🕉️ 24 November 2026, Tuesday · 08:07:46 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 82/87
इस पृष्ठ में: उदकुम्भःमासिकानि

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

उदकुम्भः

अथोदकुम्भः । हेमाद्रौ स्मृतिसमुच्चये– 'एकादशाहात्प्रभृति घटस्तोयान्नसंयुतः। दिने दिने प्रदातव्यो यावत्संवत्सरं सुतैः॥' लौगाक्षिः– 'यस्य संवत्सरादर्वाक् सपिण्डीकरणं भवेत्। मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम्॥' उत्तरार्धे– 'तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे।' इति याज्ञवल्क्यपाठः। सपिण्डनापकर्षेऽस्यापकर्षप्राप्तेर्बाधकमिदमिति शूलपाणिः, –तन्न; प्रकृतिविकाराभावेन तदन्तन्यायाविषयत्वात्। मात्स्ये– ' यावदब्दं च यो दद्यादुदकुम्भं विमत्सरः। प्रेतायान्नसमायुक्तं सोऽश्वमेधफलं लभेत्॥' केचित्त्रयोदशाहमारभ्याहुः, -तन्निर्मूलम्; देवयाज्ञिकः– 'सपिण्डनापकर्षे संवत्सरं यावदुदकुम्भम् अर्वागेव दद्यात् नोर्ध्वम्।' 'प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत।' इति गोविन्दराजधृतविष्णुक्तेः। 'अन्नं चैव स्वशक्त्या तु सङ्ख्यां कृत्वाऽऽब्दिकावधि। दातव्यं ब्राह्मणे स्कन्द घटादौ निष्क्रयं तु वा॥ अपि श्राद्धशतैर्दत्तैरुदकुम्भं विना नराः। दरिद्रा दुःखिनस्तात भ्रमन्ति च भवार्णवे॥ तेनापकृष्य दातव्यं प्रेतस्याप्युदकुम्भकम्॥' इति गोभिलभाष्ये स्कान्दाच्च सपिण्डनात्प्रागेव तस्य विधानादूर्ध्वं निषेधादित्याह, तन्न; उदकुम्भे पार्वणविधिनानुपपत्तेरेवं व्याख्यायां मानाभावान्मिताक्षरादिविरोधाच्च। वचनं यदि समूलं तदा वृद्धावपकर्पं विधत्ते; 'प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा।' इति हेमाद्रौ शाट्यायनोक्तेः, 'तस्याप्यन्नं सोदकुम्भम्' इति याज्ञवल्क्यविरोधाच्च।

मदनरत्ने गौतमः– 'अदैवं पार्वणं श्राद्धं सोदकुम्भमधर्मकम्। कुर्यात्प्रत्याब्दिकाच्छ्राद्धात्सङ्कल्पविधिनाऽन्वहम्॥' अधर्मकं=ब्रह्मचर्यादिनियमहीनम्। एतन्मासिकवदेकोद्दिष्टं पार्वणं वा कार्यम्। अपरार्कस्तु– 'सपिण्डीकरणे वृत्ते पृथक्त्वं नोपपद्यते। पृथक्त्वे तु कृते पश्चात्पुनः कार्या सपिण्डता॥इति। लघुहारीतोक्तावपि– 'तस्याप्यन्नं सोदकुम्भं देयं संवत्सरं द्विजे।' इति याज्ञवल्कीये 'तस्य' इत्येकत्वोक्तेः सपिण्डनोत्तरमप्येकोद्दिष्टमेवेत्याह। अत्र पिण्डदानं कृताकृतम् ; 'अहरहरन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात्पिण्डमप्येके निपृणन्ति' इति हेमाद्रौ पारस्करोक्तेः। श्राद्धाशक्तौ पिण्डमात्रमिति गौडाः, -तन्न; 'अपि' शब्दबाधापत्तेः। हारीतः– 'मृते पितरि वै पुत्रः पिण्डमब्दं समाचरेत्। अन्नं कुम्भं च विप्राय प्रेतनिर्देशधर्मतः॥' प्रेतशब्दोच्चारणेनेति हलायुधः। यद्वा-प्रेतस्य निर्देशो यत्र तदेकोद्दिष्टं तद्धर्मकमित्यर्थः। अत्राशौचान्तदिनाद्यन्दान्तं यावद्वत्सरपूर्तेः। शौचं नाधिकारिविशेषणम्। तेन मृतिदिनमारभ्यैतत्कार्यमिति केचित्, –तन्न; हेमाद्रिधृतवचोविरोधात्। मध्ये आशौचादिना बाधे तु लोप एव दार्शवत्। तथा प्रथमाब्दे दीपदानमुक्तं देवजानीये गारुडे– 'प्रत्यहं दीपको देयो मार्गे तु विषमे नरैः। यावत्संवत्सरं वापि प्रेतस्य सुखलिप्सया॥ प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजालये। कुर्याद्याभ्यमुखं पित्र्ये अद्भिः सङ्कल्प्य सुस्थिरम्॥'

मासिकानि

अथ मासिकानि। तानि च कृत्वैव सपिण्डनं कार्यम्। तथा च गोभिललौगाक्षी– 'श्राद्धानि षोडशादत्त्वा नैव कुर्यात्सपिण्डनम्। श्राद्धानि षोडशापाद्य विदधीत सपिण्डनम्॥' तानि त्वाह जातकर्ण्यः– द्वादश प्रतिमास्यानि आद्यषाण्मासिके तथा। त्रैपक्षिकाब्दिके चेति श्राद्धान्येतानि षोडशः॥' आद्यषाण्मासिकाब्दिकशब्दा ऊनमासिकोनषष्ठोनाब्दिकपराः। हेमाद्रौ तु– 'सपिण्डीकरणं चैव इत्येतच्छ्राद्वषोडशम्' इत्युत्तरार्धे पाठः। तदा आद्यमूनमासिकं द्वादशाहे, षाण्मासिकम् ऊनषष्ठोनाब्दिके इत्यर्थः। कात्यायन– स्त्वन्यथाह- 'द्वादश प्रतिमास्यानि आद्यषाण्मासिके तथा। सपिण्डीकरणं चैव इत्येतच्छ्राद्धषोडशम्॥ एकाहेन तु षण्मासा यदा स्युरपि वा त्रिभिः। न्यूनः संवत्सरश्चैव स्यातां षाण्मासिके तदा॥' द्विवचनादूनषष्ठोनाब्दिके इत्यर्थमाह पृथ्वीचन्द्रः । व्यासस्त्वन्यथाह– 'द्वादशाहे त्रिपक्षे च षण्मासे मासिकाब्दिके। श्राद्धानि षोडशैतानि संस्मृतानि मनीषिभिः॥' द्वादशाहपदमूनमासिकपरं; तस्य द्वादशाहेऽप्युक्तेरिति कालादर्शः। मदनरत्ने ब्राह्मे त्वन्यथोक्तम्– 'नृृणां तु त्यक्तदेहानां श्राद्धाः षोडश सर्वदा। चतुर्थे पञ्चमे चैव नवमैकादशे तथा॥ ततो द्वादशभिर्मासैः श्राद्धा द्वादशसङ्ख्यया॥' इति। चतुर्थादीनि दिनानि। भविष्ये त्वन्यथोक्तम्– 'अस्थिसञ्चयनं श्राद्धं त्रिपक्षे मासिकानि तु। रिक्तयोश्च तथा तिथ्योः प्रेतश्राद्धानि षोडश॥' इति। रिक्तयोस्तिथ्योरित्यूनषष्ठो-नाब्दिकपरमिति हेमाद्रिः। अत्र देशकुलशाखाभेदाद्व्यवस्थेति सर्वनिबन्धाः। गालवः– 'ऊनषाण्मासिकं षष्ठे मासे वाऽप्यूनमासिकम्। त्रैपक्षिकं त्रिपक्षे स्यादूनाब्दं द्वादशे तथा॥' ऊनमासिके तु गोभिलः– 'मरणाद्द्वादशाहे स्यान्मास्यूने चोनमासिकम्॥' मदनरत्ने कालादर्शे च श्लोकगौतमः– 'एक-द्वित्रिदिनैरूने त्रिभागेनोन एव वा। श्राद्धान्यूनाब्दिकादीनि कुर्यादित्याह गौतमः॥' क्रियानिबन्धे क्रतुस्तु– 'सार्ध एकादशे मासे सार्धे वै पञ्चमे तथा। ऊनाब्दमूनषण्मासं भवेतां श्राद्धकर्मणि॥' इत्युक्तं, -तत्र मूलं चिन्त्यम्।

ऊनेषु वर्ज्यान्याह मरीचिः– 'द्विपुष्करे च नन्दासु सिनीवाल्यां भृगोर्दिने। चतुर्दश्यां च नोनानि कृत्तिकासु त्रिपुष्करे॥' ( ज्योतिषे– 'त्रिपादर्क्षं तिथिर्भद्रा भौमेज्यरविभिः सह। तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥' ) गालवः– 'त्रिभिर्वा दिवसैरूने त्वेकेन द्वितयेन वा। आद्यादिषु च मासेषु कुर्यादूनाब्दिकादिकम्॥' एकन्यूनपक्षे पञ्चम्यां मृतस्य तृतीयायां त्रिभिर्न्यूने प्रतिपदि द्व्युने द्वितीयायामिति केचित्। माधवस्तु– 'षाण्मासिकाब्दिके श्राद्धे स्यातां पूर्वेद्युरेव ते। मासिकानि स्वकीये तु दिवसे द्वादशेऽपि वा॥' इति पैठीनसिवाक्ये ऊनषाण्मासिकं सप्तममासगतमृताहात्पूर्वेद्युः कार्यम्, ऊनाब्दिकं तु द्वितीयादे मृताहदिनात्पूर्वेद्युः कार्यमित्यर्थमाह। पूर्वेद्युर्मृताहादित्यर्थः; 'मासिकानि स्वकीये तु दिवसे' इत्युक्तेः। -इदमेव युक्तम्। मदनरत्नेऽप्येवम्। याज्ञवल्क्यः– 'मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम्। प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि॥' अत्राद्यमासिकमाद्याब्दिकं चैकादशेऽह्नीति निर्णयामृतादयः। 'ब्राह्मणं भोजयेदाद्ये होतव्यमनलेऽथवा। पुनश्च भोजयेद्विप्रं द्विरावृत्तिर्भवेदिति॥' इति गोभिलीयं च तद्विषयमाहुः। अन्ये तु– 'मासपक्षतिथिस्पष्टे' इत्यादिविरोधादाब्दिकं वर्षान्ते एव। मासिकं तु मासादौ। द्विरावृत्तिस्तु एकादशाहिकाद्यमासिकपरा। देवयाज्ञिकोऽप्येवमाह। लौगाक्षिरपि– 'मासादौ मासिकं कार्यमाब्दिकं वत्सरे गते। आद्यमेकादशे कार्यमधिके त्वधिकं भवेत्॥' दीपिकायां तु– 'आद्यं रुद्रमितेऽर्कसम्मितदिने वा स्यात्' इत्युक्तम्। गौडास्तु– मृततिथ्यवधिके एकदिनाधिके, माससंवत्सरपदं गौणम्, पूर्णेऽब्दे इति ईषदसमाप्तपरत्वमिति शूलपाणिः । तेन द्वितीयमासादावाद्यमासिकादीति तन्मौर्ख्यकृतम्।

अशक्तौ तु हारीतः– 'मुख्यं श्राद्धं मासि मासि अपर्याप्तावृतुं प्रति। द्वादशाहेन वा भोज्या एकाहे द्वादशापि वा॥' ऋतुं प्रति द्वे द्वे इत्यर्थः। यदा तु पितुर्मरणान्त्रयोविंशतितमे दिने दर्शो वृद्धिवी स्यात्तदा द्वादशदिनेषु द्वादशमासिकानि कार्याणीत्यर्थः। त्रैपक्षिकं तु त्रिपक्षेतीते मृताहे कार्यम्; 'त्रैपक्षिकं भवेद्वृत्ते त्रिपक्षे तदनन्तरम्' इति भविष्योक्तेरिति मदनरत्ने उक्तम्। पृथ्वीचन्द्र-कालादर्श–निर्णयामृतादयस्तु– 'ऊनान्यूनेषु मासेषु विषमाहे समेऽपि वा। त्रैपक्षिकं त्रिपक्षे स्यान्मृताहे त्वितराणि तु॥ इति कार्ष्णाजिनिस्मृतेः पूर्वत्र वृत्ते प्रवृत्ते इत्यर्थमाहुः, -ते 'तदनन्तर' शब्दविरोधात् त्रैपक्षिकद्वितीयमासिकयोः सङ्करापत्तेरेवं व्याख्यायां मानाभावाच्चोपेक्ष्याः। त्रिपक्षसपिण्डने त्वेवंशब्दाभावादधिकरणत्वमेव ज्ञेयम्। यत्तु- क्रियानिबन्धे गारुडे 'त्रैपक्षिकं त्रिपक्षे तु प्रवृत्ते विषमे दिने। मासिकान्यपि चोनानि अष्टाविंशतिमे दिने॥' इति, -तन्निर्मूलम्।

स्मृतिरत्नावल्याम्– 'द्वादशाहे यदा कुर्यात्पितुः पुत्रः सपिण्डनम्। एकादशेऽह्नि कुर्वीत प्रेतश्राद्धानि षोडश॥' पैठीनसिः– 'सपिण्डीकरणादर्वाक् कुर्वन् श्राद्धानि षोडश। एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु॥ सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः।

प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि॥' मदनरत्ने कात्यायनः– 'श्राद्धमग्निमतः कार्यं दाहादेकादशेऽहनि। ध्रुवाणि तु प्रकुर्वीत प्रमीताहनि सर्वदा॥ ध्रुवाणि=त्रैपक्षिकादूर्ध्वानि। क्रियानिबन्धे गारुडे– 'त्रिपक्षात्पूर्वतः साग्नेर्भवेत्संस्कारवासरे। ऊर्ध्वं मृतदिनेऽनग्नेः सर्वाण्येव मृताहतः॥' एतानि च यदा सपिण्डनात्पूर्वं युगपत्कुर्यात्तदा देशकालकर्त्रैक्ये तन्त्रत्वादेकः पाक इति केचित्। पाकभेद इति भट्टचरणाः। अत्र केचिदाहुः– देशकालकर्तृदेवतैक्ये तन्त्रत्वात् श्राद्धकालातिक्रमापत्तेः, 'द्वादशाहेऽथ सर्वाणि सङ्क्षेपेण समापयेत्। तान्येव तु पुनः कुर्यात्प्रेतशब्दं न कारयेत्॥' इति कात्यायनोक्तेः, 'नैकः श्राद्धद्वयं कुर्यात् समानेऽहनि कुत्रचित्' इत्यस्य दैवतैक्यपरत्वेऽप्यत्र तत्सत्त्वात्- 'श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न कारयेत्।' इति जाबाल्युक्तेः। षोडशसङ्ख्यायाश्च वाजपेये प्राजापत्ययागसप्तदशत्ववत्सान्नाय्ययागद्वित्ववच्च दर्शपातसङ्क्रान्तिश्राद्धवद्युगपदनुष्ठानेऽप्युपपत्तेः–' आद्यमासिकाद्यूनाब्दिकान्तेषु षोडशश्राद्धेषु क्षणः क्रियताम्' इत्येवं प्रयोगेणैको विप्रः पिण्डोऽर्घ्यश्चेति। विरुद्धविधिविध्वंसेऽप्येवं, –तन्मन्दम् ; 'द्वादशाहेन वा भोज्या एकाहे द्वादशापि वा। इति हेमाद्रौ हारीतवचोविरोधात्। तेन विप्रभेदात् पिण्डार्घ्याद्यपि भिन्नमिति सिद्धम्।

एतानि द्वादशाहादौ सपिण्डनात्पूर्वं कृतान्यपि वृद्धिं विनाऽपकर्षे पुनः स्वकाले कार्याणि, 'यस्य संवत्सरादर्वाक् सपिण्डीकरणं कृतम्। मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम्॥' इति मदनरत्नेऽङ्गिरसोक्तेः ॥ न चेदं मासिकानामपकर्षं विधत्ते किन्तु सपिण्डनोर्ध्वं स्वकालेऽनुष्ठानमेवेति वाच्यम्; 'श्राद्धानि षोडशादत्त्वा न तु कुर्यात्सपिण्डताम्। इति विरोधात्, 'यस्य संवत्सरादर्वाग्विहिता तु सपिण्डता। विधिवत्तानि कुर्वीत पुनः श्राद्धानि षोडश॥' इति माधवीये गोभिलोक्तेश्च। 'अर्वाक् संवत्सराद्यस्य सपिण्डीकरणं कृतम्। षोडशानां द्विरावृत्तिं कुर्यादित्याह गौतमः॥' इति तत्रैव गालवोक्तेः। षोडशत्वं चैकादशाहसपिण्डनपक्षे तत्राद्यमासिकस्य कालसत्त्वात्, अन्यपक्षेषु यथासम्भवं ज्ञेयम्। यत्तु दीपिकायाम्– 'अनुमासिकानि तु चरेत्तान्येव सापिण्ड्यतः पश्चात् द्वादश' इत्युक्तेरूनानां न पुनः कृतिरित्युक्तं, तदेतद्विरोधाचिन्त्यम्। यत्तु गौडाः– 'सपिण्डीकरणान्ता तु ज्ञेया प्रेतक्रिया बुधैः।' इति शातातपोक्तेर्मासिकानां प्रेतत्वविमोक्षार्थत्वात्सपिण्डनापकर्षे तदन्तन्यायेन तेषामप्यपकर्षा-न्मासिकानां न पुनः कृतिः। यत्तु- 'मासिकं चोदकुम्भं च' इति लौगाक्ष्यादिवचनं,–तन्निर्मूलम्। समूलत्वेऽपि दार्शपरं चेत्याहुः। ते उक्तवक्ष्यमाणवचोनिबन्धविरोधान्मूर्खा इत्युपेक्ष्याः। यत्तु –मिताक्षरायां सपिण्डनोर्धे स्वकाले एव कार्याणि अपकर्षस्त्वनुकल्प इत्युक्तम्, -तदपि पूर्वविरोधाच्चिन्त्यम्। तेन वृद्धिं विनापकर्षे पुनः कृतिः। 'अर्वाक् संवत्सराद्यस्य सपिण्डीकरणं भवेत्। प्रेतत्वमिह तस्यापि ज्ञेयं संवत्सरं नृप॥' इत्यग्निपुराणात्। वृद्धिनिमित्तापकर्षे त्वस्त्येव तन्निवृत्तिः, अन्यथा वृद्ध्यसम्भवादिति शूलपाणिः।

कार्ष्णाजिनिः– 'सपिण्डीकरणादर्वागपकृष्य कृतान्यपि। पुनरप्यपकृष्यन्ते वृद्ध्युत्तरनिषेधनात्॥' निषेधं चाह कात्यायनः– 'निर्वर्त्य वृद्धितत्रं तु मासिकानि न तत्रयेत्। अयातयामं मरणं न भवेरपुनरस्य तु॥' इति। द्विरनुष्ठानं चोत्तरेषामेव, न पूर्वेषां स्वस्वकालकृतानाम्। तदाह माधवीये कार्ष्णजिनिः– 'अर्वागन्दाद्यत्र यत्र सपिण्डीकरणं कृतम्। तदूर्ध्वं मासिकानां स्याद्यथाकालमनुष्ठितिः॥' हेमाद्रौ शाव्यायनिः– 'प्रेतश्राद्धानि शिष्टानि सपिण्डीकरणं तथा। अपकृष्यापि कुर्वीत कर्तुं नान्दीमुखं द्विजः॥' वृद्धिं विनापकर्षे दोषमाहोशनाः– 'वृद्धिश्राद्धविहीनस्तु प्रेतश्राद्धानि यश्चरेत्। स श्राद्धी नरके घोरे पितृभिः सह मज्जति॥' इति। आधानेऽपकर्षमाह हेमाद्रावुशनाः– 'पितुः सपिण्डीकरणं वार्षिके मृतिवासरे। आधानाद्युपसम्प्राप्तावेतत्प्रागपि वत्सरात्॥' विशेषस्तूक्तो विवाहनिर्णये। कण्वः– 'नवश्राद्धं मासिकं च यद्यदन्तरितं भवेत्। तत्तदुत्तरसातन्त्रादनुष्ठेयं प्रचक्षते॥' गारुडेऽपि– 'आपदाद्यकृतं यत्तु कुर्यादूर्ध्वं मृतेऽहनि।'

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬