निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ दशाहमध्ये दर्शपाते निर्णयः। भविष्ये– 'प्रवृत्ताशौचतन्त्रस्तु यदि दर्शं प्रपद्यते। समाप्य चोदकं पिण्डान् स्नानमात्रं समाचरेत्॥' ऋष्यशृङ्गः– 'आशौचमन्तरा दर्शो यदि स्यात्सर्ववर्णिनाम्। समाप्तिं प्रेततन्त्रस्य कुर्यादित्याह गौतमः॥' पैठीनसिः– 'आद्येन्दावेव कर्तव्या प्रेतपिण्डोदकक्रिया। द्विरैन्दवे तु कुर्वाणः पुनः शावं समश्नुते॥' मातापित्रोस्तु श्लोकगौतमः– ' अन्तर्दशाहे दर्शश्चेत्तत्र सर्वं समापयेत्। पित्रोस्तु यावदाशौचं दद्यात्पिण्डान् जलाञ्जलीन्॥ -इदमपि त्र्यहमध्ये दर्शपाते। तदूर्ध्वं दर्शे तु पित्रोरपि तन्त्रं समाप्यमेव; 'पित्रोराशौचमध्ये तु यदि दर्शः समापतेत्। तावदेवोत्तरं तन्त्रं पर्यवस्येत् त्र्यहात्परम्॥' इति गालवोक्तेः। अन्येषां तु त्र्यहमध्येऽपि समाप्तिरिति पराशरमाधवीये निर्णयामृते चोक्तम्। कालादर्शेऽपि– 'दर्शो दशाहमध्ये स्यादूर्ध्वं तन्त्रं समापयेत्। त्रिरात्रादुत्तरं पित्रोर्मृताविति विनिश्चयः॥' मदनपारिजाते तु गालवीयमापदनौरसपुत्रादिविषयम्। 'त्र्यहोर्घ्वमपि पित्रोर्न तत्रसमाप्तिः' इत्युक्तम्। मदनरत्नेऽप्येवम्। मम तु देशाचाराद्व्यवस्थेति प्रतिभाति।
अथास्थिसञ्चयः। तत्राश्वलायनेन च कृष्णपक्षे एकादशीत्रयोदशीदर्शेषु आषाढाफल्गुनीप्रोष्ठपदाभिन्नर्क्षे उक्तम्, तदाशौचमध्येऽसम्भवे तदूर्ध्वे च प्रागब्दात्करणे ज्ञेयम्। आशौचमध्ये तु मदनरत्ने संवर्तः– प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा। अस्थिसञ्चयनं कार्यं दिने तद्गोत्रजैः सह॥' छन्दोगपरिशिष्टे तु– 'अपरेद्युस्तृतीये वा अस्थिसञ्चयनं भवेत्।' इति द्वितीयेऽप्युक्तम्। विष्णु-कात्यायनौ– 'सञ्चयनं चतुर्थ्याम्' इति। माधवीये यमः– 'भौमार्कमन्दवारेषु तिथियुग्मे विवर्जयेत्। वर्जयेदेकपादर्क्षे द्विपादर्क्षेऽस्थिसञ्चयम्॥ प्रदातृजन्मनक्षत्रे त्रिपाद विशेषतः।' ब्राह्मे– 'चतुर्थे ब्राह्मणानां तु पञ्चमेऽहनि भूभृताम्। नवमे वैश्यजातीनां शूद्राणां दशमात्परम्॥' दशमेऽहनीति वा पाठः। शौनकः– 'पालाशेष्वस्थिदाहे च सद्यःसञ्चयनं भवेत्॥' काम्यमरणे तु– 'तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयः' इत्युक्तम्। अङ्गिराः– 'प्रेतीभूतं तथोद्दिश्य यः शुचिर्न करोति चेत्। देवतानां तु यजनं तं शपन्त्यथ देवताः॥' तद्विधिः स्वस्वसूत्रे भट्टकृतौ च ज्ञेयः।
हेमाद्रौ नागरखण्डे– 'त्रीणि सञ्चयनस्यार्थे तानि वै शृणु साम्प्रतम्। यत्र स्थाने भवेन्मृत्युस्तत्र श्राद्धं प्रकल्पयेत्॥ एकोद्दिष्टं ततो मार्गे विश्रामो यत्र कारितः॥ ततः सञ्चयनस्यार्थे तृतीयं श्राद्धमिष्यते॥' अपरार्के मदनरत्ने च ब्राह्मे– 'सद्यःशौचे तथैकाहे सद्यःसञ्चयनं भवेत्। त्र्यहाशौचे तृतीयेऽह्नि कर्तव्यस्त्वस्थिसञ्चयः॥' तत्रैव– ‘श्मशानदेवतायागं चतुर्थे दिवसे चरेत्। मृन्मयेषु च भाण्डेषु कुम्भेषु रुचकेषु वा॥ सुपक्वैर्भक्ष्यभोज्यैश्च पायसैः पानकैस्तथा। फलैर्मूलैर्वनोत्थैश्च पूज्याः क्रव्याददेवताः॥ धूपो दीपस्तथा माल्यमर्ध्यं देयं त्वरान्वितैः। तत्र पात्राणि पूर्णानि श्मशानाग्नेः समन्ततः॥ निवेदयद्भिर्वक्तव्यं तैः सर्वैरनहङ्कृतैः। नमः क्रव्यादमुख्येभ्यो देवेभ्य इति सर्वदा॥ येऽत्र श्मशाने देवाः स्युर्भगवन्तः सनातनाः। तेऽस्मत्सकाशाद्गृह्णन्तु बलिमष्टाङ्गमक्षयम्॥ प्रेतस्यास्य शुभान् लोकान् प्रयच्छन्तु च शाश्वतान्। अस्माकमायुरारोग्यं सुखं च ददतां चिरम्॥ एवं कृत्वा बलीन्सर्वान् क्षीरेणाभ्युक्ष्य वाग्यतैः। एवं दत्वा बलिं चैव दद्यात्पिण्डत्रयं बुधः॥ एकं श्मशानवासिभ्यः प्रेतायैव तु मध्यमम्। तृतीयं तत्सखिभ्यश्च दक्षिणासंस्थमादरात्॥ ततो यज्ञियवृक्षोत्थां शाखामादाय वाग्यतः। प्रेतस्यास्थीनि गृह्णाति प्रधानाङ्गोद्भवानि च॥ शिरसो वक्षसः पाण्योः पार्श्वाभ्यां चैव पादतः। पञ्चगव्येन संस्नाप्य क्षौमवस्त्रेण वेष्ट्य च॥ प्रक्षिप्य मृन्मये भाण्डे नवे साच्छादने शुभे॥ अरण्ये वृक्षमूले वा शुद्धे संस्थापयत्यपि। गृहीत्वाऽस्थीनि तद्भस्म नीत्वा तोये विनिक्षिपेत्॥ ततः सम्मार्जनं भूमेः कर्तव्यं गोमयाम्बुभिः। पूजां च पुष्पधूपाद्यैर्बलिभिः पूर्ववत्क्रमात्॥' इति॥
अथ तीर्थेऽस्थिक्षेपविधिः। तत्रैव– 'तत्स्थानाच्छनकैर्नीत्वा कदाचिज्जाह्नवीजले। कश्चित्क्षिपति सत्पुत्रो दौहित्रो वा सहोदरः॥ मातृकुलं पितृकुलं वर्जयित्वा नराधमः। अस्थीन्यन्यकुलस्थस्य नीत्वा चान्द्रायणं चरेत्॥ तत्रैव ब्रह्माण्डपुराणे– 'अस्थीनि मातापितृपूर्वजानां नयन्ति गङ्गामपि ये कथञ्चित्। सद्वान्धवस्यापि दयाभिभूतास्तेषां तु तीर्थानि फलप्रदानि॥ स्नात्वा ततः पञ्चगव्येन सिक्त्वा हिरण्यमध्वाज्यतिलैश्च योज्य। ततस्तु मृत्पिण्डपुटे निधाय पश्यन् दिशं प्रेतगणोपरूढाम्॥ नमोऽस्तु धर्माय वदेत्प्रविश्य जलं स मे प्रीत इति क्षिपेच्च । उत्थाय भास्वन्तमवेक्ष्य सूर्यं स दक्षिणां विप्रमुखाय दद्यात्॥ एवं कृते प्रेतपुरःस्थितस्य स्वर्गे गतिः स्यात्तु महेन्द्रतुल्या॥' यमः– 'गङ्गातोयेषु यस्यास्थि क्षिप्यते शुभकर्मणः। न तस्य पुनरावृत्तिर्ब्रह्मलोका-त्सनातनात्॥' तथा– 'अस्तं गते गुरौ शुक्रे तथा मासे मलिम्लुचे। गङ्गायामस्थिनिक्षेपं न कुर्यादिति गौतमः॥' दशाहान्तर्न दोषः; 'दशाहाभ्यन्तरे यस्य गङ्गातोयेऽस्थि मज्जति। गङ्गायां मरणे यादृक् तादृक् फलमवाप्नुयात्॥' इति मदनरत्ने वृद्धमनुक्तेः।
शौनकः– 'शौनकोऽहं प्रवक्ष्यामि अस्थिक्षेपविधिं क्रमात्। आदौ ग्रामाद्बहिर्गत्वा स्नानं कुर्यात्सचैलकम्॥ प्रोक्षयेत्पञ्चगव्येन भुवं मन्त्रैर्विचक्षणः।' गायत्र्याद्यैः पञ्चगव्यमन्त्रैर्निखातास्थिभूमिं प्रोक्षेदित्यर्थः। 'उपसर्पादिभिर्मन्त्रैः प्रार्थनं खननं तथा। मृत्तिकोद्धरणं चास्थ्नां ग्रहणं च यथाक्रमम्॥' उपसर्पेति चतुर्भिर्मन्त्रैः क्रमेण प्रार्थनादि ज्ञेयम्। 'स्नात्वाऽस्थिशुद्धिं कुर्वीत एतोन्विन्द्रेति सूक्ततः। स्पृष्ट्वा स्पृष्ट्वा ततः स्नानं पञ्चगव्येन शुध्यति॥ दश स्नानानि कुर्वीत तत्तन्मन्त्रैर्विचक्षणः। गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। भस्म मृन्मधु वारीणि मन्त्रतस्तानि वै दश॥ कुशैः सम्मार्जयेदस्थीन्यतोदेवेति मन्त्रतः। एतोन्विन्द्रं शुचीवेति नतमंह इतीति च॥ पावमानीर्ममाग्ने च रुद्रसूक्तं यथाक्रमम्॥' एतैः कुशैर्मार्जनम्। 'हेमश्राद्धं ततः कुर्यात्पितृृनुद्दिश्य यत्नतः। पिण्डदानं प्रकुर्वीत ततश्च तिलतर्पणम्॥' -अस्थिक्षेपाङ्गं चेदम्। 'अजिनं कम्बला दर्भा गोकेशाः शाण एव च। भूर्जपत्रं ताडपत्रं सप्तधा वेष्टनं स्मृतम्॥ हैमं च मौक्तिकं रौप्यं प्रवालं नीलकं तथा। निक्षिपेदस्थिमध्ये तु शुद्धिर्भवति नान्यथा॥ ततो होमं प्रकुर्वीत तिलाज्येन विचक्षणः। उदीरतेति सूक्तेन हुनेदष्टोत्तरं शतम्॥ ततो गत्वा क्षिपेत्तीर्थे स्पर्शदोषो न विद्यते। मूत्रं पुरीषाचमनं कुर्वन्नास्थीनि धारयेत्॥' अत्र दशदानं वैतरणीऋणमोक्षपापधेनुदानमुक्तम्। दिवोदासीये काशीखण्डे– 'धनञ्जयोऽपि धर्मात्मा मातृभक्तिपरायणः। आदायास्थीन्यथो मातुर्गङ्गामार्गस्थितोऽभवत्॥ पञ्चगव्येन संस्नाप्य तथा पञ्चामृतेन वै। यक्षकर्दमलेपेन लिप्त्वा पुष्पैः प्रपूज्य च। आवेष्ट्य तत्र वस्त्रेण ततः पट्टाम्बरेण च। ततः सुरसवस्त्रेण ततो माञ्जिष्ठवाससा॥ नेपालकम्बलेनाथ मृदा चाथ विशुद्धया। ताम्रसम्पुटके कृत्वा मातुरङ्गान्यथो वहत्॥' व्यासः– 'पट्टवस्त्रं च कौशेयं माञ्जिष्ठं वेतवस्त्रकम्। कम्बलं शाणपट्टं च अजिनं च तथोत्तरम्॥ एषां विकल्पः। अन्यश्चात्र विशेषस्त्रिस्थलीसेतौ दिवोदासीये च ज्ञेयः। सञ्चयनोत्तरं श्राद्धमाहाश्वलायनः– 'श्राद्धमस्मै दद्युः' इति। स्मृत्यर्थसारे– 'सञ्चयने कृते मनुष्यलोकात्प्रेतलोकं गच्छतः पाथेयश्राद्धमामेन कार्यमिति। अनुपनीतस्य न सञ्चयनम्'।
नवश्राद्धविधिः।—
अथ नवश्राद्धम्। पृथ्वीचन्द्रोदयेऽङ्गिराः– 'प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमे तथा। नवमैकादशे चैव तन्नवश्राद्धमुच्यते॥' शिवस्वामी– 'नवश्राद्धानि पञ्चाहुराश्वलायनशाखिनः। आपस्तम्बाः षडित्याहुर्विभाषा त्वितरेषु हि॥' पञ्च एकादशाहिकं विना; 'मरणाद्विषमेषु दिनेष्वेकैकं नवश्राद्धं कुर्यादानवमात्। यदि नवमं विच्छिद्येतैकादशे तत्कुर्यात्।' इति मदनरत्ने बौधायनोक्तेः। भविष्ये–'नव सप्त विशां राज्ञां नवश्राद्धान्यनुक्रमात्। आद्यन्तयोर्वर्णयोस्तु षडित्याहुर्महर्षयः॥' हेमाद्रौ वृद्धवसिष्ठः– 'अलब्ध्वा तु नवश्राद्धं प्रेतत्वान्नैव मुच्यते। अर्वाक् तु द्वादशाहस्य लब्ध्वा तरति दुष्कृतम्॥' अतः षडेव। एतान्येव विषमश्राद्धानीत्युच्यन्ते। नागरखण्डे तु– ‘पञ्चमे सप्तमे तद्वदष्टमे नवमे तथा। दशमैकादशे चैव नवश्राद्धानि तानि च॥' इत्युक्तम्। कात्यायनस्तु– 'चतुर्थे पञ्चमे चैव नवमैकादशे तथा। यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते॥' प्रथमे सप्तमे चैवेत्याद्यपादे व्यासपाठः। बह्वृचानां तु– 'नवश्राद्धं दशाहानि नवमिश्रं तु षड्ऋतून्।' इत्युक्तं नारायणवृत्तौ। दीपिकायाम्– 'अथ तनुयादाद्ये चतुर्थे दिने श्राद्धं पञ्चमसप्तमाष्टनवदिशुद्रेषु युग्मद्विजैः'। 'प्रथमेऽह्नि तृतीयेऽह्नि पञ्चसप्तनवस्वपि। द्वौ द्वौ पिण्डौ प्रदातव्यौ शेषेष्वेकं तु विन्यसेत्॥' एको विषमश्राद्धेऽवयवपिण्डश्चैक इति द्वावित्यर्थः। -अत्र शाखाभेदाद्व्यवस्था।
अपरार्के भविष्ये– 'नवश्राद्धं त्रिपक्षं च षण्मासं मासिकानि च। न करोति सुतो यस्तु तस्याधः पितरो गताः॥' वाराहे– 'गतोऽसि दिव्यलोकं त्वं कृतान्तविहितात्पथः। मनसा वायुभूतेन विप्र त्वाऽहं नियोजये॥ पूजयिष्यामि भोगैस्त्वामेवं विप्रं निमन्त्रयेत्॥' आवाहनेऽपि तत्रैव– 'इह लोकं परित्यज्य गतोऽसि परमां गतिम्। मनसा वायुभूतेन विप्रे त्वाऽहं नियोजये॥' इति। तत्रैव बह्वृचपरिशिष्टे– 'अनूदकमधूपं च गन्धमाल्यविवर्जितम्। नवश्राद्धममन्त्रं च पिण्डोदकविवर्जितम्॥' उदकम्=अर्घ्यः, पिण्डोदकं='शुन्धन्तां पितरः' इत्यवनेजनादि। ‘एकोद्दिष्टेषु सर्वेषु न स्वधा नाभिरम्यताम्।नाग्नौकरणमन्त्रश्च एकं वाऽथ तिलोदकम्॥ अनपत्येषु सर्वेषु न स्वधा नाभिरम्यताम्। स्वस्त्यस्तु विसृजेदेवं सकृत्प्रणववर्जितम्॥ एकोद्दिष्टस्य पिण्डे तु अत्रशब्दो न विद्यते। पितृशब्दं न कुर्वीत पितृहा चोपजायते॥' सपिण्डनात्प्रागिति हेमाद्रिः। तेन 'न च स्वधां प्रयुञ्जीत प्रेतश्राद्धे दशाहिके' इति ऋष्यशृङ्गोक्तौ दशाहिकोत्तरकादशाहे स्वधाप्रयोग एवेति हारलता परास्ता।
रत्नावल्याम्– 'आशिषो द्विगुणा दर्भा जयाशीः स्वस्तिवाचनम्। पितृशब्दः स्वसम्बद्धः शर्मशब्दस्तथैव च॥ पात्रालम्भोऽवगाहश्च उल्मुकोल्लेखनादिकम्। तृप्तिप्रश्नश्च विकिरः शेषप्रश्नस्तथैव च॥ प्रदक्षिणा विसर्गश्च सीमान्तगमनं तथा। अष्टादश पदार्थाश्च प्रेतश्राद्धे विवर्जयेत्॥' अत्र स्वधा-पितृ-नमः शब्दानां तिलोऽसीतिमन्त्रे प्रेतशब्दोहेन तूष्णीं वा तिलावपनम्। तूष्णीमर्घ्यदानम्। अमुष्मै स्वाहेति प्रेतनाम्ना पाणिहोमः। नाम्ना एकः पिण्डः। निनयनमन्त्रे ऊहः। अनुमन्त्रणादि त्वमन्त्रकम्। अभिरम्यतामिति विसर्जनम्। एवं नवश्राद्धवर्जैकोद्दिष्टेषु। 'नवश्राद्धे त्वमन्त्रकं सर्वम्' इति नारायणवृत्तिः। क्रियानिबन्धे– 'उत्तानं स्थापयेत्पात्रमेकोद्दिष्टे सदा बुधः। न्युब्जं तु पार्वणे कुर्यात्तस्योपरि कुशान्न्यसेत्॥ नवश्राद्धं गृहे कुर्याद्धार्या यत्राग्नयोऽपि वा। सपिण्डीकरणान्तानि प्रेतश्राद्धानि यानि वै॥ तानि स्युर्लौकिके वह्नावित्याह त्वाश्वलायनः॥' इदं सम्भवेऽन्नेन कार्यम्; ‘नवश्राद्धेषु यच्छिष्टं ग्रहपर्युषितं च यत्। दम्पत्योर्भुक्तशेषं च न तद्भुञ्जीत कर्हिचित्॥' इत्यङ्गिरोवचनलिङ्गात्। 'द्वाभ्यां तदा तु कृच्छ्राभ्यां शुद्धिः स्यात्तु विवेकिनाम्।' इति ब्राह्मे उक्तम्। विघ्ने तु निर्णयामृते कण्वः– 'नवश्राद्धं मासिकं च यद्यदन्तरितं भवेत्। तत्तदुत्तरसातन्त्र्यादनुष्ठेयं प्रचक्षते॥' हेमाद्रौ गालवः– 'शावे तु सूतकं चेत्स्यान्नि-शायां च मृतौ तथा। नवश्राद्धानि देयानि यथाकालं यथाक्रमम्॥' निशायामाशौचान्ते द्व्यहवृद्धौ। अन्वारोहणे तु– 'नवश्राद्धानि सर्वाणि सपिण्डीकरणं पृथक्। एक एव वृषोत्सर्गो गौरेका तत्र दीयते॥'
आशौचान्त्यदिनकृत्यम्।—
आशौचान्त्यदिने कार्यमुक्तं ब्राह्मे– 'यस्य यस्य तु वर्णस्य यद्यत्स्यपश्चिमं त्वहः। स तत्र वस्त्रशुद्धिं च गृहशुद्धिं करोत्यपि॥ समाप्य दशमं पिण्डं प्रेतस्पृष्टे तु वाससी। अन्त्यानामाश्रितानां च त्यक्त्वा स्नानं करोत्यपि॥ श्मश्रुलोमनखानां च यत्त्याज्यं तज्जहात्यपि। गौरसर्षपकल्केन तिलकल्केन संयुतम्॥शिरःस्नानं ततः कृत्वा तोयेनाचम्य वाग्यतः। वृषभं गां सुवर्णं च स्पृष्ट्वा शुद्धो भवेन्नरः॥' क्रियानिबन्धे–गृह्यकारिकायाम्– 'अत्र पिण्डत्रयं दद्युस्तत्सखिभ्यस्तथाऽऽदिमम्। प्रेताय मध्यमं तद्वत्तृतीयं च यमाय वै॥' तथा- 'कर्ताऽत्र प्रार्थिताः सन्तो ज्ञातिसम्बन्धिबान्धवाः। दद्युरभ्यङ्गतः पूर्वं त्रींस्त्रीन्धर्मोदकाञ्जलीन्॥पूर्ववन्नामगोत्राभ्यां नियमो नेह कश्चन॥' मदनरत्ने विष्णुहारीतौ– 'आशौचान्ते कृतश्मश्रुकर्माणस्तिलकल्कैः सर्षपकल्कैर्वा स्नाताः शुक्लवाससो गृहं प्रविशेयुस्तत्र शान्तिकं कृत्वा ब्राह्मणपूजनं कुर्युः ।' इति।
देवलः– 'दशमेऽहनि सम्प्राप्ते स्नानं ग्रामाद्बहिर्भवेत्। तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च॥ अपरार्के बृहस्पतिः– 'नवमे वाससां त्यागो नखरोम्णां तथाऽन्तिमे।' तत्रैव व्यासः–'आशौचान्त्यदिने क्षौरं जनन्यां च गुरौ मृते। एतत्प्रेताल्पवयसामित्याहापस्तम्बः– 'अनुभाविनां च परिवापनम्' इति। अनुभाविनः कनिष्ठा इति विज्ञानेश्वर-रत्नाकरादयः। 'आशौचमनुभवतां पुंसां सर्वाशौचे तु मुण्डनम्।' 'आज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतस्तकेषु च॥ बन्धमोक्षमखदीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु॥' इति रत्नमालोक्तेर्जननाशौचेऽपीति शुद्धितत्त्वादयः। अत्र देशाचारतो व्यवस्था। परि=शिखावर्जम्; 'केशश्मश्रुलोमनखानि वापयीत शिखावर्जम्' इति गोभिलोक्तेः। यत्त्वापस्तम्बः– 'न समावृत्ता वपेयुरन्यत्र विहारादित्येके,' विहारः = दर्शादियागः, तेन विना समावृत्ता गृहस्था न वपेयुरित्यर्थः। यच्च– 'वृथा छिनति यः केशांस्त माहुर्ब्रह्मघाति नम्।' इति, -तत् 'केशश्मश्रु धारयतामग्र्या भवति सन्ततिः।" इति दानधर्मोक्तकाम्यपरम्। अनुभाविनः पुत्रादय एव इत्येके। 'पुत्रः पत्नी च वपनं कुर्यादन्ते यथाविधि। पिण्डदानोचितोऽन्योऽपि कुर्यादित्थं समाहितः॥' इत्यपरार्के व्यासोक्तेः। यत्तु– मिताक्षरायाम् 'द्वितीयेऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः। तृतीये पञ्चमे वापि दशमे वाऽऽप्रदानतः॥' इति। आप्रदानतः इति चतुर्थादीनि, -तत्प्रथमदिनेऽसम्भवे ज्ञेयम्; 'अलुप्तकेशो यः पूर्वे सोऽत्र केशान्प्रवापयेत्। द्वितीयेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमेऽपि वा॥ यावच्छ्राद्धं प्रदीयेत तावदित्यपरं मतम्॥' इति माधवीये मदनरत्ने च बौधायनोक्तेः। मदनपारिजाते तु दशमे प्रथमे च समुच्चय उक्तः। यत्तु– 'दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत्।' इति, -तदेकादशाहश्राद्धाङ्गविप्रनिमन्त्रणार्थं ज्ञेयम्॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा