निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ सपिण्डीकरणम्। माधवीये हारीतः– 'या तु पूर्वममावास्या मृताहाद्दशमी भवेत्। सपिण्डीकरणं तस्यां कुर्यादेव सुतोऽग्निमान्॥' मृताहादूर्ध्वे दशमी एकादशीत्यर्थः; 'सपिण्डीकरणं कुर्यात्पूर्ववच्चाग्निमान्सुतः। परतो दशरात्राच्चेत्कुहूरब्दोपरीतरः॥' इति कार्ष्णाजिनिस्मृतेः। आहिताग्नेस्तेन विना श्रौतपिण्डपितृयज्ञासिद्धेः। तदाह गालवः– 'सपिण्डीकरणात्प्रेते पैतृकं पदमास्थिते। आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तते॥' मदनरत्ने प्रजापतिः– 'नासपिण्ड्याग्निमान् पुत्रः पितृयज्ञं समाचरेत्।' अपरार्के कात्यायनः– 'एकादशाहं निर्वर्त्य पूर्वं दर्शायथाविधि प्रकुर्वीताग्निमान्विप्रो मातापित्रोः सपिण्डताम्॥' आशौचान्तप्रथमदर्शयोर्मध्ये कस्मिंश्चिदह्रीत्यर्थः। पित्रादीनां सपत्नीकानां देवतात्वेन मातुरपि तत्रानुप्रवेशान्मातुरपि प्राग्दर्शात्सपिण्डनं युक्तमित्यपरार्कः। एवं पितामहादेरपि सपिण्डनं प्राग्दर्शात्कार्यम्। तेन विना पार्वणायोगात्। द्वादशाहे वा कार्यम् ; 'साग्निकस्तु यदा कर्ता प्रेतश्चानग्निमान्भवेत्। द्वादशाहे भवेत्कार्यं सपिण्डीकरणं सुतैः॥' इति गोभिलोक्तेः। साग्नेः प्रेतस्य तु त्रिपक्षे, 'प्रेतश्चेदाहिताग्निः स्यात्कर्ताऽनग्निर्यदा भवेत्। सपिण्डीकरणं तस्य कुर्यात्पक्षे तृतीयके॥” इति सुमन्तूक्तेः। मदनरत्ने लघुहारीतोऽपि– 'अनग्निस्तु यदा वीर भवेत्कुर्यात्तदा गृही। प्रेतश्चेदग्निमांस्तु स्यात्रिपक्षे वै सपिण्डनम्॥ ' द्वयोः साग्निकत्वे द्वादशाह एव, 'साग्निकस्तु यदा कर्ता प्रेतो वाऽप्यग्निमान् भवेत्। द्वादशाहे तदा कार्यं सपिण्डीकरणं पितुः॥' इति तेनैवोक्तेः।
द्वयोरनग्निमत्त्वे तु भविष्ये– 'सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान्। अनाहिताग्नेः प्रेतस्य पूर्णेऽन्दे भरतर्षभ॥ द्वादशेऽहनि षण्मासे त्रिपक्षे वा त्रिमासि वा। एकादशेऽपि वा मासि मङ्गलस्याप्युपस्थितौ॥' कात्यायन-गोभिलौ– 'यदहर्वा वृद्धिरापद्येत' इति। तच्च वृद्धिदिन एवेति वाचस्पतिः, –तन्न; 'प्रातर्वृद्धिनिमित्तकम्' इति नियमात्सपिण्डनस्य चापराह्नकालीनत्वेन पूर्वत्वबाधापत्तेः। वृद्धिदिने तत्पूर्वदिने वेति श्रीदत्तः। स्मार्तगौडस्तु– 'वृद्धिपूर्वो वर्षान्त्यश्च क्षणः सपिण्डनस्य प्रेतत्वनाशे सहकारी। तेन परेद्युर्विघ्नाद्वृद्ध्यभावेऽपि तत्कर्तव्यतानिश्चयसहितमेव कालान्तरक्रियमाणवृद्धिपूर्वक्षणसहकृतं प्रेतत्वनाशकम्' इत्याह, -तन्न; अकाले कृतस्य फलाजनकत्वात्। एतेन निमित्तनिश्चयवत एवाधिकाराद्वृद्ध्यभावेऽपि न क्षतिरिति मिश्रोक्तिः परास्ता। वृद्धिपूर्वदिनस्य वर्षान्तस्य च कालस्याङ्गत्वेन निमित्तत्वाभावात्। तेन पुनः कार्यमित्यन्ये। मदनरत्ने पुलस्त्यः–'निरग्निकः सपि'ण्डत्वं पितुर्मातुश्च धर्मतः। पूर्णे संवत्सरे कुर्याद्वृद्धिर्वा यदर्भवेत्॥' चतुर्विंशतिमते– 'सपिण्डीकरणं चाब्दे सम्पूर्णेऽभ्युदयेऽपि वा। द्वादशाहे तु केषाञ्चिन्मतं चैकादशे तथा॥'
पृथ्वीचन्द्रोदये बौधायनः– 'अथ सपिण्डीकरणं, त्रिपक्षे वा तृतीये वा मासि, षष्ठे वैकादशे वा द्वादशे वा द्वादशाहे वैकादशाहे वा' इति। एतत्प्रक्रमे विष्णुः– 'मासिकार्थं द्वादशाहं श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्यात्। मत्रवर्ज्य हि शूद्राणाम्। द्वादशेऽह्नि संवत्सराभ्यन्तरे यद्यधिमासो भवेत्तदा मासिकार्थं दिनमेकं वर्धयेत्' इति। आशौचोत्तरं द्वादशस्वहस्सु मासिकानि। तेष्वेवाद्यषष्ठद्वादशदिनेषूनमासिकौदीनि कृत्वा त्रयोदशेऽह्नि सपिण्डनं कुर्यात्। अधिमासे तु चतुर्दशेऽह्नि कुर्यात्। शूद्रस्त्रयोदशे 'द्वादशेऽह्नि' इत्यस्य मासिकान्त्यदिन परत्वादिति पृथ्वीचन्द्रः। पैठीनसिः– 'संवत्सरान्ते सपिण्डनं नवमे मासीत्येके।' अत्र साग्नेरनग्नेर्वोक्तकालाभावे त्रिपक्षादिसंवत्सरान्ता अनुकल्पा ज्ञेयाः। कल्पतरुस्त्वग्रे वृद्धिनिश्चय एव सर्वेऽपकर्षप्रकारा इत्याह, तन्न; 'यदहर्वा' इति स्वातन्त्र्यश्रुतेः। यद्यपि वृद्धिनिमित्तोऽपकर्षो निरग्नेरेवोक्तस्तथापि साग्नावपि ज्ञेयः। उक्तकालासम्भवे वर्षान्तादिगौणकालवद्वृद्धेरपि प्राप्तेः, वक्ष्यमाणगोभिलवचनात्, 'अयातयामं मरणं न भवेत्पुन-रस्य तु।' इति दोषश्रुत्यविशेषाच्च । अपरार्क– पृथ्वीचन्द्रादिस्वरसोऽप्येवम्। अत्र ‘वृद्धि'पदं चूडोपनयनविवाहमात्रपरम्। सीमन्तादौ तु वृद्धिश्राद्धलोप एवेत्याचार्यचूडामणिः। पुंसवनाद्यन्नप्राशनान्तेष्वावश्यकेष्वपकर्ष इति श्राद्धविवेकः। स्मृतिसागरेऽपि बृहस्पतिः– 'प्रत्यवायो भवेद्यस्मिन्नकृते वृद्धिकर्मणि। तन्निमित्तं समाकृष्य पित्रोः कुर्यात्सपिण्डनम्॥' गर्भाधानस्य ऋत्वन्तरेऽपि सम्भवात्। 'अन्यश्राद्धं परान्नं च गन्धमाल्यं च मैथुनम्।' इति देवलेन प्रथमान्दे मैथुननिषेधाच्च न तत्रापकर्ष इति श्राद्धकौमुद्यादयः,– तन्न; 'ऋतुस्नातां तु यो भार्याम्' इति निषेधात्। 'ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रश्च वर्जयेत्' इति मैथुने दोषाभावाच्च। पितामहमरणे पौत्रस्य वृद्धौ नापकर्षः; तस्य महागुरु त्वाभावात्। तत्र तदूर्ध्वेभ्यो वृद्धिश्राद्धमिति श्राद्धचन्द्रिका, –तन्न; 'भ्राता च' इत्यादौ तदभावेऽप्यपकर्षोक्तेः। तेन निर्देशोऽप्युपलक्षणम्।
व्याघः– 'आनन्त्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात्। अस्थितेश्च शरीरस्य द्वा-
दशाहः प्रशस्यते॥' -एतदाशौचान्तोपलक्षणम्। 'सर्वेषामेव वर्णानामाशौचान्ते सपिण्डनम्।' इति निर्णयामृते कात्यायनोक्तेः। सर्वेषामिति त्रैवर्णिकपरम्। शूद्राणां त्वाशौचमध्ये; 'मत्रवर्जं हि शूद्राणां द्वादशेऽह्नि कीर्तितम्।' इति विष्णूक्तेः। एतदर्शश्राद्धकारिशूद्रविषयमित्यपरार्के कल्पतरौ च। वृद्धमनुः– 'द्वादशेऽहनि विप्राणामाशौचान्ते तु भूभुजाम्। वैश्यानां तु त्रिपक्षादावथ वा स्यात्सपिण्डनम्॥'
द्वादशाहादिष्वकृते सपिण्डने निर्णयः।—
निर्णयामृते गोभिलः– 'द्वादशाहादिकालेषु प्रमादादननुष्ठितम्। सपिण्डीकरणं कुर्यात्कालेषूत्तरभाविषु॥ इदं साग्ने रक्तकालासम्भवे गौणकाल विधानार्थमिति मदनपारिजातः।मदनरत्नेऽप्येवम्। ऋष्यशृङ्गः– 'सपिण्डीकरणं श्राद्धमुक्तकाले न चेत्कृतम्। रौद्रे हस्ते च रोहिण्यां मैत्रभे वा समाचरेत्॥' कालादर्शेऽपि– 'एकादशे द्वादशेऽह्नि त्रिपक्षे वा त्रिमासि वा। चैकादशे वाऽब्दे सम्पूर्ण वा शुभागमे॥ सपिण्डीकरणस्येत्थमष्टौ कालाः प्रकीर्तिताः। साग्नौ कर्तर्युभावाद्यौ प्रेते सानौ तृतीयकः॥ अननेस्तु द्वितीयाद्याः सप्त काला मुनीरिताः। रोहिणीरौद्रहस्तेषु मैत्रभे वापि तच्चरेत्॥' नारदसंहितायां तु– 'सपिण्डीकरणं कार्यं वत्सरे वाऽर्धवत्सरे। त्रिमासे वा त्रिपक्षे वा मासि वा द्वादशेऽह्नि वा॥' इत्युक्तं, –तच्च वत्सरेऽतीते ज्ञेयम् ; 'ततः सपिण्डीकरणं वत्सरात्परतः स्थितम्।' इति भविष्योक्तेः, 'पितुः सपिण्डीकरणं वत्सरादूर्ध्वतः स्थितम्।' इति नागरखण्डोक्ते', 'पितुः सपिण्डी-करणं वार्षिके मृतिवासरे।’ इत्युशनसोक्तेश्च, 'पूर्णे संवत्सरे पिण्डः षोडशः परिकीर्तितः। तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यते॥” इति हेमाद्रौ वचनाच्च। अस्यानाकरत्वोक्तिमूर्खोक्तिरेवं। यत्तु– 'पूर्णे संवत्सरे कुर्यात् सपिण्डीकरणं सुतः। एकोद्दिष्टं च तत्रैव मृताहनि समापयेत्॥' इति धवलनिबन्धे जाबाल्युक्ते', 'पुत्रः सपिण्डनं कृत्वा कुर्यात्स्नानं सचैलकम्। एकोद्दिष्टं ततः कुर्यात् कुतपं न विचारयेत्॥' इति स्वल्पमात्स्योक्तेश्याब्दिकं, तद्दिने पुनः कार्यमिति केचित्, -ते निर्मूलत्वाद्धेमाद्रिविरोधाच्चोपेक्ष्याः। षोडशत्वं च सपिण्डनस्य षोडशश्राद्धान्तर्भावपक्षे।स्मृत्यर्थसारे तु वर्षान्त्यदिने संवत्सरविमोक्षश्राद्धं सपिण्डनं च कृत्वा परेद्युर्मृताहे वार्षिकं कायमित्युक्तम् ; गाडौ अप्येवमाहुः, - तत्पूर्वविरोधाच्चिन्त्यम्।
तच्च पुत्रे सति नान्यः कुर्यात् ; 'श्राद्धानि षोडशादत्त्वा नतु कुर्यात्सपिण्डताम्। प्रोषितावसिते पुत्रः कालादतिचिरादपि॥” इति वायवीयोक्तेः। षोडशश्राद्धानां वर्षादूर्ध्वं कालाभावेऽपि तान्यदत्त्वा न कुर्यात्, किन्तु दत्त्वैव। तानि यदि कनिष्ठभ्रात्रादिना कृतानि तदा सपिण्डनमेव कुर्यादित्यपराकः। सपिण्डने तु कनिष्ठानां नैवाधिकार इत्यर्थः। तत्रैव - 'अज्ञानादथवा मोहान्न कृता चेत्सपिण्डता। तत्रापि विधिवत्कार्या कालादतिचिरादपि॥' तेष्वपि ज्येष्ठस्यैवाधिकारः ; - 'ज्येष्ठेन जातमात्रेण पुत्रीभवति मानवः।' इति मनुक्तेः। अपरार्के प्रचेता अपि– 'एकादशाद्याः क्रमशो ज्येष्ठस्तु विधिवत्क्रियाः। कुर्याशः श्राद्धमाब्दिकं तु पृथक्पृथक्॥' मरीचिः– 'सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत्कृतम्। द्रव्येण चाविभक्तेन सर्वैरव कृतं भवेत्॥' यत्तु– वाचस्पति-शूल-पाणिभ्यामुक्तं द्रव्यदानानुमत्यभावे कनिष्ठैः पृथक्कार्यमिति, तन्न; एवकारस्य तदभावेऽपि पृथक्करणाभावार्थत्वात्, अन्धादेवि ज्येष्ठे सति कनिष्ठानामनधिकाराच्च। अतस्तेषां प्रत्यवायमात्रम्। आहिताग्निः कनिष्ठस्तु कुर्यादेव; अन्यथा पितृयज्ञांसिद्धेः। एवमावश्यकवृद्धावपि कनिष्ठोऽन्यः सपिण्डो वा कुर्यात्। 'भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव च। सहपिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः॥ तथैव काम्यं यत्कर्म वत्सरात्प्रथमादृते॥” इति मदनरत्ने लघुहारीतवचनात्। वृद्ध्यनन्तरं प्रथमाब्दमध्येऽपि काम्यं कुर्यात्, वृद्ध्यभावे तु प्रथमाब्दादूर्ध्वमेवेत्यर्थः। काम्योक्तेरनावश्यकेष्टापूर्तादौ नापकर्षः। एतद्भातृपुत्रादिसंस्कारे प्राप्ताधिकारस्य नान्दीश्राद्धाधिकारार्थम्। 'अभ्युदय' पदं च नान्दीश्राद्धनिमित्तकर्ममात्रपरमिति हेमाद्रिः। तेन ज्येष्ठे देशान्तरस्थे कनिष्ठः सपिण्डनं विनैव वृद्धिं कृत्वा पुत्रसंस्कारं कुर्यादिति श्रीदत्तोक्तिः परास्ता। भ्रातृशिष्याद्युक्तेर्नान्दीश्राद्धेज्यदेवतामात्र-परोऽपकर्ष इत्यव्यपास्तम्। अस्य क्रममात्रपरत्वाद्वृद्धिकर्तैव सपिण्डनं कुर्यादिति न नियम इति गौडाः। अत एव कन्याया मातृमरणे भ्रात्रा सपिण्डने कृते पितुर्दानाधिकारः।
शूलपाणिस्तु– 'महागुरौ प्रेतभूते वृद्धिकर्म न युज्यते।' इति निषेधात् मृतस्य भ्रात्रादिः सपिण्डनं कृत्वा तत्पुत्रकन्यादेरभ्युदयं कुर्यान्न तु स्वपुत्रसंस्कारे संस्कार्यपितुः सपिण्डनं विना वृद्धौ देवतात्वाभावादित्याह, तन्न; देवताप्रयुक्तापकर्षस्य निरस्तत्वात्। वृद्धिं विना कनिष्ठेन कृते तु विदेशस्थेन ज्येष्ठेन पुनः कार्यम्; 'यवीयसा कृतं कर्म प्रेतशब्दं विहाय तु। तज्ज्यायसापि कर्तव्यं सपिण्डीकरणं पुनः॥' इति स्मृतेः। 'ज्येष्ठेन वा कनिष्ठेन सपिण्डीकरणे कृते।' आद्यपादे 'मातापित्रोः कनिष्ठेन' इति वा पाठः। 'देशान्तरगतानां च पुत्राणां तु कथं भवेत्। श्रुत्वा तु वपनं कार्यं दशाहान्तं तिलोदकम्॥ ततः सपिण्डीकरणं कुर्यादेकादशेऽहनि। द्वादशाहे न कर्तव्यमिति शातातपोऽब्रवीत्॥' इति वचनाच्चेति भट्टाः। सिङ्गाभट्टीयेऽप्येवम्। पूर्ववचनेऽत्र च मूलं चिन्त्यम्। स्मृत्यर्थसारे तु– 'विभक्ता ऋद्धिकामाश्चेत्पुत्राः पृथक्सपिण्डीकरणं कुर्युः' इत्युक्तम्। अत्र दत्तकस्य तत्पुत्रादीनां विशेषः प्रागुक्तः। केचित्तु– वृद्धिं विनापि कनिष्ठस्य सपिण्डनमाहुः; 'मातापित्रोर्मृतेः काले ज्येष्ठे देशान्तरस्थिते। कनिष्ठेन प्रकर्तव्यं सपिण्डीकरणं तथा॥” इति कार्ष्णाजिनिस्मृतेः, 'गते वा रोधिते ज्येष्ठे पित्रा वा प्रेषिते सति। षण्मासान्न निवर्तेत तदा कार्ये कनीयसा॥' संवर्तः– 'पुनः सपिण्डीकरणं श्राद्धं पार्वणवच्चरेत्। अर्ध्यसंयोजनं नैव पिण्डसंयोजनं न च॥' इति, ते वचसां निर्मूलत्वात् 'प्रोषितावसिते पुत्रे' इत्यादिविरोधाचोपेक्ष्याः।
व्युत्क्रममृत्तौ सपिण्डनम् ।—
व्युत्क्रममृतौ तु हेमाद्री ब्राह्मे– मृते पितर यस्याथ विद्यते च पितामहः। तेन देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः॥ तेभ्यश्च पैतृकः पिण्डो नियोक्तव्यस्तु पूर्ववत्। व्युत्क्रममृतौ मातर्यथ मृतायां च विद्यते च पितामही। प्रपितामहीपूर्वस्तु कार्यस्तत्राप्ययं विधिः॥' एवं प्रपितामहजीवने तत्पित्रादिभिर्ज्ञेयम्। तदाह सुमन्तुः– 'त्रयाणामपि पिण्डानामेकेनापि सपिण्डने। पितृत्वमश्नुते प्रेत इति धर्मों व्यवस्थितः॥' यत्तु– 'व्युत्क्रमात्तु प्रमीतानां नैव कार्या सपिण्डता' इति, –तन्मातापितृभर्तृभिन्नविषयम्; 'व्युत्क्रमेण मृतानां न सपिण्डीकृतिरिष्यते। यदि माता यदि पिता भर्ता नैष विधिः स्मृतः॥' इति माधवीये स्कान्दोक्तेः। मदनरत्नादौ चैवम्। अत्र 'प्रपितामहादिभिः पितुः सपिण्डने कृते पितामहे मृते तत्सपिण्डने सति पुनस्तेन सह पितुः सपिण्डनं कार्यम्' इति हेमाद्रिर्मतमाह। अन्ये नैतन्मन्यन्ते। तत्त्वं तु - 'पितुः सपिण्डनाभावे पितामहेन सह पुनः कार्यं, न तत्सत्त्वे; 'त्रयाणामपि पिण्डानामेकेनापि सपिण्डने। पितृत्वमश्नुते प्रेत इति धर्मो व्यवस्थितः॥' इति विष्णुधर्मोक्तेः। 'पितामहे प्रपितामहे वा पुत्रान्तरैरसंस्कृतेऽप्यसंस्कृताभ्यामेव पितुः सपिण्डनं कुर्यात्; 'असंस्कृतौ न संस्कार्यो पूर्वौ पौत्रप्रपौत्रकैः । पितरं तत्र संस्कुर्यादिति कात्यायनोऽब्रवीत्॥' इति छन्दोगपरिशिष्टात्। असंस्कृतौ दाहाद्यैरिति केचित्। असपिण्डीकृताविति तु तत्त्वम् ; अत एवोक्तं तत्रैव– 'पापिष्ठमपि शुद्धेन शुद्धं पापकृतापि वा। पितामहेन पितरं संस्कुर्यादिति निश्चयः॥' पापिष्ठमकृतसपिण्डनं न तु पतितादि, 'अभिशस्तपतितभ्रूणघ्नाः स्त्रियश्चातिचारिणीर्न संसृजेत्' इति बैजवापोक्तेः 'पापकर्मिणो न संसृजेरन्' इति गौतमोक्तेश्वेत्युक्तं निर्णयानृते॥
पूर्वयोः पुत्राभावे तु पौत्रः कुर्यादेव; 'पितामहः पितुः पश्चात्पञ्चत्वं यदि गच्छति। पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम्॥ नैतत्पौत्रेण कर्तव्यं पुत्रवांश्चेत्पितामहः। पितुः सपिण्डतां कृत्वा कुर्यान्मासानुमासिकम्॥' इति कात्यायनोक्तेः। अपरार्के शूलपाणौ चैवम्। तेन सपिण्डनस्यानित्यत्वादकृतसपिण्डनयोरेव पार्वणानुप्रवेश इति मूर्खोक्तिः परास्ता; ‘कृते सपिण्डीकरणे प्रेतः पार्वणभाग्भवेत्।' इति हारीतविरोधाच्च। केचित् पुत्रान्तराभावे पितामहवार्षिकमप्याहुः, - तन्न; श्राद्धषोडशमिति नियमात्। इच्छया भवत्येव; 'पितामहस्य चेद्दद्यादेकोद्दिष्टं न पार्वणम्' इति वाचस्पतिधृतगर्गोक्तेः । त्रयाणां यौगपद्ये तु प्राधान्यात्पितुः सपिण्डनं कृत्वा पूर्वयोः कुर्यात्। पितामहे मृते दशाहान्तः पितृमृतौ पितुः संस्कारं कृत्वा पितामहस्य पुनः सर्वमावर्तयेत्। वृत्ते दशाहे नैवम्। अशक्त्या पित्रानुज्ञातेन पौत्रेण पितामह श्राद्धे प्रक्रान्ते पितृमृतौ तदाशौचं वहन्नेव पौत्रः पितामहकर्म कुर्यात्प्रान्तत्वादिति मदनपारिजात-पृथ्वीचन्द्रौ। यत्तु - 'उत्तरात्रितयरौद्ररोहिणीयाम्यसर्पपितृभेषु चाग्निभे। श्मश्रुकर्म सकलं च वर्जयेत्प्रेतकार्यमपि बुद्धिमान्नरः॥' इति सपिण्डनप्रकरणे पाठान्मुख्यकाले निषिद्धर्क्षे सपिण्डनापकर्षः। सर्वकालेषु तद्वत्त्वे तद्वर्ज्यान्येव। पूर्वोक्तब्रह्मोक्तानि षोडशश्राद्धानि कार्याणीति वाचस्पतिमिश्राः, –तन्न; अस्य परिभाषात्वेन वाक्यात्सावकाश कर्मपरत्वात्, अस्य प्रेतमात्रदैवत्याभावाच्च॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा