🕉️ 24 November 2026, Tuesday · 08:21:55 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 78/87
इस पृष्ठ में: साग्नेर्विशेषः

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

साग्नेर्विशेषः

अथ साग्नेर्विशेषः। कारिकायाम्– 'कृष्णपक्षे प्रमीयेत यद्यह्नि प्रातराहुतीः। शेषास्तु जुहुयाद्दर्शपर्यन्ताः पक्षहोमवत्॥' प्रतिपत्प्रातर्होमान्ता इत्यर्थः; 'यद्याहिताग्निरपरपक्षे म्रियेताहुतिभिरेनं पूर्वपक्षे हरेयुः' इत्याश्र्वलायनोक्तेः। 'तदानीमेव जुहुयात्सायङ्कालाहुतीरपि। सायं म्रियेत चेत्सायमाहुतीर्जुहुयादथ॥ तदानीमेव जुहुयात्प्रातः– कालाहुतीरपि। सकृद्गृहीतमत्रेष्टं भिन्नं तन्त्रं च होमयोः॥ दर्शं चापि प्रकुर्वीत स्थालीपाकं तदैव तु॥' छन्दोगपरिशिष्टे– 'हुतायां सायमाहुत्यां दुर्बलश्र्चेद्गृही भवेत्। प्रातर्होस्तदैव स्यात् जीवेच्च स पुनर्न वा॥ ' – इदं शुक्लपक्षपरम्। दुर्बलः– मुमूर्षुः। त्रिकाण्डमण्डनः – 'दर्शेष्टिं च तदा कुर्यादिष्टिर्यदि न सम्भवेत्। देवतानां प्रधानानामेकैकस्य हुनेत्पृथक्॥ पुरोनुवाक्यायाज्याभ्यां चतुरात्तवघृताहुतीः॥' तथा– 'अग्नावरण्योरारूढे प्रमीयेत पतिर्यदि। प्रेतं स्पृष्ट्वा मथित्वाऽग्निं जप्त्वा चोपावरोहणम्॥ घृतं च द्वादशोपात्तं तूष्णीं हुत्वा शवक्रिया॥' विच्छिन्नश्रौताग्नेर्मृतौ तु प्रेताधानं तत्रैवोक्तम्,– 'प्रेतं स्वाग्न्यालये क्षिप्त्वा मथिताग्न्यालेऽरणी। सन्निधायारणीं मन्थेद्यस्येति यजुषा ततः॥ “–”यस्याग्नयो जुह्वतॊ मांसकामाः सङ्कल्पयन्ते यजमानमांसम्। जायन्तु ते हविषे सादिताय स्वर्गं लोकमिमं प्रेतं नयन्तु”–' इति मन्त्रतः॥ ‘प्रणीय पावकं तूष्णीं द्वादशोपात्तसर्पिषा। तूष्णीं हुत्वा ततः कुर्यात्प्रेते माल्या इति क्रियाम्॥ नष्टेष्वग्निष्वथारण्योर्नाशे स्वामी म्रियेत चेत्। आहरेदरणीद्वन्द्वं मनोज्योतिर्ऋचा ततः॥'

चित्यग्निविघाते निर्णयः। —

यज्ञपार्श्र्वः– ‘यजमाने चितारूढे पात्रन्यासे कृते सति। वर्षाभिहते वह्नौ कथं कुर्वन्ति याज्ञिकाः तदर्धदग्धकाष्ठेन मन्थनं तत्र कारयेत्॥ तच्छेषालाभतोऽन्येन दग्धशेषेण वा पुनः॥ हुत्वाज्यं लौकिके वह्नौ हुतशेषं दहेत्तु वा॥' अत्राग्निषु सत्सु पर्णशरैः शरीरोत्पत्तिः। शरीरे वा सति प्रेताधानेनाग्न्युत्पत्तिः। उभयाभावे तु प्रेताधानेऽनधिकाराद्दाहादिसंस्कारलोपः। उदकदानाद्येव कार्यमिति केशवीकार-शत-द्वयीप्रमुखाः– तन्न; 'निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः।' इति विरोधात्।

'क्रियालोपगता ये च' इति निषेधात्, 'तदभावे पलाशानां वृन्तैः कार्यः पुमानपि' इत्यभावे विधानस्याग्न्याभावेऽपि साम्याच्च । तेन प्रेताहुत्यभावेऽपि स्विष्टकृद्द्रव्यान्तरोक्तेरदृष्टार्थत्वात् प्रेताधानं दाहोऽपि भवत्येव, प्रतिकृतेरग्नीनां च प्रेताधानप्रयोजकत्वाक्षतेः।

पत्न्या अप्येवम्, 'दाहयित्वाऽग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः। इति याज्ञवल्क्योक्तेः। यत्तु– 'द्वितीयां चैव यो भार्यां दहेद्वैतानिकाग्निभिः। जीवन्त्यां प्रथमायां तु सुरापानसमं स्मृतम्॥” इति, –तदाधाने सहानधिकृताविषयमिति विज्ञानेश्र्वरः। मदनरत्ने ब्राह्मेऽपि– 'आहिताग्न्यॊश्र्च दम्पत्योर्यस्त्वादौ म्रियते भुवि। तस्य देहः सपिण्डैश्र्च दग्धव्यस्त्रिभिरग्निभिः॥ पश्र्चान्मृतस्य देहस्तु दग्धव्यो लौकिकाग्निना। अनाहिताग्निदेहस्तु दाह्योगृह्याग्निना द्विजैः ॥' त्रिकाण्डमण्डनस्तु विकल्पमाह –'ज्येष्ठायां विद्यमानायां द्वितीयायै स्वयोषिते। काम्यं नित्याग्निहोत्रं वा न कथञ्चित्प्रयच्छति ॥ स्त्रीमात्रमविशेषेण दग्ध्वान्यैर्वैदिकाग्निभिः । विवाह्यादधते यद्वाधानमेवास्ति चेद्वधूः॥' इति।

अत्रेदं तत्त्वम्– साग्नेः पत्नीमृतौ द्वौ पक्षौ –पुनर्विवाहेच्छायां पूर्वाग्निभिर्दहेदित्येकः पक्षः; 'भार्यायै पूर्वमारिण्यै दत्त्वाऽग्नीनन्त्यकर्मणि। पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥' इति मनूक्तेः, 'दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः।' इति याज्ञवल्क्योक्तेश्र्च । पुनर्विवाहाशक्तौ निर्मन्थ्येन तां दग्ध्वा पूर्वाग्निष्वेवाग्निहोत्रेष्ट्यादि कार्यमित्यन्यः। 'आर्येणाहिताग्निं पत्नीं च' इत्याश्र्वलायनोक्तेः। भरद्वाजोऽपि – 'निर्मन्थ्येन पत्नीम्' इति । पूर्वाग्न्येकदेशेन दहेदिति यज्ञपार्श्र्वेदेवयाज्ञिकादयः। यानि च– 'तस्मादपत्नीकोऽप्यग्निहोत्रमाहरेत्' इति श्रुतिः, विष्णुश्छन्दोगपरिशिष्टे च –'मृतायामपि भार्यायां वैदिकाग्निं नहि त्यजेत्। उपाधिनापि तत्कर्म यावज्जीवं समाचरेत्॥' उपाधिः= हेमकुशपत्न्यादिः। ‘अन्ये कुशमयीं पत्नीं कृत्वा तु गृहमेधिनः। अग्निहोत्रमुपासन्ते यावज्जीवमनुव्रताः' इत्यपरार्के स्मृत्यन्तरात्। कात्यायनोऽपि– 'रामोऽपि कृत्वा सौवर्णीं सीतां पत्नीं यशस्विनीम्। ईजे बहुविधैर्यज्ञैः सह भ्रातृभिरच्युतः॥' इत्यादीनि,– तानि पूर्वाग्निष्वेवाग्निहोत्रादिपराणि नत्वपत्नीकस्याधानार्थानि क्रतुविधीनामाधानाप्रयोजकत्वात्। अपत्नीकस्याधानाप्रवृत्तिरिति मानवपरिशिष्टाच्च। 'सोमो न भवत्येव; 'अपत्नीकोऽप्यसोमपः ।' इति श्रुतेः। यत्तु– भरद्वाजपस्तम्बसूत्रम् 'दारकर्मणि यद्यशक्त आत्मार्थमन्याधेयम्' इति अस्यार्थः– 'पुनर्विवाहाशक्तौ यदग्न्याधेयं पूर्वं कृतमस्ति तदात्मार्थमेव न पत्नै दद्यात्' इति ब्राह्मण-भाष्या-परार्काशार्क-रामाण्डारादितत्त्वमप्येवम्।

त्रिकाण्डमण्डनस्तु पक्षद्वयमाह। अन्येऽप्यपत्नीकस्याधानमाहुस्तदाशयं न विद्मः वृद्धयाज्ञवल्क्यः– 'आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः । अनाहिताग्निरेकेन लौकिकेनापरो जनः॥' क्रतुः– 'एवंवृत्तां सवर्णॊ स्त्रीं द्विजातिः पूर्वमारिणीम्। दाहयेदग्निहोत्रेण यज्ञपात्रैश्र्च धर्मवित्॥' कारिकायाम्– 'पत्नीमपि दहेदेवं भर्तुः पूर्वे मृता यदि। अनग्निकां दहेदेवं कपालेन हविर्भुजा॥'

आशौचप्रकाशे क्रतुः– 'विधुरं विधवां चैव कपालस्याग्निना दहेत्। ब्रह्मचारी यती चैव दहेदुत्तपनाग्निना॥ तुषाग्निना च दग्धव्यः कन्यका बाल एव च। अग्निवर्णं कपालं तु कृत्वा तत्र विनिक्षिपेत्॥करीषादि ततो वह्निर्जातो यः स कपालजः॥' अनुपनीते यद्यपि जातारण्यग्निः कैश्र्चिदुक्तस्तथापि तस्य कलौ निषिद्धत्वोक्तेरयमेव ज्ञेयः। स्मृत्यन्तरे– 'गृहस्थो ब्रह्मचारी च विधुरो विधवाः स्त्रियः। औपासनश्र्चोत्तपनस्तुषाग्निस्तु कपालजः॥' उत्तपनस्तु – 'दर्भाग्रेऽग्निं तु प्रज्वाल्य पुनर्दर्भैस्तु संयुतः। पुनर्दर्भैस्तृतीयोऽग्निरेप उत्तपनः स्मृतः॥' यमः– 'यस्यानयति शूद्रोऽग्निं तृणकाष्ठहवींषिच। प्रेतत्वं च सदा तस्य स चाधर्मेण लिप्यते॥' देवलः– 'चण्डालाग्निरमेध्याग्निः सूतिकाग्निश्र्च कर्हिचित्। पतिताग्निश्र्चिताग्निश्च न शिष्टग्रहणोचितः॥' मनुः– 'दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत्। पश्र्चिमोत्तरपूर्वैस्तु यथासङ्ख्यं द्विजातयः॥' अत्र प्रातिलोम्येन क्रमः; 'पूर्वामुखस्तु नेतव्यो ब्राह्मणो बान्धवैर्गृहात्। उत्तराभिमुखो राजा वैश्यःपश्चान्मुखस्तथा॥ दक्षिणाभिमुखः शूद्रो निर्हर्तव्यः स्वबान्धवैः॥' इत्यादिपुराणादित्यपरार्कः। तेन त्रिंशच्छ्लोक्युक्तोऽनुलोमक्रमो हेयः। आश्र्वलायनः– 'ज्येष्ठप्रथमाः कनिष्ठजघन्या गच्छेयुः'।

आधानोत्तरं द्वितीयविवाहे कृते यजमानमरणे श्रौतस्मार्ताग्न्योः संसर्गः । बौधायनसूत्रे– 'अथ यद्याहिताग्निर्द्वे विन्देत प्राक्संयोगान्म्रियेतौपासनं परिस्तीर्याज्यं विलाप्य चतुर्गृहीतं गृहीत्वा समिद्धत्यग्नौ जुहोति सम्मितं सङ्कल्पेथामिति मिन्दाहुतीर्व्याहृतीश्र्च हुत्वाऽथैतमग्निमयं ते योनिर्ऋत्विय इति समिधि समारोप्य गार्हपत्ये समिधमभ्यादधाति भवतं नः समनसाविति गार्हपत्ये आज्यं विलाप्य चतुर्गृहीतं गार्हपत्ये जुहोत्यग्नावग्निश्र्चरति प्रविष्ट इत्यपरं चतुर्गृहीत्वा चित्तिः स्रुगिति सङ्ग्रहं जुहोत्यथ गार्हपत्ये स्रवाहुतीर्जुहोति ब्राह्मण एक होतेति दशभिरथ प्राचीनावीत्यन्वाहार्यपचने जुहोति ये समाना ये सजाता इति द्वाभ्यामथ तत्रैव स्रुवाहुतिं जुहोत्यग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहेत्यथ यज्ञोपवीती द्वादशगृहीतेन स्रुचं पूरयित्वा पुरुषसूक्तेनाहवनीये जुहोत्यथ स्रुवाहुतीर्जुहोत्यग्नये विविचये स्वाहाग्नये व्रतपतयेऽग्नये पवमानायाग्नये पावकायाग्नये शुचये स्वाहाग्नये पथिकृते स्वाहाग्नये तन्तुमतेऽग्नये वैश्र्वानरायेत्यथ चतुर्गृहीतं जुहोति मनोज्योतिरित्यत ऊर्ध्वे पैतृकं कर्म प्रतिपद्यते' इति।

1.अस्याग्रे– 'छन्दोगपरिशिष्टे– "अनयैवावृता नारी दग्धव्या या व्यवस्थिता। अग्निप्रदानमश्रोऽस्या न प्रयोज्य इति स्थितिः॥" इदं छन्दोगानामेव। तथा–"अग्निनैव दहेद्भार्यां स्वतन्त्रां पतिता न चेत्। तदुत्तरेण पात्राणि दाहयेत्पृथगन्तिके॥" इदमपि तेषामेव' इति विशेषो दृश्यते कचित्।

आहिताग्नौ विदेशमृते पथिकृतीष्टिर्मृताग्निहोत्रं तद्दाहः पात्रयोजनं च कल्पसूत्रादिभ्योऽस्मत्पितामहकृतपद्धतेश्र्च ज्ञेयमिति बहुवक्तव्येऽप्युपरम्यते। स्मार्ताग्नेस्तूक्तं मदनरत्ने छन्दोगपरिशिष्टे च– 'दुर्बलं स्नापयित्वा तु शुद्धचैलाभिसंवृतम्। दक्षिणाशिरसं भूमौ बर्हिष्मत्यां निवेशयेत्॥ घृतेनाभ्यक्तमाप्लाव्य शुद्धवस्त्रोपवीतिनम्। चन्दनोक्षितसर्वाङ्गं सुमनोभिर्विभूषयेत्॥ हिरण्यशकलान्न्यस्य क्षिप्त्वा छिद्रेषु सप्तसु। मुख्येष्वथापिधायैनं निर्हरेयुः सुतादयः॥ आमपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम्। एकोऽनुगच्छेत्तस्यार्धमर्धपथ्युत्सृजेद्भुवि । ऊर्ध्वमादहनं कार्यमासीनो दक्षिणामुखः। सव्यं जान्वाच्य शनकैः सतिलं पिण्डदानवत्॥ अथ पुत्रादिराप्लुत्य कुर्याद्दारुचयं महत्। तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे। आज्यपूर्णं स्रुवं दद्याद्दक्षिणाग्रां नसि स्रुचम्। पादयोरधरां प्राचीमरणीमुरसीतराम्। पार्श्र्वयोः शूर्पचमसौ सव्यदक्षिणयोः क्रमात्। सुसमे तु न्यसेन्युब्जमन्तरूर्वोरुलूखलम्॥ चात्रोविलीढमत्रैव अनग्नेरप्ययं विधिः। अपसव्येन कृत्वैतद्वाग्यतः पितृदिङ्मुखः। अथाग्निं सव्यमावृत्को दद्याद्दक्षिणतः शनैः॥ अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः। असौ स्वर्गाय लोकाय स्वाहेति परिकीर्तयेत्॥' तथा– 'एवमेवाहिताग्नेश्र्च पात्रन्यासादिकं भवेत्। कृष्णाजिनादिकं चात्र विशेषोध्वर्युचोदितः॥' तत्रैव–'अनयैवावृता नारी दग्धव्या या व्यवस्थिता। अग्निप्रदानमन्त्रोऽस्या न प्रयोज्य इति स्थितिः॥' –इदं छन्दोगानामेव। पात्रन्यासोक्तेरुत्तानदेहत्वं साग्निपरम्, निरग्निस्तु पुमानधोमुखः स्त्री तूत्ताना दाह्या, 'सगोत्रजैर्गृहीत्वा तु चितामारोप्यते शवः। अधोमुखो दक्षिणादिक्चरणस्तु पुमानिति। उत्तानदेहा नारी तु सपिण्डैरपि बन्धुभिः॥' इत्यादित्यपुराणादिति शुद्धितत्त्वहारलतादयः। उत्तरशिरस्त्वं सामगेतरपरम्। वाराहे त्वग्निदानेऽन्यो मन्त्रः– 'कृत्वा तु दुष्कृतं कर्म जानता वाऽप्यजानता। मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम्॥ धर्माधर्मसमायुक्तं लोभमोहसमावृतम्। दहेयं सर्वगात्राणि दिव्याल्ँ लोकान्स गच्छतु॥ ज्वलमानं महावह्निं शिरःस्थाने प्रदापयेत्। चतुर्वर्णेषु संस्थानमेवं भवति पुत्रके॥ '

अत्र क्रियानिबन्धे गारुडे षट्पिण्डदानमुक्तम्। 'मृतस्योत्क्रान्तिसमये षट् पिण्डान् क्रमशो ददेत्। मृतिस्थाने तथा द्वारि चत्वरे तार्क्ष्य कारणात्। विश्रामे काष्ठचयने तथा सञ्चयने च षट्॥' तथा–'आदौ देयास्तु षट् पिण्डा दश देया दशाहिकाः। स्थाने चार्धपथेऽतीते चितायां शवहस्तके॥श्मशानवासिभूतेभ्यः षष्ठं सञ्चयने तथा॥' ततः– 'त्वं भूतकृज्जगद्योने त्वं लोकपरिपालकः। उक्तः संहारकस्तस्मादेनं स्वर्गं मृतं नय॥ इत्यनिं दत्त्वा अस्मात्त्वमिति मन्त्रेणार्धदग्धे आज्याहुतिरुक्ता। आहिताग्नौ पराशरः– 'शम्यां शिविनिक्षिप्य अरणी मुष्कयोरपि। जुहूं च दक्षिणे हस्ते वामे तूपभृतं न्यसेत्॥ ओष्ठे तूलूखलं दद्यात्पृष्ठे च मुसलं न्यसेत्॥उरसि क्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे। श्रोत्रे चप्रोक्षणीं दद्यादाज्यस्थालीं च चक्षुषोः॥ कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत्। अग्निहोत्रोपकरणमशेषं तत्र निक्षिपेत्॥'

प्रचेताः–'स्नानं प्रेतस्य पुत्राद्यैर्वस्त्राद्यैः पूजनं ततः। नग्नदेहं दहेन्नैव किञ्चिद्देयं परित्यजेत्॥' यमः– ‘प्रेतं दहेच्छुभैर्गन्धैः स्त्रापितं स्रग्विभूषितम्।' आश्र्वलायनसूत्रे– 'संस्थिते प्रेतालङ्कारान् कुर्वन्ति केशश्मश्रुलोमनखानि वापयन्ति नलदेनानुलिम्पन्ति नलदमालां प्रतिमुञ्चन्ति' इति। माधवीये ब्राह्मे– 'दरिद्रोऽपि न दग्धव्यो नग्नः कस्याञ्चिदापदि।' तथा–'निःशेषस्तु न दग्धव्यः शेषं किञ्चित्त्यजेन्नरः।' दाहकालेऽग्निनाशे तु मदनरत्ने यज्ञपार्श्र्वः– 'यजमाने मृते क्वापि चितादौ वा प्रवेशिते। वर्षायभिहतेऽनौ तु कथं प्रेतविकल्पना॥ शेषन्दग्ध्वा प्रदग्धेषु निर्मन्थ्यैव तु कारयेत्॥' अथ पर्णशरादिदाहेनाग्निनाशे पश्र्चात्तदेहलाभे मदनरत्ने ब्राह्मे– 'अथ पर्णशरे दग्धे पात्रन्यासे कृते सति। गतेष्वग्निषु तदेहो यद्यर्ध्वं लभ्यते क्वचित्॥ तदार्धदग्धकाष्ठानि तानि निर्मन्थ्य तं दहेत्। यद्यर्घदग्धकाष्ठं तु तदीयं वै न लभ्यते॥ तदा तदस्थिखण्डं तु निक्षिप्तव्यं महाजले॥'

दम्पत्योरेकदा मृतौ विशेषमाहापस्तम्बः– 'तथैव प्रेते सहैव पितृमेधो द्विवचनलिङ्गान्मन्त्रान्सन्धारयन्ति।' पितृमेधः–दाहान्तं कर्म; 'दाहान्तमेकतन्त्रत्वम्' इति बौधायनोक्तेः।अस्थिसञ्चयनमप्येकम्। उदकपिण्डदानादि पृथगेव। सहगमनेऽप्येवम्। तदाह मदनरत्ने भाष्यार्थसङ्ग्रहकारः– 'एककालमृतौ भार्या भर्ता च यदि चेद्द्वयोः। तन्त्रेण दहनं कुर्यात्पिण्डश्राद्धं पृथक् पृथक्॥ एककाले मृतौ जायापती यदि तदा पितुः। विभज्याग्निं क्रियाङ्कुर्यादिति यत्तदसाम्प्रतम्॥ दाहान्तमेकतन्त्रत्वमिति याज्ञिकसम्मतम्॥ मृतं पतिमनुव्रज्य या नारी ज्वलनं गता। अस्थिसञ्चयनान्तोऽस्या भर्तुः संस्कार एव हि॥ कीकसानां तु संस्कारो न्यायसिद्धोऽपि यो मतः। एककाले मृतेऽप्येवं कीकसानां विधिःस्मृतः॥ नवश्राद्धं सपिण्डान्तं भिन्नकालमृतौ यथा॥' कपर्दिकारिकापि– 'मृते भर्तरि तद्दाहात् प्राक् पत्नी म्रियते यदि। पत्यां वा प्राक् प्रमीतायां दाहादर्वाक्पतिर्मृतः॥ तत्र तन्त्रेण दाहः स्यान्मन्त्रेषु द्वित्वमूह्यते॥ कीकसानां तु संस्कारः पृथगेव तयोर्भवेत्॥ एकाहमृत्यौ युगपन्नवश्राद्धादिकं तयोः। मृतं पतिमनुव्रज्य पत्नी चेदनलं गता॥ तत्रापि दाहस्तन्त्रेण पृथगस्थिक्रिया भवेत्॥' अस्थिसञ्चयनपृथक्त्वे विकल्पः। सहगमने सर्वत्र पाकैक्यमाह प्रचेताः– 'एकचित्यां समारूढौ म्रियेते दम्पती यदि। तन्त्रेण श्रपणं कुर्यापृथक्पिण्डं समाचरेत्॥'

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬