🕉️ 24 November 2026, Tuesday · 08:07:54 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 84/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

स्त्रीषूच्यते

अथ स्त्रीषूच्यते। हेमाद्रौ बृहस्पतिः– 'भर्तृगोत्रेण नाम्ना च मातुः कुर्यात्सपिण्डनम्'। यत्तु -भविष्ये 'पितृगोत्रं समुत्सृज्य न कुर्याद्भर्तृगोत्रतः।' इति, -तदासुरादिविवाहोढापरम् ; 'आसुरादिविवाहेषु पितृगोत्रेण धर्मवित्।' इति वृद्धशातातपोक्तेः। तच्चानेकवचनेषु पितामह्या पत्या मातामहेन वा सहोक्तम्। तत्र व्यवस्थोक्ता भविष्ये– 'जीवत्पिता पितामह्या मातुः कुर्यात्सपिण्डनम्। प्रमीतपितृकः पित्रा तत्पित्रा पुत्रिकासुतः॥' तत्पित्रा = मातुः पित्रा। लौगाक्षिः– 'पितामह्यादिभिः सार्धं मातरं तु सपिण्डयेत्। पितरि ध्रियमाणे तु तेनैवोपरते सति॥' शङ्खः– 'मातुः सपिण्डीकरणं कथं कार्यं भवेत्सुतैः। पितामह्यादिभिः सार्धं सपिण्डीकरणं स्मृतम्॥' येन केनापि मातुः सापिण्ड्ये यत्रा-न्वष्टकादौ मातुः श्राद्धं पृथगुक्तं, तत्र पितामह्या सह कार्यम्; 'नान्दीमुखेऽष्टका श्राद्धे गयायां च मृतेऽहनि। पितामह्यादिभिः सार्धं मातुः श्राद्धं समाचरेत्॥' इति शातातपोक्तेः। अपुत्रायां तु पैठीनसिः– 'अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम्। श्वश्र्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत्॥” इति। यत्तु - लघुहारीतः 'पुत्रेणैव तु कर्तव्यं सपिण्डीकरणं स्त्रियाः। पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्रादयोऽपि ये॥' इति, यच्चमार्कण्डेयपुराणे 'सपिण्डीकरणं स्त्रीणां पुत्राभावे न विद्यते।' इति, - तत् पुत्रपत्यभावे ज्ञेयम्। अत्र सपत्नीपुत्रोऽपि ज्ञेयः; 'बह्वीनामेकपत्नीनामेका चेत्पुत्रिणी भवेत्। सर्वा-स्तास्तेन पुत्रेण ग्राह पुत्रवतीर्मनुः॥' इति मनूक्तेरेतत्परत्वात्। यत्तु–शातातपः 'मृते पितरि मातुस्तु न कार्या सहपिण्डता। पितुरेव सपिण्डत्वे तस्या अपि कृतं भवेत्॥' इति, - तदशक्तपरम्; केषाञ्चिद्वा मतमिति हेमाद्रिः।

अन्वारोहणे तु भर्त्रैव सापिण्ड्यम्; 'मृता याऽनुगता नाथं सा तेन सहपिण्डताम्। अर्हति स्वर्गवासं च यावदाभूतसम्प्लवम्॥' इति शातातपोक्तेः। 'पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः। सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैः॥' इति यमोक्तेश्च। अत्रैकशब्दः पितामह्यादिपक्षनिवृत्त्यर्थः। 'पति' पदं वर्गपरम्। सपिण्डनस्य पार्वणैकोद्दिष्टरूपत्वादिति माधव-कल्पतरु-मदनरत्नादयः। अन्ये तु भर्त्रैवैकेना हु :– 'स्वेन भर्त्रा सहैवास्याः सपिण्डीकरणं भवेत्।' इत्येवकारश्रवणात्। पृथ्वीचन्द्रोदयेऽपि विकल्प उक्तः। इदं तु तत्त्वम्– यदा हेमाद्यादिमते द्वयोरेकः पिण्डस्तदा वर्गेण सह। यदा माधवपृथ्वीचन्द्रादिमते पृथक्पिण्डस्तदैकेन पत्यैकवचनाच्चैकेनापि। अतो मातृपिण्डमसपिण्डीकृतेनैव पतिपिण्डेन संयोज्यैकीकृतं पिण्डद्वयं तत्पित्रादिभिः संयोजयेत्। अन्त्यपक्ष एव युक्तः। स्मृत्यर्थसारे तु– 'अन्वारोहणेनैक दिनमरणे स्त्रियाः पृथक्सपिण्डनं नास्ति। भर्तुः कृते स्त्रिया अपि कृतं भवति' इत्युक्तम्, –तन्मतान्तरमस्तु। इदं ब्राह्मादिविवाहेषु ज्ञेयम्।

आसुरादिषु तु शातातपः– 'तन्मात्रा तत्पितामह्या तच्छ्वश्व्रा वा सपिण्डनम्। आसुरादिविवाहेषु विन्नानां योषितां भवेत्॥' मातामह्या मातुः पितामह्या तत्प्रपितामह्या चेत्यर्थः। सुमन्तु– 'पिता पितामहे योज्यः पूर्णे संवत्सरे सुतैः। माता मातामहे तद्वदित्याह भगवाञ्छिवः॥' इदमासुरादिपरं पुत्रिकापुत्रपरं चोक्तं प्राक्। हेमाद्रिस्तु ब्राह्मादिष्वपि सर्वत्र देशभेदाद्विकल्पमाह। अत एव गुर्जरेषु कोकिलमतानुसारिणां मातृमातामहप्रमातामहा इति श्राद्धप्रयोगः सपिण्डनं च दृश्यते। हेमाद्रावापस्तम्बोऽपि– 'कोकिलस्य यथा पुत्रा अन्यसञ्चयजीविनः। पुष्टास्ते स्वकुलं यान्ति एवं नारी मृता सती॥ यदपि - विज्ञानेश्वरो मातामहेन मातुः सापिण्ड्ये पितृश्राद्धवन्मातृश्राद्धं नित्यमित्याह, यच्च वृद्धिश्राद्धे छन्दोगपरिशिष्टम्। 'षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्' इति, तदेतद्विषयमेव; मातुः पृथक् श्राद्धाभावात्। अत एव हेमाद्रो भविष्ये मातुः सपिण्डनं प्रक्रम्य–'उदितेऽनुदिते चैव होमभेदो यथा भवेत्। तथा कुलक्रमायातमाचारं च चरेद्बुधः॥' इत्युक्तम। अस्य वृद्धावपवादमाह तत्रैव व्याघपात्– 'कुर्यान्मातामहश्राद्धं सर्वदा मातृपूर्वकम्। विधिज्ञो विधिमास्थाय वृद्धौ मातामहादिवत्॥' केचिदेतत् पुत्रिकापुत्रपरमाहुः।

पत्युः सापिण्ड्यमाह लौगाक्षिः– 'सर्वाभावे स्वयं पत्न्यः स्वभर्तॄणाममन्त्रकम्। सपिण्डीकरणं कुर्युस्ततः पार्वणमेव च इति। यत्तु– वचनम् 'अपुत्रस्य परेतस्य नैव कुर्यात्सपिण्डताम्।' इति, यच्चापस्तम्बः– 'अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा। तेषां सपिण्डनाभावादेकोद्दिष्टं न पार्वणम्॥' इति, -तत् पुत्रोत्पादनविधिप्रशंसार्थमिति माधवः। 'सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं विधीयते। अपुत्राणां च सर्वेषामपत्नीनां तथैव च॥' इति हेमाद्री प्रचेतसोक्तेश्च। अन्ये तु द्विविधवाक्यदर्शनाद्विकल्पमाहुः।स्मृत्यर्थसारेऽपि 'ब्रह्मचारिणामनपत्यानां च सपिण्डनं नास्ति, तेषां सदैकोद्दिष्टमेव, व्युत्केममृतानां सापिण्ड्यं कार्यं न वा। केचित्सर्वत्र सपिण्डनमाहुरिति। अपुत्रे व्युत्क्रममृते विशेषो रेणुकारिकायाम्– 'भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा। सपिण्डीकरणं कुर्यात् पुत्रहीने मृते सति॥ सर्वबन्धुविहीनस्य पत्नी कुर्यात्सपिण्डताम्। ऋत्विजं कारयेद्वापि पुरोहितमथापि वा॥ वसुरुद्रादितिसुतैः कार्या तेषां सपिण्डता। व्युत्क्रमाच्च प्रमीता ये तद्विना प्रेतता ध्रुवम्॥ पुनः सपिण्डनं तेषां कुर्यात्प्रे पितामहे॥” इति। अत्र मूलं मृग्यम्। यतीनां सपिण्डनं नास्ति किन्त्वेकादशेऽह्नि पार्वणं कार्यम्। तदपि त्रिदण्डिनः। एकदण्ड्यादीनां तदपि नेत्युक्तं प्राक्। दण्डग्रहणात्पूर्वं मृते तु दाहादिसपिण्डनान्तं सर्वं कार्यमिति भट्टचरणाः।

सपिण्डनविधिमाह बैजवापः– 'समाप्ते संवत्सरे चत्वार्युदपात्राणि प्रयुनक्ति एकं प्रेताय, त्रीणि पितृभ्यः प्रेतपात्रं पितृपात्रेष्वासिञ्चति 'ये समाना' इति द्वाभ्यामेवं पिण्डोऽथाभिमृशति 'एष वोऽनुगतः प्रेतः पितरस्तं ददामि वः। शिवं भवतु शेषाणां जायन्तां चिरजीविनः॥’ ‘समानी वः’ ‘सङ्गच्छध्वं संवदध्वम्' इति द्वाभ्याम् इति। यद्यपि 'तच्चापि देवरहितमेकार्ध्यैकपवित्रकम्। नैवाग्नौकरणं तत्र तच्चावाहनवर्जितम्॥' इति मार्कण्डेयेनोक्तम्, तथापि–'सपिण्डीकरणं श्राद्धं दैवपूर्वं नियोजयेत्।' इत्यादिविरोधाद्विकल्पः, प्रेतांशे वा ज्ञेयम्। अत्र कामकालौ विश्वेदेवावपीत्युक्तं प्राक्।मैत्रायणीयपरिशिष्टे–'पित्र्यविप्रकरे होमः साग्नेरपि भवेदिह।' यत्तु– गोभिलः 'अनुक्तकालेष्वपि तु व्युत्क्रमेण मृतावपि। आमेन वापि सापिड्यं हेम्ना वापि प्रकल्पयेत्॥' इति, - तदापदि मातापितृभिन्नपरम्; 'आन्नोऽपि न कुर्वीत श्राद्धमामेन कर्हिचित्।' इति तेनैवोक्तेः। शुद्धितत्त्वे कामधेनौ च लघुहारीतः–'सपिण्डीकरणं यावत्प्रेतश्राद्धं तु षोडशम्। पक्कान्नेनैव कर्तव्यं सामिषेण द्विजातिभिः॥' विश्वप्रकाशे– 'प्रेतः सपिण्डनादूर्ध्वं पितृलोकेऽनुगच्छति। कुर्यात्तस्य तु पाथेयं द्वितीयेऽह्नि सपिण्डनात्॥' स्मृत्यर्थसारेऽप्येवम्। ततो वृद्धिश्राद्धं कुर्यात्। एतन्मलमासेऽपि कार्यम्; ‘अधिमासे न कर्तव्यं श्राद्धमाभ्युदयं तथा। तथैव काम्यं यत्कर्मवत्सरात्प्रथमादृते॥' इति हेमाद्री हारीतोक्तेः॥

इति भट्टकमलाकरकृते निर्णयसिन्धौ सपिण्डीकरणम्॥

प्रथमाब्दे निषिद्धानि

अथ प्रथमाब्दे निषिद्धानि। हेमाद्रौ– 'स्नानं चैव महादानं स्वाध्यायं चाग्नितर्पणम्। प्रथमाब्दे न कुर्वीत महागुरुनिपातने॥' अग्नितर्पणं लक्षहोमादि, नत्वाधानम्। तत्तु प्रथमादे भवत्येव। तदाह हेमाद्रावुशनाः– 'पितुः सपिण्डीकरणं वार्षिके मृतवासरे। आधानाद्युपसम्प्राप्तावेतत्प्रागपि वत्सरात्॥' अन्यतर्पणमिति शुद्धितत्वे पाठः। 'आदि' पदं वृद्धिनिमित्तनित्यकर्मपरम्। दिवोदासीये– 'महातीर्थस्य गमनमुपवासव्रतानि च। संवत्सरं न कुर्वीत महागुरुनिपातने॥' इदं श्राद्धकौमुद्यां देवीपुराणस्थमुक्तम्। गौडनिबन्धे मात्स्ये– 'सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभुग्भवेत्। वृद्धीष्टापूर्तयोग्यश्च गृहस्थश्च सदा भवेत्।' वर्षान्तसपिण्डनाभावे नाधिकारीत्यर्थः। गृहस्थः सपिण्डोऽपीत्यर्थः। अत एव - प्रेतकर्माण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम्। आचतुर्थं, ततः पुंसि पञ्चमे शुभदं भवेत्॥' इति ज्योतिषे उक्तम्। माधवीये देवलः– 'प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत्। न दैवं नापि वा पित्र्यं यावत्पूर्णो न वत्सरः॥ इदं वर्षान्तसपिण्डनपरम्; 'तथैव काम्यं यत्कर्म वत्सराप्रथमादृते' इति लघुहारीताद्येकवाक्यत्वात्। वृद्धिनिमित्तापकर्षे तु वर्षमध्येऽपि काम्यादि भवत्येवेति गौडाः। पित्र्यं= सपिण्डनम्। अत एव लौगाक्षिः– 'अन्येषां प्रेतकार्याणि महागुरुनिपातने। कुर्यात्संवत्सरादर्वाक् श्राद्धमेकं तु वर्जयेत्॥' दाहाद्येकादशाहान्तं कार्यम्। तत्राशौचान्तरस्याप्रतिबन्धकत्वात्। 'आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि' इत्युक्तेश्च। एकं = सपिण्डनम्।

पत्न्यादौ त्वपवादमाह माधवीये ऋष्यशृङ्गः– 'पत्न्या पुत्रस्य तत्पुत्रभ्रात्रोस्तत्तनयस्य च। स्रुषास्खस्रोश्च पित्रोश्च सङ्घातमरणं यदि॥ अर्वागब्दान्मातृपितृपूर्वं सापिण्ड्यमाचरेत्॥' लौगाक्षिः– 'पत्नी पुत्रस्तथा पौत्रो भ्राता तत्पुत्रका अपि। पितरौ च यदैकस्मिन् म्रियेरन्वासरे तदा॥आद्यमेकादशे कुर्यात्रिपक्षे तु सपिण्डनम्॥ धवलनिबन्धे– 'महागुरुनिपाते तु प्रेतकार्यं यथाविधि। कुर्यात्संवत्सरादर्वागेकोद्दिष्टं न पार्वणम्॥' भृगुः– 'माता चैव तथा भ्राता भार्या पुत्रस्तथा स्रुषा। एषां मृतौ चरेच्छ्राद्धमन्यस्य न पुनः पितुः॥' –एतदपि सपिण्डनपरम्। पितुर्मृतावन्यस्य श्राद्धं न चरेदित्यर्थः।शुद्धितत्त्वे श्राद्धकौमुद्यां च देवलः– 'अन्यश्राद्धं परान्नं च गन्धमाल्यं च मैथुनम्। वर्जयेद्गुरुपाते तु यावत्पूर्णो न वत्सरः॥' पारस्करभाष्ये बृहस्पतिः– 'पितर्युपरते पुत्रो मातुः श्राद्धान्निवर्तते। मातर्यपि च वृत्तायां पितृश्राद्धाहते समम्॥' समं पितरं विनाऽन्यश्राद्धं नेत्यर्थः। शुद्धि तत्त्वे देवलः– 'महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत्। आर्त्विज्यं ब्रह्मचर्यं च श्राद्धं देवक्रियां तथा॥' - एतत्सपिण्डनात्प्रागिति केचित्। तदुत्तरमपीत्यन्ये। श्राद्धकौमुद्यां कालिकापुराणे पूर्वार्धे– 'विशेषतः शिवपूजां प्रमीतपितृको नरः। यावद्वत्सरपर्यन्तं मनसापि न चाचरेत्॥' केचित्तु– 'पित्रोरब्दमशौचं स्यात्षण्मासं मातुरेव च। त्रैमासिकं तु भार्यायास्तदर्धं भ्रातृपुत्रयोः॥' इति स्मृतेः सापत्नमातुरब्दार्धमाहुः। श्राद्धकौमुदीकारस्तु– द्वयोरेव महागुर्वोरब्दमेकमशौचकम्। नान्येषामधिकाशौचं स्वजातिविहितात्किल॥' इति समूलजातूकर्ण्यविरोधान्निर्मूलमाह। हेमाद्री भविष्ये– 'गयाश्राद्धं मृतानां तु पूर्णे त्वब्दे प्रशस्यते।' त्रिस्थली से तौ गारुडे– 'तीर्थश्राद्धं गयाश्राद्धं श्राद्धमन्यच्च पैतृकम्। अब्दमध्ये न कुर्वीत महागुरुविपत्तिषु॥' - इदं वृद्ध्यर्थसपिण्डनाभावे। वृद्धौ सपिण्डनापकर्षेऽब्दमध्येऽपि दर्शादि कार्यमेव; 'पितुः सपिण्डनं कृत्वा कुर्यान्मासानुमासिकम्।' इति छन्दोगपरिशिष्टात्, ‘सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभुग्भवेत्।' इति मात्स्यात्, 'ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते। विन्दते पितृलोकं च ततः श्राद्धं प्रवर्तते॥ इति हारीताच्चेति शूलपाणिः। यत्तु -कातीयम् 'सपिण्डीकरणादूर्ध्वं न दद्यात्प्रतिमासिकम्। एकोद्दिष्टविधानेन दद्यादित्याह शौनकः॥” इति। तत्रैको द्दिष्टविधिना न दद्यादित्यन्वयः। तुर्यपादेन पार्वणे विकल्प उक्तः। ब्रह्मवैवर्ते– 'उद्वाह श्योपनयनं प्रथमेऽन्दे महीपते। कृते सपिण्डनेऽप्यूर्ध्वमस्नां चोद्धरणं त्यजेत्॥ तथापि कर्तुमिच्छन्ति त्रीणि चैतानि वै सुताः। मासिकान्यवशिष्टानि चापकृष्य चरेत्पुनः॥'

अत्रेदं तत्त्वम्– वृद्धिं विनाऽर्वागपि सपिण्डनापकर्षे पितृत्वप्राप्तिर्वर्षान्त एव; 'कृते सपिण्डीकरणे नरः संवत्सरात्परम्। प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते॥' इति विष्णु-

सपिण्ड्यपकर्षः।—

धर्मोक्तेः। 'अर्वाक्संवत्सराद्यस्य सपिण्डीकरणं भवेत्। प्रेतत्वमिह तस्यापि विज्ञेयं वत्सरं नृप॥' इत्यग्निपुराणाच्च। तेन तत्सत्त्वेऽपि वृद्धिदेवपित्र्येष्वनाधिकारः। वृद्धिनिमित्ते त्वनन्तरमेव; 'अर्वाक्संवत्सराद्धौ पूर्ण संवत्सरेऽपि वा। ये सपिण्डीकृताः प्रेता न तेषां तु पृथक् क्रिया॥” इति शातातपोक्तेः। तथैव काम्यमिति हेमाद्रिधृतहारीतादिवशाच्चैवमिति। तथा– 'अस्थिक्षेपं गयाश्राद्धं श्राद्धं चापरपक्षिकम्। प्रथमेऽनब्दे न कुर्वीत कृतेऽपि तु सपिण्डने॥' अस्यापवादः– 'अस्थिक्षेपं गयाश्राद्धं श्राद्धं चापरपक्षिकम्। प्रथमेऽब्देऽपि कुर्वीत यदि स्याद्भक्तिमान्सुतः॥' भक्त्याख्यं श्राद्धं तद्वानिति मदनपारिजातादयः। अन्ये यथाश्रुतमाहुः। तत्त्वं तु यदीदं समूलं तदा वृद्धिं विनापकर्षे पूर्वं, वृद्ध्यर्थे तु परमिति योज्यम्। पतितानां गयायां विशेषो ब्राह्मे– 'क्रियते पतितानां च गते संवत्सरे क्वचित्। देशधर्मप्रमाणत्वाद्याश्राद्धं स्वबन्धुभिः॥'

पञ्चकमरणे निर्णयः ।—

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬