदम्। तदेव सङ्ग्रहवचनेन परेद्युरुत्कृष्यते तीर्थवत्। तेन कस्य चिद्दाहाङ्गत्वोक्तिश्र्चिन्त्या। मदनरने गालवः– 'प्रथमेऽहनि कर्तव्यं वपनं चानुभाविनाम्। प्रेतस्य केशरमश्र्वादि वापयित्वाऽथ दाहयेत्॥' आशौचान्ते तु पुनः कार्यं विधिबलात्। मदनपारिजातेऽप्येवम्।तेन सर्वस्यास्य निर्मूलत्वोक्तिरज्ञोक्तिरेव। स्मृतिरत्नावल्याम्– 'शवं रात्र्युषितं चेत्रीन् कृच्छ्रान् कृत्वा दहेत्सुतः।' मदनरत्नेऽङ्गिराः– 'ऊर्ध्वोच्छिष्टाधरोच्छिष्टे ह्यन्तरिक्षमृतेऽपि वा। कृच्छ्रत्रयं प्रकुर्वीत आशौचे मरणेऽपि च॥'
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा