🕉️ 24 November 2026, Tuesday · 08:17:56 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 79/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

उदकदानं वसिष्ठः

अथोदकदानं वसिष्ठः–'शरीरमग्नौ संयोज्यानवेक्षमाणा अपोऽभ्यवयन्ति सव्योत्तराभ्यां पाणिभ्यामुदकक्रियां कुर्वन्त्ययुग्मम्।' आपस्तम्बः– 'मातुश्र्च योनिसम्बन्धेभ्यः पितुश्र्वासप्तमात्पुरुषाद्यावतां वा सम्बन्धो ज्ञायते तेषां प्रेतेषूदकक्रिया' इति। याज्ञवल्क्यः–'सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः। अपनः शोशुचदघमनेन पितृदिङ्मुखाः॥ सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः॥' सप्तमाद्दशमाद्वा दिवसादवगिति विज्ञानेश्र्वरः।

कातीयास्तु सप्तमाद्दशमाद्वा पुरुषादित्याहुः, 'सप्तमाद्दशमाद्वा पुरुषात्समानग्रामवासे यावत्सम्बन्धमनुस्मरेयुः' इति पारस्करोक्तेः। मत्रस्नानाङ्गमेवेति हेमाद्रिः। प्रचेताः– 'प्रेतस्य बान्धवा यथावृद्धमुदकमवतीर्य नोद्धर्षयेयुरुदकान्ते प्रसिञ्चेयुरपसव्ययज्ञोपवीतवाससो दक्षिणामुखा ब्राह्मणस्योदङ्मुखाः प्राङ्मुखाश्र्च राजन्यवैश्ययोः। 'स एव 'नदीकूलं ततो गत्वा' इत्युक्त्वा,– 'सचैलस्तु ततः स्त्रात्वा शुचिः प्रयतमानसः। पाषाणं तत आदाय विप्रे दद्याद्दशाञ्जलीन्॥ द्वादश क्षत्रिये दद्याद्वैश्ये पञ्चदश स्मृताः॥ त्रिंशच्छूद्राय दातव्यास्ततस्तु प्रविशेद्गृहम्॥ ततः स्रानं पुनः कार्ये गृहशौचं च कारयेत्॥'

प्रेतस्त्रानम्।—

प्रेतस्त्राने विशेषः शुद्धितत्त्वे आदिपुराणे– 'आदौ वस्त्रं च प्रक्षाल्य तेनैवाच्छादितैस्ततः। कर्तव्यं तैः सचैलं तु स्त्रानं सर्वमलापहम्॥' पूर्वपरिहितं वस्त्रं प्रेतस्त्रानम्। प्रक्षाल्य पुनः परिधाय स्नायादित्यर्थः। 'अप नः' इति मन्त्रेण वामहस्तानामिकया जलालोडनम् ; अवतरणे वृद्धपुरःसरत्वोक्तेः। 'यथाबालं पुरस्कृत्य' इति बौधायनीयं जलादुत्थानपरमिति हारलतादयः। आश्र्वलायनः– 'सव्यावृतो व्रजन्त्यनीक्षमाणा यत्रोदकमवहद्भवति तत्प्राप्य सकृदुन्मज्ज्यैकाञ्जलिमुत्सृज्य तस्य गोत्रं नाम गृहीत्वा' इति। प्रचेतसाऽन्वहमञ्जलित्रयमप्युक्तम्। तत्र 'त्रिःप्रसेकं कुर्युः प्रेतस्तृप्यतु' इति। तथा– 'दिने दिनेऽञ्जलीन् पूर्णान् प्रदद्यात्प्रेतकारणात्। तावद्वृद्धिश्र्च कर्तव्या यावत्पिण्डः समाप्यते॥ 'एकवृद्धिस्त्रिकवृद्धिर्वेत्यर्थः। मदनरत्ने भरद्वाजगृह्ये तु द्विकवृद्धिरप्युक्ता– 'आशौचान्ते प्रदद्यात्तु प्रेतपुत्रस्तिलाञ्जलीन्। प्रथमेऽह्नि सकृद्दद्यात्पिण्डयज्ञावृता दिवा॥ त्रींश्र्च दद्याद्वितीयेऽह्नि तृतीये पञ्च एव च। चतुर्थे सप्तसङ्ख्यास्तु पञ्चमे नव चोत्सृजेत्॥ षष्ठेऽह्निचैकादशकाः सप्तमे तु त्रयोदश। अष्टमे पञ्चदशका नवमे दश सप्त च॥ एकोनविंशतिं चाग्रे शताञ्जलिमतं स्मृतम्॥ केचिद्दशाञ्जलीन् प्रोचुः केचिदाहुः शताञ्जलीन्। पञ्चपञ्चाशतं चान्ये स्वशाखोक्तव्यवस्थया॥'

छन्दोगपरिशिष्टे– 'अथानवेक्षयन् पापः सर्वे चैव शवस्पृशः। गोत्रनामपदान्ते तुतर्पयामीत्यनन्तरम्॥ दक्षिणाग्रान्कुशान्कृत्वा सतिलं तु पृथक् पृथक्॥' विष्णुपुराणे–'सपिण्डीकरणं यावदृजुदर्भैः पितृक्रिया। सपिण्डीकरणादूर्ध्वं द्विगुणैर्विधिवद्भवेत्॥' रामायणे– 'इदं पुरुषशार्दूल विमलं दिव्यमक्षयम्। पितृलोकेषु पानीयं मद्दत्तमुपतिष्ठताम्॥ 'दानवाक्ये विकल्पः। याज्ञवल्क्यः– 'कामोदकं सखिप्रत्तास्वस्त्रीयश्र्वशुरर्त्विजाम्।' कामः= इच्छा। प्रेततृप्तीच्छायां देयमन्यथा नेत्यर्थः। शङ्खपारस्करौ– 'आचार्ये चैवं मातामहयोश्र्च स्त्रीणां चाप्रत्तानां कुर्वीरंस्ताश्र्च तेषाम्' इति। द्विवचनान्मातामह्या अपि। शङ्ख-लिखितौ– 'उदकक्रिया कामं श्र्वशुरमातुलयोः शिष्ये सहाध्यायिनि राजनि च' इति। वृद्धमनुः–'क्लीबाद्या नोदकं कुर्युः स्तेना व्रात्या विधर्मिणः। गर्भभर्तृद्रुहश्र्चैव सुराप्यश्र्चैव योषितः॥ ' याज्ञवल्क्यः – 'न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा।' षडशीतौ – 'स्वीयाचारादपि भ्रष्टाः पतिता ये च दूषिताः। न कुर्युरुदकं ते वै तेभ्योऽप्यन्ये न चैव हि॥' मदनरत्ने हारीतः– 'पतितानामवृद्धानां चरन्तीनां च कामतः। प्रत्तानां चैव कन्यानां निर्वर्त्या सलिलक्रिया॥' अपरार्के शङ्ख-लिखितौ– 'अपपात्रितस्य रिक्थपिण्डोदकानि व्यावर्तन्ते'। अपपात्रितः=कृतघटस्फोटः। तस्यापि सङ्ग्रहविधौ कृते आशौचोदकादि कुर्यादेवेत्याशौचप्रकाशः ॥

आशौचे नियमाः

अथाशौचे नियमाः। याज्ञवल्क्यः– ' इति संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः। विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः॥ आचम्याग्न्यादिसलिलं गोमयं गौरसर्षपान्। प्रविशेयुः समालभ्य कृत्वाऽश्मनि पदं शनैः॥ प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि। क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक् क्षितौ॥' इदं चाद्येऽह्नि। वसिष्ठः– 'अधःप्रस्तरे त्र्यहमनश्र्नन्त आसीरन् क्रीतोत्पन्नेन वा वर्तेरन्।' शुद्धितत्त्वे बैजवापः– शमीमालभन्ते शमीपापं शमयत्विति, अश्मानमश्मेव स्थिरो भूयासमिति, अग्निमग्निर्नः शर्म यच्छत्विति, ज्योतिरित्यन्तरा गामजमुपस्पृशन्तः क्रीत्वा लब्ध्वा वाऽन्यगेहादेकान्नमलवणमेकरात्रं दिवा भुञ्जीरंस्त्रि-रात्रं च कर्मोपरमणम्' क्रीताद्यशनमुपवासाशक्तस्य। आश्र्वलायनस्तु– 'नैतस्यां रात्र्यामन्नं पचेरन् क्रीतोत्पन्नेन वा वर्तेरंस्त्रिरात्रमक्षारलवणाशिनः स्युर्द्वादशरात्रं वा' इत्याह। अशक्तौ रत्नाकरे आपस्तम्बः– 'भार्याः परमगुरुसंस्थायां चाकालभोजनानि कुर्वीरन्' । यदा मृतिः, परदिने तावत्कालमित्यर्थः। बृहस्पतिः– 'अधःशय्यासना दीना मलिना भोगवर्जिताः। अक्षारलवणान्नाः स्युर्लब्धकीताशनास्तथा॥ भोगः= अभ्यङ्गताम्बूलादिः; क्षाराः= परिभाषायामुक्ताः। यत्तु– मार्कण्डेयपुराणे 'तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनं च यत्। तेन चाप्यायते जन्तुर्यच्चाश्रन्ति स्वबान्धवाः॥ प्रथमेऽह्नि तृतीये च सप्तमे नवमे तथा। वस्त्रत्यागं बहिः स्नानं कृत्वा दद्यात्तिलोदकम्॥” इति, –तदन्त्यदिनपरम्; 'आशौचान्ते तिलकल्कैः स्नाता गृहम्प्रविशेयुः' इति विष्णूक्तेः। विष्णुपुराणे त्वस्थिसञ्चयनोर्ध्वे भोगोऽप्युक्तः–‘शय्यासनोपभोगस्तु सपिण्डानामपीष्यते। अस्थिसञ्चयनादूर्ध्वं संयोगस्तु न योषिताम्॥'

भारते– 'तिलान् ददतु पानीयं दीपं ददतु जाग्रतु। ज्ञातिभिः सह भोक्तव्यमेतत्प्रेतेषु दुर्लभम्॥' मनुः– 'मांसाशनं च नाश्र्नीयुः शयीरंश्र्च पृथक् क्षितौ।' देवजानीये कारिकायाम्– 'लवणक्षीरमाषान्नापूपमांसानि पायसम्। वर्जयेदाहृतान्नेषु बालवृद्धातुरैर्विना॥ उपवासो गुरौ प्रेते पत्नयाः पुत्रस्य वा भवेत्॥' मरीचिः– 'प्रथमेऽह्नि तृतीये च सप्तमे दशमे तथा। ज्ञातिभिः सह भोक्तव्यमेतत्प्रेतेषु दुर्लभम्॥' भोजनं च दिवैव; 'दिवा चैव तु भोक्तव्यममांसं मनुजर्षभ।' इति विष्णुपुराणात् , 'क्रीत्वा लब्ध्वा वा दिवान्नमश्र्नीयुः' इति पारस्करोक्तेश्र्च । मदनरत्ने हारीतः– 'पाणिषु मृन्मयेषु पर्णपुटकेषु वाश्र्नीरन्'। देवजानीये ब्राह्मे – 'आशौचमध्ये यत्नेन भोजयेच्च स्वगोत्रजान्।' अन्त्यदिने तु मदनरत्ने ब्राह्मे–'यस्य यस्य तु वर्णस्य यद्यत्स्यात्पश्र्चिमं त्वहः। स तत्र गृहशुद्धिं च वस्त्रशुद्धिं करोत्यपि॥' अन्त्यकर्मकालीनवस्त्रयोस्तु तत्रैवोक्तम्– 'ग्रामाद्वहिस्ततो गत्वा प्रेतस्पृष्टे तु वाससी। अन्त्यानामाश्रितानां च त्यक्त्वा स्नानं करोत्यथ॥' इति। शङ्खः– 'दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म च। प्रेतपिण्डक्रियावर्ज्यमाशौचे विनिवर्तते॥' काठकगृह्ये– 'यत्र प्राणोत्क्रमस्तत्रान्वहं महाबलिं कुर्यात्' इति। पारस्करः– 'तदानीमेव वस्त्रं तण्डुलं दीपं कांस्यभाजनं प्रेताय दद्यात्'। आशौचप्रकाशे भरद्वाजः– 'वासोऽन्नं च जलं कुम्भं प्रदीपं कांस्यभाजनम्।नग्नप्रच्छादने श्राद्धे ब्राह्मणाय निवेदयेत्॥' भृगुः– 'तिलोदकं तथा पिण्डान् नग्नप्रच्छादनादिकम्। रात्रौ न कुर्यात् सन्ध्यायां यदि कुर्यान्निरर्थकम्॥'

प्रेतपिण्डः

अथ प्रेतपिण्डः। यद्यपि हेमाद्रौ पारस्करेण– 'ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादश स्मृताः। वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत्प्रकीर्तिताः॥' इत्युक्तं, तथापि– 'प्रेतेभ्यः सर्ववर्णेभ्यः पिण्डान्दद्याद्दशैव तु।' इति तेनैवोक्तेः सर्वेषां दशैव ज्ञेयाः। मदनरत्नेऽप्येवम्। तथा च हेमाद्रौ ब्राह्म-पाद्मयोः– 'जात्युक्ताशौचतुल्यांस्तु वर्णानां क्वचिदेव हि। देशधर्मान्पुरस्कृत्य प्रेतपिण्डान्वपन्त्यपि॥' इत्युक्त्वा विप्रान्येषु दशमपिण्डोत्कर्ष उक्तः। ‘देयस्तु दशमः पिण्डो राज्ञां वै द्वादशेऽहनि। वैश्यानां वै पञ्चदशे देयस्तु दशमस्तथा॥ शूद्रस्य दशमः पिण्डो मासे पूर्णेऽह्नि दीयते॥' इति। युद्धमृतादेः सद्यःशौचे त्र्यहादौ च तेनैवोक्तम्- 'सद्यःशौचे प्रदातव्याः सर्वेऽपि युगपत्तथा। त्र्यहाशौचे प्रदातव्यः प्रथमेऽह्न्येक एव हि॥ द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि॥' त्र्यहे प्रकारान्तरं प्रागुक्तम्। शातातपः– 'आशौचस्य च ह्रासेऽपि पिण्डान्दद्यादशैव तु।' तत्रैकपात्रे सकृत्पक्त्वा दश पिण्डान् दद्यात् ; 'उत्तरीयशिलापात्रकर्तृद्रव्यविपर्यये। पूर्वदत्ताञ्जलीन्दद्यात् पूर्वपिण्डांस्तथैव च॥' इति गृह्यकारिकायां पात्रविपर्यये दोषोक्तेः। शिलाविपर्यये घटस्फोटादेर्नावृत्तिः; अक्षाभ्यञ्जनादिपदकर्मणः एकहायनीनयन-वदप्रयोजकत्वात्। तद्वच्चात्र लौकिकग्रहणम्। केचित्तु– 'नवान्यादाय भाण्डानि आरुकं चरुकं तथा। इति प्रचेतसोक्तेः पात्रानेकत्वमाहुः। क्रियाकर्तुर्नाशेऽन्येन शेषः समापनीयः; 'एवं क्रियाप्रवृत्तानां यदि कश्चिद्वपद्यते। तद्वन्धुना क्रिया कार्या सर्वैर्वा सहकारिभिः॥' इति शुद्धितत्त्वे बृहस्पतिस्मृतेः । पत्न्याः कर्तृत्वे रजोदर्शने च तदन्ते कुर्यात् ; 'शावाद्द्विगुणमार्तवम्' इत्युक्तेः। आशौचान्ते आर्तवे कर्तुरस्वास्थ्ये वाऽन्येन क्रिया सर्वाऽऽवर्तनीया; कर्तुर्विपर्ययात्कालातिक्रमयोगाच्च।

वाराहे– 'स्थण्डिले प्रेतभागं तु दद्यात्पूर्वाह्ण एव तु। कृत्वा तु पिण्डसङ्कल्पं नामगोत्रेण सुन्दरि॥' मरीचिः– 'प्रेतपिण्डं बहिर्दद्याद्दर्भमन्त्रविवर्जितम्। प्रागुदीच्यां चरुं कृत्वा स्नातः प्रयतमानसः॥' दर्भवर्जनमनुपनीतपरम्; 'असंस्कृतानां भूमौ पिण्डं दद्यात्संस्कृतानां तु कुशेषु' इति प्रचेतसोक्तेः। मिताक्षरायां स्मृत्यन्तरे– 'भूमौ माल्यं पिण्डं पानीयमुपले वा दद्युः' । हारीतः– 'अक्लृप्तचूडा ये बाला ये च गर्भाद्विनिःसृताः। मृता अनुपनीता ये अनूढा अपि कन्यकाः॥ ये मृताश्चाप्यसंस्कारास्तेभ्यो भूमौ प्रदीयते।' पैठीनसिः– 'शालिनां सक्तुभिर्वापि पिण्याकैर्वापि निर्वपेत्॥' शुनःपुच्छः– 'फलमूलैश्च पयसा शाकेन च गुडेन च। तिलमिश्रं तु दर्भेषु पिण्डं दक्षिणतो हरेत्॥ तूष्णीं प्रसेकं पुष्पं च धूपं दीपं तथैव च। शालिनां सक्तुभिर्वापि शाकैर्वाप्यथ निर्वपेत्॥ प्रथमेऽहनि यद्द्रव्यं तदेव स्याद्दशाहिकम्।' मदनरत्ने मात्स्ये– 'तैजसं मृन्मयं वाथ पात्रं संशोध्य यत्नतः। लौकिकाग्नावधिश्रित्य पचेदन्नं घृतप्लुतम्॥ स्नात्वाऽथ तिलसम्मिश्र प्रदद्याद्दर्भसंस्तरे॥'

शुद्धितत्त्वे देवजानीये च ब्राह्मे– 'प्रथमेऽहनि यो दद्यात्प्रेतायान्नं समाहितः। अन्नं नवसु चान्येषु स एव प्रददात्यपि॥ मृन्मयं भाण्डमादाय नवं स्नातः सुसंयतः। तण्डुलप्रसृतिं तत्र त्रिः प्रक्षाल्य पचेत्स्वयम्॥सपवित्रैस्तिलैर्मिश्रं कृमिकेशविवर्जितम्। द्वारोपान्ते ततः क्षिप्त्वा शुद्धां वा गौरमृत्तिकाम्॥ भूपृष्ठे संस्तरे दर्भान् याम्याग्रान्देशसम्भवान्। ततोऽवनेजनं दद्यात् संस्मरन् गोत्रनामनी॥ तिलसर्पिर्मधुक्षीरैः संसिक्तं तप्तमेव हि। दद्यात्प्रेताय पिण्डं तु दक्षिणाभिमुखः स्थितः। अर्घ्यैः पुष्पैस्तथा धूपैर्दीपस्तोयैश्च शीतलैः। ऊर्णातन्तुमयैः शुद्धैर्वासोभिः पिण्डमर्चयेत्॥ दिवसे दिवसे देयः पिण्ड एवं क्रमेण तु।सद्यःशौचे प्रदातव्याः सर्वेऽपि युगपत्तथा॥ त्र्यहाशौचेऽपि दातव्यास्त्रयः पिण्डाः समाहितैः। द्वितीये चतुरो दद्यादस्थिसञ्चयनं तथा॥ त्रींस्तु दद्यात्तृतीयेऽह्नि वस्त्रादि क्षालयेत्ततः। दशाहेऽपि च दातव्यः प्रथमे त्वेक एव हि॥ एकस्तोयाञ्जलिस्त्वेवं पात्रमेकं च दीयते। द्वितीये द्वौ तृतीये त्रीन्' इत्याद्युक्त्वा- 'एवं स्युः पञ्चपञ्चाशत्तोयस्याञ्जलयः क्रमात्। तोयपात्राणि तावन्ति संयुक्तानि तिलादिभिः॥' इति। पात्रं=कुम्भः। अत्राहःपदमहोरात्रपरम्। तेन रात्रावपि देय इति गौडाः। दिवसपदाद्रात्रौ नेति मैथिलाः। स एवेत्युक्तेः सपिण्डेन दशपिण्डे प्रक्रान्ते पुत्रागमेऽपि स न दद्यात्। 'असगोत्रः सगोत्रो वा' इति प्रागुक्तेः। दाहकर्तैव दशाहं कुर्यादिति मिताक्षरायाम्। शुद्धितत्त्वे वायवीयेऽपि– 'असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान्। यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात् स एव हि॥' इति। तत्रैव- 'पूरकेण तु पिण्डेन देहो निष्पद्यते यतः। कृतस्य करणायोगात् पुनर्नावर्तयेत् क्रियाम्॥ शुद्धिप्रकाशे वायवीयेऽपि– 'निवर्तयति यो मोहात् क्रियामन्यनिवर्तिताम्। विधिघ्नस्तेन भवति पितृहा चोपजायते॥तस्मात् प्रेतक्रिया येन केनापि च कृता यदि। न तां निवर्तयेत्प्राज्ञः सतां धर्ममनुस्मरन्॥' इति। आदिपुराणे– 'पितृशब्दं स्वधां चैव न प्रयुञ्जीत कर्हिचित्। अनुशब्दं तथा चेह प्रयत्नेन विवर्जयेत्॥ उपतिष्ठतामयं पिण्डः प्रेतायेति समुच्चरेत्॥' क्रियानिबन्धे व्यासः– 'प्रेताय पिण्डं दत्त्वा तु ततोऽश्नीयाद्दिनात्यये॥' भविष्ये– 'ओदनामिषसक्तूनां शाकमूलफलादिषु। प्रथमेऽहनि यद्दद्यात्तद्दद्यादुत्तरेऽहनि॥ गृहद्वारि श्मशाने वा तीर्थे देवगृहेऽपि वा। यत्राद्ये दीयते पिण्डस्तत्र सर्वं समाचरेत्॥'

ब्राह्मे– 'शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा। द्वितीयेन तु कर्णाक्षिनासिकाश्च समासतः॥ गलांसभुजबक्षांसि तृतीयेन यथाक्रमम्। चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि च॥ जानू जङ्घे तथा पादौ पञ्चमेन तु सर्वदा। सर्वमर्माणि षष्ठेन सप्तमेन तु नाडयः। दन्तलोमान्यष्टमेन वीर्यं तु नवमेन च। दशमेन तु पूर्णत्वं तृप्तता क्षुद्विपर्ययः॥' इति। याज्ञवल्क्येन तु– 'पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम्।' इत्युक्तम्। अत्र फलतारतम्यं ज्ञेयमिति विज्ञानेश्वरः। तेन त्र्यहाशौचपरत्वं देवयाज्ञिकोक्तं चिन्त्यम्; 'आशौचस्य च ह्रासेऽपि पिण्डान्दद्याद्दशैव तु।' इति वचनाच्च। दिनत्रयावश्यकत्वार्थमिति हारलतादयः। शातातपः– 'जलमेकाहमाकाशे स्थाप्यं क्षीरं च मृन्मये।' पारस्करः– 'मृन्मये तां रात्रिं क्षीरोदके विहायसि निदध्युः, प्रेतात्र स्नाहीत्युदकं, पिब चेदमिति क्षीरम्।' -इदं रात्रावेवेति गौडाः । गारुडे तु– 'अपक्वे मृन्मये पात्रे दुग्धं दद्याद्दिनत्रयम्।' इत्युक्तम्। हेमाद्रौ पाद्मे तु दशाहमुक्तम्- 'तस्मान्निधेयमाकाशे दशरात्रं पयो जलम्। सर्वतापोपशान्त्यर्थमध्वश्रमविनाशनम्॥' देवजानीये कारिकायाम्– 'तत्र प्रेतोपकृतये दशरात्रमखण्डितम्। कुर्यात्प्रदीपं तैलेन वारिपात्रं च मार्तिकम्। भोज्याद्भोजनकाले तु भक्तमुष्टिं च निर्वपेत्॥ नामगोत्रेण सम्बुद्ध्या धरित्र्यां पितृयज्ञवत्॥ शातातपः– 'भूलोकात्प्रेतलोकं तु गन्तुं श्राद्धं समाचरेत्। तत्पाथेयं हि भवति मृतस्य मनुजस्य तु॥'

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬