🕉️ 24 November 2026, Tuesday · 08:22:11 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 81/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

एकादशाहः

अथैकादशाहः। मनुः—'विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधे। वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः॥ शुद्धितत्वे देवलः– 'अघाहःसु निवृत्तेषु सुस्नाताः कृतमङ्गलाः। आशौचाद्विप्रमुच्यन्ते ब्राह्मणान्स्वस्ति वाच्य च॥' याज्ञवल्क्यः- 'मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम्। प्रतिसंवत्सरं चैव आद्यमेकादशेऽहनि।' क्षत्रियाद्यैराशौचेऽप्येकादशेऽह्नि श्राद्धं कार्यम्; 'आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि। कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः॥' इति हेमाद्रौ शङ्खोक्तेः। पैठीनसिः– 'एकादशेऽह्नि यच्छ्राद्धं तत्सामान्यमुदाहृतम्। चतुर्णामपि वर्णानां सूतकं तु पृथक्पृथक्॥' यत्तु- मरीचिः 'आशौचान्ते ततः सम्यक् पिण्डदानं समाप्यते। ततः श्राद्धं प्रदातव्यं सर्ववर्णेष्वयं विधिः॥' इति,-तत्सर्ववर्णानां दशाहाशौचपरम्। यत्तु- विष्णुः 'अथाशौचापगमे' इति, यच्च- गौडग्रन्थे हारीतः 'श्वोभूते एकोद्दिष्टं कुर्यात्', यच्च- बैजवापः 'ऊर्ध्वं दशम्या अपरेद्युः' इति, -तद्विप्रविषयम्। एतेन दशमपिण्डोत्कर्षपक्षे अवयवपिण्डासमाप्तौ कथमेकादशाहे श्राद्धमिति मूर्खोक्तिः परास्ता; वचनादाशौचमध्य इव तत्राप्यविरोधात्।

भविष्ये– 'एकादशभ्यो विप्रेभ्यो दद्यादेकादशेऽहनि। भोजनं तत्र वैकस्मै ब्राह्मणाय महात्मने॥' यत्तु- मात्स्ये 'एकादशेऽहनि तथा विप्रानेकादशैव तु। क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान्॥' इति, -तद्रुद्रगणश्राद्धपरमिति मदनपारिजातः। गौडास्त्वस्माद्वचनात्क्षत्रियादीनामाशौचान्त एवेत्याहुः।रामायणेऽपि– 'समतीते दशाहे तु कृतशौचो यथाविधि। चक्रे द्वादशिकं श्राद्धं त्रयोदशिकमेव च॥' द्वादशिकं = द्वादशाहेन निर्वर्त्यं त्रयोदशाहश्राद्धम्। त्रयोदशिकं= चतुर्दशाहविधेयं सपिण्डनपाथेयादि। क्षत्रियाणां द्वादशाहाशौचे त्रयोदशे मौकोद्दिष्टं चतुर्दशे सपिण्डनम्। द्विविधवाक्यादेकादशाहाशौचान्तयोर्विकल्प इत्येके। सद्यःशौचादौ युद्धहतादेरेकादशाहे अन्येषामाशौचान्त इति वयम्।

कौर्मे– 'एकादशेऽह्नि कुर्वीत प्रेतमुद्दिश्य भावतः। द्वादशे वाऽह्नि कर्तव्यमनिन्द्येऽप्यथवाऽहनि॥' निन्द्यं=प्रेतक्रियाकाले उक्तम्। एकादशे तु न निषेध इत्युक्तं प्राक्। बृहस्पतिः– 'वस्त्रालङ्कारशय्यादि पितुर्यद्वाहनादिकम्। गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्ते तदर्पयेत्॥ श्रोत्रिया भोजनीयास्तु नव सप्त त्रयोदश। ज्ञातयो बान्धवा निःस्वास्तथा चातिथयोऽपरे। ' देवयाज्ञिकनिबन्धे– 'एकादशसु विप्रेषु प्रेतमावाह्य भोजयेत्। तत्राद्याय च शय्यादि दद्यादाद्यमिति स्मृतम्॥' विष्णुः– 'एकवन्मन्त्रानूहेतैकोद्दिष्टे'। बहुवचनान्तानेकवचनान्तान्वदेदित्यर्थः। -एतत् दृष्टार्थत्वे ।

अस्य विघ्ने गौणकालमाह हेमाद्रौ बौधायनः– 'एकोद्दिष्टं श्व एव स्याद्द्वादशेऽहनि वा पुनः। अत ऊर्ध्वमयुग्मेषु कुर्वीताहःसु शक्तितः॥ अर्धमासेऽथवा मासि ऋतौ संवत्सरेऽपि वा॥' इति। तत्रैव लघुहारीतः– 'एकोद्दिष्टं तु कुर्वीत पाकेनैव सदा स्वयम्। अभावे पाकपात्राणां तदहः समुपोषणम्॥' गोभिलः– 'ब्राह्मणं भोजयेदाद्ये होतव्यमनलेऽथवा। पुनश्च भोजयेदेकं द्विरावृत्तिर्भवेदिति॥' -एतदाद्यमासिकाद्याब्दिकयोः सिद्ध्यर्थमिति भट्टाः। तेन महकोद्दिष्टं षोडशश्राद्धाद्भिन्नमेव। अत एवाद्यं सर्वैकोद्दिष्टप्रकृतिभूतमेकादश इति विज्ञानेश्वरः। अन्ये त्वाद्यमासिकाब्दिकयोः 'आद्यमेकादशेऽहनि' इति नियमादभेदमाहुः। द्वयोस्तत्रत्वबाधार्थं गोभिलीयमित्यन्ये। युद्धहतादौ तु हेमाद्रौ पृथ्वीचन्द्रोदये पैठीनसिः– 'सद्यःशौचेऽपि दातव्यं प्रेतस्यैकादशेऽहनि। स एव दिवसस्तस्य श्राद्धशय्यासनादिषु।' एवमेकाहादौ। अतोऽत्र द्वितीयेऽह्न्येकादशाहं वदन् ढौण्डुः शूलपाणिः स्मार्तगौड परास्तः। एतेन 'आद्यमेकादशेऽहनि' इत्याशौचानन्तरदिनपरमिति विष्णुक्तेः प्रागुक्तशङ्खादिवचनानां चानाकरत्वादिति वदन्तः कल्पतरुवाचस्पतिप्रमुखाः सर्वमहानिबन्धविरोधादुपेक्ष्याः । उशनाः– त्र्यहाशौचेऽपि कर्तव्यमाद्यमेकादशेऽहनि। अतीतविषये सद्यरूयहोर्ध्वं वा तदिष्यते॥'

याज्ञवल्क्यः– 'एकोद्दिष्टं दैवहीनमेकाध्यैकपवित्रकम्। आवाहनाग्नौकरणरहितं त्वपसव्यवत्॥ उपतिष्ठतामित्यक्षय्यस्थाने विप्रविसर्जने। अभिरम्यतामिति वदेद्ब्रूयुस्तेऽभिरताः स्म ह॥' इत्यग्नौकरणनिषेधोऽन्यपरः। बह्वृचानां सर्वेकोद्दिष्टेषु तद्भवत्येवेत्युक्तं प्राक्। स्वदितमिति तृप्तिप्रश्न इति कात्यायनः। प्रथमे पात्रे संस्रवानित्यस्य तृतीयेनापिधानस्य च बाधान्न पात्रन्युब्जतेति शूलपाणिः । प्रचेताः– 'नात्र पात्रालम्भो नाशिषः प्रार्थयेत्॥' अत्र विशेषो हेमाद्रौ वाराहे– 'श्मश्रुकर्म तु कर्तव्यं नखच्छेदस्तथैव च। स्नपनाभ्यञ्जने दद्याद्विप्राय विधिपूर्वकम्॥' तथा– 'उपवेश्यासने भद्रे छत्रं तत्र प्रकल्पयेत्। पश्चादुपानहौ दद्यात् सर्वाण्याभरणानि च॥' विष्णुः– 'दक्षिणान्तं श्राद्धमुक्त्वा दत्ताक्षय्योदकेषु चतुरङ्गुलपृथ्वीस्तावदन्तरालास्तावदधःखाता वितस्त्यायतास्तिस्रः कर्पूः कुर्यात्। कर्षूणां समीपेऽग्नित्रयमाधाय परिस्तीर्यैकैकस्मिन्नाहुतित्रयं जुहुयात्– सोमाय पितृमते, स्वधानमोऽग्नये कव्यवाहनाय, यमायाङ्गिरस्वते इति॥' स्थानत्रये प्राग्वत्पिण्डनिर्वपणं दधिमधुघृतमांसैः कर्षूत्रयं पूरयित्वैतत्त इति जपेत्। शेषं नवश्राद्धवत्। अत्र साग्नेरप्यन्ते वैश्वदेव इत्युक्तं प्राक्। इदं दशाहकर्त्रा पुत्रेण वा कार्यमित्युक्तम्। क्रियानिबन्धे गृह्यकारिकायाम्– 'तिलोऽसि प्रेतदेवत्यः प्रेतलोकान् हिनोऽन्तकम्। मत्रमुक्त्वा तिलानेवं प्रक्षिपेदर्घ्यपात्रतः॥ दक्षिणामुदकुम्भं च सान्नं दत्त्वा तथैव गाम्। तस्मै दद्याद्भुक्तशेषं तद्भाण्डान्यपि भाजनम्॥' विप्राभावेऽग्नावेकोद्दिष्टम्, 'अग्नौ पायसं श्रपयित्वाज्यभागान्ते तदग्रे श्राद्धप्रयोगं कृत्वाऽग्नौ प्रेतमावाह्य गन्धाद्यैः सम्पूज्य "पृथिवी ते पात्रम्" इत्यादिनाऽन्नं सङ्कल्प्य "उदीरतामवर" इत्यष्टाभिश्चतुरावृत्ताभिर्द्वात्रिंशदाहुतीर्हुत्वा पिण्डदानादिश्राद्धं समापयेत्' इति। याज्ञवल्क्यः– 'एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि'॥

वृषोत्सर्गः।—

अथ वृषोत्सर्गः। स च नित्यः काम्यश्च, 'न करोति वृषोत्सर्गं सुतीर्थे वा जलाञ्जलिम्। न ददाति सुतो यस्तु पितुरुच्चार एव सः॥' उच्चारः=पुरीषम्। 'एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्। यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत्॥' इति मात्स्य-कौर्मोक्तेः– 'एकादशेऽह्नि प्रेतस्य यस्य नोत्सृज्यते वृषः। प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि॥' इति षट्त्रिंशन्मते निन्दाश्रुतेः, 'एवं कृत्वा ह्यवाप्नोति फलं वाजिमखोदितम्। यमुद्दिश्योत्सृजेन्नीलं स लभेत परां गतिम्॥ वृषोत्सृष्टः पुनात्येव दशातीतान् दशापरान्॥' इति देवीपुराणे भविष्यादौ फलश्रुतेश्च। अयं द्वादशाहे उक्तो भविष्ये– 'चैत्र्यां वापि तृतीयायां वैशाख्यां द्वादशेऽह्नि वा।' इति। विष्णुधर्मे तु मृताहेऽप्युक्तः– 'विषुवद्द्वितये चैव मृताहे बान्धवस्य च।' इति। -अयं गृहे न कार्यः; ‘न गृहे मोचयेन्नीलं कामयन्पुष्कलं फलम्।' इति कालिकापुराणात्। कामधेनौ– 'वत्सराभ्यन्तरे पित्रोर्वृषस्योत्सर्गकर्मणि। वृद्धिश्राद्धं न कुर्वीत तदन्यत्र समारभेत्॥' तल्लक्षणं तु ब्राह्मे– 'लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः। श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते॥' श्वेतवर्णस्य मुखादीनि श्यामानि श्यामस्य वा श्वेतानि यस्य सोऽपि नीलवृष उक्तो मात्स्यादौ। देवीपुराणे– 'चतस्रो वत्सिका भद्रा द्वे वा सम्भवतोऽपि वा।' यत्तुपठन्ति 'वृषोत्सर्जनवेलायां वृषाभावे कथञ्चन। मृद्भिः पिष्टैश्च दर्भैर्वा वृषं कृत्वा विमोचयेत्॥ न शक्यते वृषोत्सर्गो होमं वा तत्र कारयेत्॥' इति, -तन्निर्मूलम्। तद्विधिर्हेमाद्रौ भट्टकृतौ च ज्ञेयः। अत्र देवयाज्ञिकेन वृषोत्सर्गात्पूर्वं पुरुषसूक्तेन विष्णुरूपिप्रेतोद्देशेन विष्णुतर्पणमुक्तम्। तत्र मूलं चिन्त्यम्।

पारस्करः– 'सव्येन पाणिना पुच्छं समालम्ब्य वृषस्य तु। दक्षिणेनाप आदाय सतिलाः सकुशास्ततः॥ प्रेतगोत्रं समुच्चार्य अमुकस्मै इति ब्रुवन्। वृष एष मया दत्तस्तं तारयतु सर्वदा॥ सहेम सतिलं भूमावित्युच्चार्य विनिक्षिपेत्॥' तथा– 'विधारयेन्न तं कश्चिन्न च कश्चन वाहयेत्। न दोहयेच्च ता धेनूर्न च कश्चन बन्धयेत्॥' स्त्रीषु विशेषः सङ्ग्रहे– 'पतिपुत्रवती नारी भर्तुर मृता यदि। वृषोत्सर्गं न कुर्वीत गां तु दद्यात् पयस्विनीम्॥' पतिपुत्रयोः साहित्यं विवक्षितम्। अन्वारोहणेऽपि गोदानमेवेत्युक्तं प्राक्। आशौचान्तरेऽपि वृषोत्सर्गाद्यमासिकशय्यादि दद्यादेवेत्युक्तम्। क्रियानिबन्धे स्मृत्यन्तरे– 'सूतके मृतके चैव द्वितीयं मृतकं यदि। पिण्डदानं प्रकुर्वीत वृषोत्सर्गं तथैव च। न हन्यात्सूतकं कर्म द्वादशैकादशाहिकम्। शुद्धो वा यदि वाऽशुद्धः कुर्यादेवाविचारयन्॥' इति।

अत्र पददानमुक्तं देवजानीये गारुडे एकादशाहं प्रक्रम्य– 'तदहि दीयते सर्वं द्वादशाहे विशेषतः।पदानि सर्व वस्तूनि वरिष्ठानि त्रयोदश। यो ददाति मृतस्येह जीवतोऽप्यात्महेतवे। सुखी भूत्वा महामार्गे वैनतेय स गच्छति॥' तथा– 'आसनोपानहौ छत्रं मुद्रिका च कमण्डलुः। भाजनं भोजनाधारो वस्त्राण्यष्टविधं पदम्॥' तथा 'भाजनासनदानेन मुद्रिकाभोजनेन च। आज्ययज्ञोपवीतेन पदं सम्पूर्णतां व्रजेत्॥महिषीरथगोदानात्सुखी भवति निश्चितम्। सर्वोपस्करयुक्तानि पदान्यत्र त्रयोदश॥ यो ददाति मृतस्येह जीवन्नप्यात्महेतवे। स गच्छति परं स्थानं महाकष्टविवर्जितः ॥', 'त्रयोदश पदानीत्थं प्रेतायैकादशेऽहनि। दातव्यानि यथाशक्ति तेनासौ प्रीणितो भवेत्॥ अन्नं चैवोदकं चैवोपानहौ च कमण्डलुः।छत्रं वस्त्रं तथा यष्टिं लोहदण्डं तथाऽष्टमम्॥ अग्नीष्टिकां च दीपं च तिलांस्ताम्बूलमेव च। चन्दनं पुष्पदानं चोपदानानि चतुर्दश।योऽश्वं रथं गजं वापि ब्राह्मणे प्रतिपादयेत्। स्वमहिम्नोऽनुसारेण तत्तत्सुखमवाप्नुयात्॥' इति। अत्र मूलं चिन्त्यम्॥

शय्यादानम्

अथ शय्यादानम्। हेमाद्रौ भविष्ये– 'तस्माच्छय्यां समासाद्य सारदारुमयीं दृढाम्। दन्तपत्रचितां रम्यां हेमपट्टैरलङ्कृताम्॥ हंसतूलीप्रतिच्छन्नां शुभगण्डोपधानिकाम्। प्रच्छादनपटीयुक्तां गन्धधूपादिवासिताम्। तस्यां संस्थापयेद्धैमं हरिं लक्ष्म्या समन्वितम्॥' अत्र हरिस्थाने प्रेतम्। 'उच्छीर्षके घृतभृतं कलशं परिकल्पयेत्। ताम्बूलं कुङ्कुमक्षोदं कर्पूरागरुचन्दनम्॥ दीपिकोपानहच्छत्रं चामरासनभाजनम्। पार्श्वेषु स्थापयेद्भक्त्या सप्तधान्यानि चैव हि॥ शयनस्थस्य भवति यदन्यदुपकारकम्। भृङ्गारकरकाद्यं तु पञ्चवर्णवितानकम्॥' मन्त्रस्तु– 'यथा न कृष्णशयनं शून्यं सागरजातया। शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि॥ यस्मादशून्यं शयनं केशवस्य शिवस्य च॥' अर्धं तदेव। 'दत्त्वैवं तस्य सकलं प्रणिपत्य विसर्जयेत्। एकादशाहेऽपि तथा विधिरेष प्रकीर्तितः॥ विशेषं चात्र राजेन्द्र कथ्यमानं निशामय। तेनोपभुक्तं यत्किञ्चिद्वस्त्रवाहनभाजनम्॥ यद्यदिष्टं च तस्यासीत्तत्सर्वं परिकल्पयेत्। तमेव पुरुषं हैमं तस्यां संस्थापयेत्तदा। पूजयित्वा प्रदातव्या मृतशय्या यथोदिता॥' पाद्मे– 'मृतकान्ते द्वितीयेऽह्नि शय्यां दद्यात्सलक्षणाम्। काञ्चनं पुरुषं तद्वत्फलवस्त्रसमन्वितम्॥ सम्पूज्य द्विजदाम्पत्यं नानाभरणभूषितम्। उपवेश्य तु शय्यायां मधुपर्कं ततो ददेत्॥ रजतस्य तु पात्रेण दधिदुग्धसमन्वितम्। अस्थि लालाटिकं गृह्य सूक्ष्मं कृत्वा सपायसम्॥ भोजयेद्विजदाम्पत्यं विधिरेष सनातनः। एष एव विधिर्दृष्टः पार्वतीयैर्द्विजोत्तमैः॥' एतत्प्रतिग्रहे तत्रैवोक्तम्– 'गृहीतायां तु तस्यां वै पुनः संस्कारमर्हति।' शय्यादानफलं भविष्ये– 'स्वर्गे पुरन्दरपुरे सूर्यपुत्रालये तथा। सुखं वसत्यसौ जन्तुः शय्यादानप्रभावतः॥ आभूतसम्प्लवं यावत्तिष्ठत्यातङ्कवर्जितम्॥' इति॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬