🕉️ 24 November 2026, Tuesday · 08:17:49 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 85/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

विधानानि

अथ विधानानि। तत्र पञ्चकमृते मदनरत्ने गारुडे– 'आदौ कृत्वा धनिष्ठार्धमेतन्नक्षत्रपञ्चकम्। रेवत्यन्तं सदा दूष्यमशुभं दाहकर्मणि॥ शवस्य च समीपे तु क्षेप्तव्याः पुत्तलास्तदा। दर्भमयास्तु चत्वार ऋक्षमन्त्राभिमन्त्रिताः॥ ततो दाहः प्रकर्तव्यस्तैश्च पुत्तलकैः सह। सूतकान्ते ततः पुत्रैः कार्यं शान्तिकपौष्टिकम्॥ पञ्चकेषु मृतो यो वै न गतिं लभते नरः। तिलांश्चैव हिरण्यं च तमुद्दिश्य घृतं ददेत्॥' क्रियानिबन्धे– 'भाजनोपानहौ छत्रं हैममुद्रां च वाससी। दक्षिणा दीयते विप्रे सर्वपातकमोचनी॥' मदनरत्ने गार्ग्यः– 'यदि भद्रातिथीनां स्याद्भानुभौमशनैश्वरैः। त्रिपादृक्षैश्च संयोगो द्वयोर्योगे द्विपुष्करः॥द्वित्रिपुष्करयोगे तु मृतिर्मृत्यन्तरावहा। दहने मरणे चैव त्रिगुणं स्यात्रिपुष्करे॥खननेऽप्येवमेव स्यादेतद्दोषोपशान्तये। तिलपिष्टैर्यवैर्वापि शरीरं कारयेत्ततः॥ शूर्पे निधायालङ्कृत्य दाहयेत्यैतृकोपरि॥ तद्दाहे मन्त्रमाह बौधायनः– 'अस्मात्त्वमिति मन्त्रेण तिलपिष्टं प्रदाहयेत्। द्वित्रिपुष्करयोर्दोषस्त्रिभिः कृच्छ्रर्व्यपोहति॥ वासवे मरणं चेत्स्याद्गृहे वापि पुनर्मृतिः। सुवर्णं दक्षिणां दद्यात्कृष्णवस्त्रमथापि वा॥' वासवं = धनिष्ठा। ब्राह्मे– 'कुम्भमीनस्थिते चन्द्रे मरणं यस्य जायते। न तस्योर्ध्वगतिर्दृष्टा सन्ततौ न शुभं भवेत्॥ न तस्य दाहः कर्तव्यो विनाशस्त्वेषु जन्तुषु। अथवा तद्दिने कार्यो दाहस्तु विधिपूर्वकम्॥ धनिष्ठापञ्चके जीवो मृतो यदि कथञ्चन। त्रिपुष्करे याम्यभे वा कुलजान्मारयेद्भुवम्॥ तत्रानिष्टविनाशार्थं विधानं समुदीर्यते। दर्भाणां प्रतिमाः कार्याः पञ्चोर्णापुत्रवेष्टिताः॥ यवपिष्टेनानुलिप्तास्ताभिः सह शवं दहेत्॥ प्रेतवाहः प्रेतसखः प्रेतपः प्रेतभूमिपः। प्रेतहर्ता पञ्चमस्तु नामान्येतानि च क्रमात्॥' अत्र प्रतिमा गन्धपुष्पैः पूजयित्वा प्रथमां शिरसि, द्वितीयां नेत्रयोः, तृतीयांवामकुक्षौ, चतुर्थी नाभौ, पञ्चमीं पादयोर्न्यस्य तदुपरि नामभिर्वृतं हुत्वा - 'यमाय सोमं, 'त्र्यम्बकम्' इति मन्त्राभ्यां प्रत्येकं तास्वाज्यं हुनेदिति भट्टाः। 'सूतकान्ते ततः पुत्रः कुर्याच्छान्तिकपौष्टिकम्। कांस्यपात्रस्थितं तैलं वीक्ष्य दद्याद्विजन्मने॥ ब्रह्मविष्णुमहेशेन्द्रवरुणप्रीतये ततः। माषमुद्द्यवत्रीहिप्रियङ्ग्वादि प्रयच्छति॥ स्वर्णदानं रुद्रजाप्यं लक्षहोमो द्विजार्चनम्। गोभूदानं षडंशेन कुर्याद्दोषोपशान्तये॥'

अपरार्के– 'धनिष्ठापञ्चकमृते पञ्चरत्नानि तन्मुखे। प्रास्याहुतित्रयं तत्र हुनेद्वहवपामिति॥ ततो निर्हरणं कुर्यादेष साग्नेविधिः स्मृतः। इतरं निखनेदेव जले वा प्रतिपादयेत्॥ त्रिपादर्क्षमृते तद्वद्धिरण्यशकलं मुखे। तस्य पिष्टमयं कुर्यात्पुरुषत्रितयं ततः। होमं प्रतिमुखं कुर्यात्तथा वहवपामिति। कार्णायसं च कार्पासं कुसुम्भं प्रतिपाद्य च। निर्यात्य सानिं संस्कुर्या व्यौ वाऽन्यमुत्सृजेत्॥' तत्रैव– 'कनकं हीरकं नीलं पद्मरागं च मौक्तिकम्। पञ्चरत्नमिदं प्रोक्तमृषिभिः पूर्वदर्शिभिः॥ रत्नानां चाप्यभावे तु स्वर्ण कर्षार्धमेव च। सुवर्णस्याप्यभावे तु आज्यं ज्ञेयं विचक्षणैः॥' मदनरत्नेऽप्येवम्। तथा– 'एकाशीतिपलं कांस्यं तदर्थं वा तदर्धकम्। नवषट्त्रिपलं वाऽपि दद्याद्विप्राय शक्तितः॥' तथाऽन्यत्र– 'स्वगृह्योक्तविधानेन कृत्वाग्नेः स्थापनं ततः। अन्वाधानं निर्वपणं देवतानां तथाहुतिः॥ यमाय धर्मराजाय मृत्यवे चान्तकाय च। वैवस्वताय कालाय सर्वभूतक्षयाय च॥ औदुम्बराय दनाय नीलाय परमेष्ठिने। वृकोदराय चित्राय चित्रगुप्ताय वै क्रमात्। विधिना श्रपणं कृत्वा एकैकामाहुतिं हुनेत्। कृष्णां गां कृष्णवस्त्रं च हैमनिष्कसमन्वितम्॥दद्याद्विप्राय शान्ताय प्रीतो भवतु मे यमः॥' त्रिपादर्क्षेऽप्येतदेव। अपरार्के–'पुनर्वसूत् राषाढा कृत्तिकोत्तरफाल्गुनी। पूर्वाभाद्रा विशाखा च ज्ञेयमेतत्रिपादभम्॥' मयूरचित्रे गर्गः– 'मृतः श्मशानं यो नीत उपजीवति मानवः। गृहे यस्य प्रविष्टोऽसौ तिष्ठेदथ कदाचन॥ अचिरान्मृत्युमायाति हृतदारपरिग्रहः। तत्र शान्तिं प्रवक्ष्यामि धर्मराजमतं यथा॥ सक्षीराणां घृताक्तानाम हुत्वा मुखे बुधः। औदुम्बराणां विधिवत्ततः शान्तिः कृता भवेत्॥ सावित्र्यष्टसहस्रेण क्षीरशान्ति च कारयेत्। कपिलां तिलकांस्यं च हुतान्ते भूरिदक्षिणा॥' इति।

ब्रह्मचारिमृतौ शौनकः

अथ ब्रह्मचारिमृतौ शौनकः– 'ब्रह्मचारिमृतौ रीतिं कथयामि समासतः। तत्रावकीर्णदोषस्य प्रायश्चित्तं प्रशान्तये॥ द्वादशाब्दं षडब्दं वा त्र्यब्दं शक्त्याऽथवा चरेत्। स्नातको ब्रह्मचारी च निधनं प्राप्नुयाद्यदि।संयोज्य चार्कविधिना संयोज्यौ तौ ततः परम्॥' देशकालौ स्मृत्वा 'अमुकगोत्राऽमुकनाम्नो मृतस्य ब्रह्मचारिणो व्रतविसर्गे करिष्ये' इत्युक्त्वा हेम्ना नान्दीश्राद्धं कृत्वामिं प्रतिष्ठाप्याघारान्ते चतसृभिर्व्याहृतिभिरमये व्रतपतये व्रतानुष्ठानसम्पादनाय विश्वेभ्यो देवेभ्यश्चाज्यं हुत्वा स्विष्टकृदादि समाप्य पुनर्देशकालौ स्मृत्वाऽर्कविवाहं करिष्ये इत्युक्त्वा हेम्ना नान्दीश्राद्धं कृत्वार्कशाखां शत्रं च हरिद्रयालिप्त्वा पीतसूत्रेण वस्त्रयुग्मेन चावेष्ट्यामिं प्रतिष्ठाप्याघारान्तेऽग्नये बृहस्पतये विवाहविधियोजकाय च– 'यस्मै त्वं कामकामाय' इति कामाय व्याहृतिभिश्राज्यं हुत्वा स्विष्टकृदादि समाप्यार्कशाखां शवं च दहेत्। विधानमालायाम्– 'येषां कुले ब्रह्मचारी निधनं प्राप्नु याद्यदि। तत्कुलं क्षयमाप्नोति सोऽपि दुर्गतिमाप्नुयात्॥ मृतस्य म्रियमाणस्य षडब्दं व्रतमादिशेत्॥ त्रिंशद्धयो ब्रह्मचारिभ्यो दद्यात्कौपीनकान्नवान्॥ हस्तमात्रान्कर्णमात्रान् दद्यात्कृष्णाजिनानि च। पादुकाछत्रमाल्यानि गोपीचन्दनमेव च। मणिप्रवालमालाश्च भूषणादि समर्पयेत्। एवं कृते विधाने च विघ्नः कोऽपि न जायते॥' –अत्र मूलं मृग्यम्॥

कुष्टिनो मरणे।—

कुष्ठिमृतौ तु यमः– 'मृतस्य कुष्ठिनो देहं निखनेगोष्ठभूमिषु। वासरत्रितयं पश्चादुद्धृत्यान्यत्र तं दहेत्॥ न गङ्गाप्लवनं कार्यं निक्षेपे विधिरुच्यते। षडब्दव्रतपूर्णेन विधिनाऽन्त्यम् ऋतुं चरेत्॥ ततोऽस्थिसञ्चयं तस्य गङ्गायां प्रक्षिपेत्सुधीः। मासि मासि ततः कुर्यान्मासिश्राद्धानि पार्वणान्॥ इत्येतत्कुष्ठिमरणे कथितं शास्त्रकोविदः॥' शुद्धितत्त्वे भविष्ये– 'श्रृणु कुष्ठिगणं विप्र उत्तरोत्तरतो गुरुम्। विचर्चिका तु दुश्चर्मा चर्चरीयस्तृतीयकः॥ विकचूर्वणताम्रौ च कृष्णश्वेते तथाष्टकम्॥' इत्युक्त्वा, –'मृते तु प्रापयेत्तीर्थमथवा तरुमूलकम्। न पिण्डं नोदकं कार्यं नच दानक्रियां चरेत्॥ षण्मासीयस्त्रिमासीयो मृतः कुष्ठी कदाचन। यदि स्नेहाच्चरेद्दाहं यतिचान्द्रायणं चरेत्॥' अकृतप्रायश्चित्तकुष्ठ्यादिदाहे इदं प्रायश्चित्तम्॥अत एव कुनख्यादिवत्कुष्ठिनोऽपि द्वादशरात्रं शूलपाणिनोक्तम्। अत एवान्यदीयकुष्ठिनो मरणान्तमाशौचमुक्तं कौर्मे– 'क्रियाहीनस्य मूर्खस्य महारोगिण एव च। यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्॥' महारोगास्तु–'वातव्याध्यश्मरीकुष्ठमहोदरभगन्दराः। अर्शंसि ग्रहणीत्यष्टौ महारोगाः प्रकीर्तिताः॥'इति॥

रजस्वलाप्रेतदाह।–

रजस्वलायास्तु वृद्धशातातपः– 'रजस्वलायाः प्रेतायाः संस्कारादीनि नाचरेत्। ऊर्ध्वं त्रिरात्रात्स्नातां तां शवधर्मेण दाहयेत्॥' अतः प्रक्षाल्य काष्ठवद्दग्ध्वा त्र्यहोर्ध्वं दहेत्॥ सङ्कटे तु मदनरत्ने स्मृत्यन्तरे– 'उदक्या सूतिका वापि मृता स्याद्यदि तां तदा। आशौचे त्वनतिक्रान्ते दाहयेदन्तरा यदि। उद्धृतेन तोयेन स्नापयित्वा तु मत्रतः। आपोहिष्ठेति तिसृभिर्हिरण्यवर्णाश्चतसृभिः। पवमानानुवाकेन यदन्तीति च सप्तभिः। ततो यज्ञपवित्रेण गोमूत्रेणाथ ते द्विजाः॥ स्नापयित्वाऽन्यवसनेनाच्छाद्य शवधर्मतः। दाहादिकं ततः कुर्यात्प्रजापतिवचो यथा॥' यज्ञपवित्रमापो अस्मानिति मिताक्षरायाम्। 'पञ्चभिः स्त्रापयित्वा तु गव्यैः प्रेतां रजस्वलाम्। वस्त्रान्तरावृतां कृत्वा दाहयेद्विधिपूर्वकम्॥' गृह्यकारिकायाम्–'अन्तरिक्षमृता ये च वह्नावप्सु प्रमादतः। उदक्या सूतिका नारी चरेच्चान्द्रायणत्रयम्॥' ततो यवपिष्टेनानुलिप्याष्टोत्तरशतं शूर्पोदकैः संस्नाप्य भस्मगोमयमृत्कुशोदकपञ्चगव्यशुद्धोदकैरापोहिष्ठापावमानीभिः संस्नाप्यान्यवस्त्रे धृते दहेदिति भट्टाः।

अत्र प्रायश्चित्तमाह बौधायनः– 'उदक्यासूतिकामृत्यौ चरेच्चान्द्रायणत्रयम्।' इति। सूतिकायास्तु मिताक्षरायाम्– 'सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः। कुम्भे

सूतिकामरणे।—

सलिलमादाय पञ्चगव्यं क्षिपेत्ततः॥ पुण्यभिरभिमत्र्यापो वाचा शुद्धिं लभेत्ततः। तेनैव स्त्रापयित्वा तु दाहं कुर्याद्यथाविधि॥ अब्लिङ्गाभिर्मन्त्रिताभिर्वामदेव्याभिरेव च॥ अन्यैश्च वारुणैर्मन्त्रैः संस्नाप्य विधिना दहेत्॥' गृह्यकारिकायाम्– 'सूतिकामरणे प्राप्ते सर्वौषध्यनुलेपनम्। असूतकी तु संस्पृष्टः शूर्पाणां तु शतं क्षिपेत्॥' प्रायश्चित्ते विशेषस्तत्रैव– 'सूतिका तु यदा साध्वी विस्नाता मरणं गता। त्रिवर्षपूर्णपर्यन्तं शुध्येत्कृच्छ्रेण सर्वदा॥ इदं चाद्यत्र्यहे॥ 'सूतिका तु यदा नारी रजसा तु परिप्लुता। म्रियते चेत्तु सा नारी द्विवर्षं कृच्छ्रमाचरेत्॥ –इदं द्वितीयत्र्यहे॥ सूतिका तु यदा साध्वी विस्नाता मरणं गता। अब्दं कृच्छ्रेण शुद्ध्येत व्यासस्य वचनं यथा॥ –इदं तृतीयत्र्यहे। अत्राशक्तौ पक्षान्तरमुक्तं तत्रैव –'सूतिका तु यदा नारी विस्नाता मरणं गता।त्रिषण्णवदिनादवीगेकाब्देन विशुध्यति॥' ऊर्ध्वं तु –'सूतिका तु यदा नारी प्राणांश्चैव परित्यजेत्। मासमेकावधिं यावत्रिभिः कृच्छ्रेर्विशुद्ध्यति॥'

गर्भिणीमरणनिर्णयः।–

गर्भिणीमृतौ मदनरत्ने शौनकः–गर्भिण्युदक्यासंस्कारं शिशुसंस्कारमेव च। प्रवक्ष्यामि समासेन शौनकोऽहं द्विजन्मनाम्॥ गर्भिणीमरणे प्राप्ते गोमूत्रेण जलैः सह। आपोहिष्ठादिभिर्मन्त्रैः प्रोक्ष्य भर्ता समास्थितः॥ प्रेतं श्मशाने नीत्वाऽथोल्लिख्य सव्योदरं ततः। पुत्रमादाय जीवंश्चेत्स्तनं दत्त्वा सुताय तु॥ यस्ते स्तनः शशय इत्यूचा ग्रामे निधाय च। उदरं चात्रणं कुर्यात्पृषदाज्येन पूर्य च॥ मृद्भस्मकुशगोमूत्रैरापोहिष्ठादिभिस्त्रिभिः। स्नाप्य चाच्छाद्य वासोभिः शवधर्मेण दाहयेत्॥' तत्रैव षडशीतिमते गद्यानि– 'गर्भिण्यां मृतायां दक्षिणशिरसं निधाय तस्या नाभिरन्ध्रात्सव्यमुदरं चतुरङ्गुलं 'हिरण्यगर्भः समवर्तत' इति छित्त्वा गर्भश्चेदप्राणस्तं प्रक्षाल्य निखनेत्स यदि जीवन् 'जीव त्वं मम पुत्रक' इत्युक्त्वा 'क्षेत्रिये त्वा' इति पञ्चभिः स्नापयित्वा हिरण्यमन्तर्धाय भूमौ निधाय व्याहृतिभिरभिमत्र्य 'यस्ते स्तनः शशय' इति स्तनं पाययित्वा शिशुं ग्रामं प्रापयेत्। गर्भच्छेदस्थले 'शतायुधाय' इति पञ्चाहुतीहुत्वा प्राणाय स्वाहा, पूष्णे स्वाहेत्यनुवाकाभ्यां व्याहृत्या वाऽऽज्यं हुत्वा भिन्नमुदरं सूत्रेण सङ्ग्रथ्य घृतेनानुलिप्य ब्राह्मणाय तिलान् गां भूमिं सुवर्ण दद्यादथ यथोक्तेन कल्पेन दहेत्'। बौधायनेन तु– 'शतायुधाय' इति पञ्चहोमानन्तरं प्रयासाय यासाय वियासाय संयासायोद्यासाय शुचे शोकाय तप्यते तपत्यै ब्रह्महत्यायै सर्वस्मै इति स्वाहान्तैराहुतयोऽप्यधिका उक्ताः। गृह्यकारिकायाम्– 'यदा गर्भवती नारी सशल्या संस्थिता भवेत्। कुक्षिं भित्त्वा ततः शल्यं निर्हरेद्यदि जीवति॥ प्रमीतं निखनेत्तं तु प्रायश्चित्तमतः परम्। सा त्रयस्त्रिंशता कृच्छ्रः शुद्ध्यते शल्यदोषतः॥ सगर्भदहने तस्या वर्णजं वधपातकम्। प्रायश्चित्तं चरित्वा तु शुद्ध्यन्ति पापकारिणः॥ दग्ध्वा तु गर्भसंयुक्तां त्रिरब्दं कृच्छ्रमाचरेत्॥

सहगमनम्।—

अथान्वारोहणं स्त्रीणामात्मनो भर्तुरेव च। सर्वपापक्षयकरं निरयोत्तारणाय च॥ अनेकस्वर्गफलदं मुक्तिदं च तथैव च। जन्मान्तरे च सौभाग्यधनपुत्रादिवृद्धिदम्॥' देशकालौ स्मृत्वाऽरुन्धतीसमाचारत्व– स्वर्गलोकमही यमानत्व– मनुष्यलोमसमसङ्ख्याब्दावच्छिन्नस्वर्गवास–भर्तृसहितचतुर्दशेन्द्रावच्छिन्नकालिकक्रीडमानत्व-मातृपितृश्वशुरकुलत्रयपूतत्व-ब्रह्मघ्नमित्रघ्नकृतघ्नपतिपूतत्व-पत्यवियोगकामा भर्तृज्वलच्चितारोहणं करिष्ये। अनुगमने तु, फलमुल्लिख्यान्वारोहणं करिष्ये इत्युक्त्वा हरिद्राकुङ्कुमाञ्जनादियुतशूर्पाणि सुवासिनीभ्यो दद्यात्। मन्त्रस्तु– लक्ष्मीनारायणो देवो बलसत्त्वगुणाश्रयः। गाढं सत्त्वं च मे देयाद्वायनैः परितोषितः॥ सोपस्कराणि शूर्पाणि वायनैः संयुतानि च। लक्ष्मीनारायणप्रीत्यै सत्त्वकामा ददाम्यहम्॥' अग्नेः समीपमागत्य पञ्चरत्नानि पलवे। नीलाञ्जनं तथा बध्वा मुखे मुक्ताफलं न्यसेत्॥ ततोऽग्निप्रार्थनं कृत्वा मन्त्रेणानेन मिश्रितम्। 'स्वाहासंश्लेषनिर्विण्ण सर्वगोत्र हुताशन॥ सत्त्वमार्गप्रदानेन नय मां भर्तुरन्तिकम्॥' ततोऽनावाज्येनाग्नये तेजोधिपतये, विष्णवे सस्वाधिपतये, कालाय धर्माधिपतये, पृथिव्यै लोकाधिष्ठात्र्यै, अङ्ग्यो रसाधिष्ठात्रीभ्यः, वायवे बलाधिपतये, आकाशाय सर्वाधिपतये, कालाय धर्माधिष्ठात्रे, अद्भ्यः सर्वसाक्षिणीभ्यः, ब्रह्मणे वेदाधिपतये, रुद्राय श्मशानाधिपतये, च हुत्वाऽग्निं प्रदक्षिणीकृत्य दृषदमुपलां च सम्पूज्य पुष्पाञ्जलिं गृहीत्वाऽग्निं प्रार्थयेत्। 'त्वम सर्वभूतानामन्तश्चरसि साक्षिवत्। त्वमेव देव जानीषे न विदुर्यानि मानुषाः॥ अनुगच्छामि भर्तारं वैधव्यभयपीडिता। सत्त्वमार्गप्रदानेन नय मां भर्तुरन्तिकम्॥ मन्त्रमुच्चार्य शनकैः प्रविशेच्च हुताशनम्॥' गौडास्तु– 'इमा नारीरविधवाः' इति, 'ॐ इमाः पतिव्रताः पुण्याः स्त्रियोऽपापाः सुशोभनाः। सह भर्तुः शरीरेण संविशन्तु विभावसुम्॥” इति च विप्रः पठेदित्याहुः। कातरां तु–प्रेतोत्तरे सुप्तां देवरः शिष्यो वा उदीति द्वाभ्यामुत्थापयेत्। एतन्महिमा मिताक्षरादौ ज्ञेयः।

सहगमनफलम्।—

पृथ्वीचन्द्रोदये स्कान्दे– 'अनुव्रजन्ती भर्तारं गृहात्पितृवनं मुदा। पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यनुत्तमम्॥" यत्त्वाङ्गिराः–'या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत्। सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत्॥' इति, यच्च– व्याघ्रपात्– 'न म्रियेत समं भर्त्रा ब्राह्मणी शोककर्शिता। न ब्रह्मगतिमाप्नोति मरणादात्मघातिनी॥' इति,– तत् पृथक्चितिपरम्; 'पृथक्चतिं समारुह्य न विप्रा गन्तुमर्हति। अन्यासां चैव नारीणां स्त्रीधर्मोऽयं परः स्मृतः॥' इत्युशनसोक्तेः।

पृथचितिस्तु क्षत्रियादिपरा। तद्विधिर्ब्राह्मे– 'देशान्तरे मृते पत्यौ साध्वी तत्पादुकाद्वयम्। निधायोरसि संशुद्धा प्रविशेज्जातवेदसम्॥ ऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी। त्र्यहाशौचे निवृत्ते तु श्राद्धं प्राप्नोति शास्त्रवत्॥', 'इमा नारीरविधवा' इति ऋग्वेदवादः।

पृथक्चितिनिर्णयः।—

त्र्यहाशौचमन्वारोहणपरमिति स्मार्ताः। निषेधवाक्यानि प्रायश्चित्तार्थं मृतेन पतितेन वा सह मरणनिषेधपराणीत्यप्याहुः। अस्थिदाहे पलाशदाहे वा न पृथक्चितिदोषः। अङ्गत्वेन स्थानापत्त्या वा शरीरतुल्यत्वात्। यत्तु– 'ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वा भवेत्पतिः। पुनात्यविधवा नारी तमादाय मृता तु या॥' इति हारीतीयम्,–तत् पतितदाहादिनिषेधेन सहगमनस्य दूरतोऽपास्तत्वादर्थवादमात्रमिति पृथ्वीचन्द्रः। जन्मान्तरीयपापवता सह मरणे नोद्धार इति स्मार्तगौडाः । शुद्धितत्वे व्यासः–'दिनैकगम्यदेशस्था साध्वी चेत्कृतनिश्चया। न दहेत्स्वामिनं तस्या यावदागमनं भवेत्॥' तत्रैव भविष्ये– 'तृतीयेऽह्नि उदक्याया मृते भर्तरि वै द्विजाः। तस्यानुमरणार्थाय स्थापयेदेकरात्रकम्॥ एकां चितिं समासाद्य भर्तारं याऽनुगच्छति। तद्भर्तुर्यः क्रियाकर्ता स तस्याश्च क्रियां चरेत्॥' - एतद्देशाहान्तम् ; 'यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात्स एव हि।' इति वायवीयोक्तेः। आपस्तम्बः– 'चितिभ्रष्टा तु या नारी मोहाद्विचलिता भवेत्। प्राजापत्येन शुध्येत तस्माद्वै पापकर्मणः॥' तथा– 'अन्वारोहे तु नारीणां पत्युश्चैकोदकक्रियाम्। पिण्डदानक्रियां तद्वच्छ्राद्धं प्रत्याब्दिकं तथा॥ अन्वारोहे कृते पत्न्या पृथक्पिण्डांस्तिलाञ्जलीन्। पृथक्शिले न कुर्वीत दद्यादेकशिले तथा॥' अन्यत्प्रागुक्तम्।

सहगमने निषिद्धाः।—

इदं गर्भिणीबालापत्यासूतिकारजस्वलाव्यभिचारिणीभिर्न कार्यम्; 'स्वैरिणीनां गर्भिणीनां पतितानां च योषिताम्। नास्ति पत्याग्निसंवेशः पतितौ हि तथा उभौ॥” इति मदनरत्ने स्मृतिसङ्ग्रहोक्तेः। मदनरत्ने बृहस्पतिः - 'बालसंवर्धनं मुक्त्वा बालापत्या न गच्छति। व्रतोपवासनियता रक्षेद्दर्भं च गर्भिणी॥' तृतीयपादे 'रजस्वला सूतिका च' इति पृथ्वीचन्द्रोदये गौडीयशुद्धितत्त्वे च पाठः। तत्रैव बृहन्नारदीयेऽपि–'बालापत्या च गर्भिण्यो ह्यदृष्टऋतवस्तथा। रजस्वलाराजसुते नारोहन्ति चितां तु ताः॥' इति। अत्र– 'पतिव्रता सुसन्दीप्तं प्रविशेद्या हुताशनम्।' इति भारतात्, 'ऋग्वेदवादात्साध्वी स्त्री' इति ब्राह्माच्च पतिव्रतानामेवाधिकारो न दुर्वृत्तानाम्। यत्तु– 'अवमत्य च याः पूर्वं पतिं दुष्टेन चेतसा। वर्तन्ते याश्च सततं भर्तॄणां प्रतिकूलतः॥ तत्रानुमरणं काले याः कुर्वन्ति तथाविधाः।कामात्क्रोधाद्भयान्मोहात्सर्वाः पूता भवन्त्युत॥' इति भारतम्, –तत् कैमुतिकन्यायेन स्तावकमिति पृथ्वीचन्द्रः। ब्राह्मण्या एकचितिरेव, न पृथक्चितिः। क्षत्रियादीनां पृथगेका वेति कल्पतरु-रत्नाकर-मदनपारिजातादयः।

शुद्धिचिन्तामणौ चैवम्। तत्रान्वारोहणे भर्तृशौचमध्ये तदूर्ध्वं वा कृते त्रिरात्रमध्ये एव दशपिण्डाः। सहगमने तु भर्तृशौचतुल्यमाशौचं पिण्डदानं च; 'अन्वितायाः प्रदातव्या दश पिण्डारूयहेण तु। स्वाम्याशौचे व्यतीते तु तस्याः श्राद्धं प्रदीयते॥' इति शुद्धितत्त्वे शूलपाणौ च पैठीनसिस्मृतेः। 'संस्थितं पतिमालिङ्ग्य प्रविशेद्या हुताशनम्। तस्याः पिण्डादिकं देयं क्रमशः पतिपिण्डवत्॥” इति शूलपाणि–शुद्धितत्त्वधृतव्यासोक्तेः। अन्यत्प्रागुक्तम्। यदा तु रजस्वलापि पत्नी मृते पत्यौ देशकालवशात्तदैवानुगच्छति न शुद्धिं प्रतीक्षते तत्र विधिः देवयाज्ञिकनिबन्धे– 'यदा स्त्रियामुदक्यायाम्पतिः प्राणान्समुत्सृजेत्। द्रोणमेकं तण्डुलानामवहन्याद्विशुद्धये॥ मुसलाघातैस्तदसृक् स्रवते योनिमण्डलात्। विरजस्कां मन्यमाना स्वे चित्ते तदसृक्क्षयम्॥ दृष्ट्वा शौचं प्रकुर्वीत पञ्चमृत्तिकया पृथक्। त्रिंशद्विंशतिर्दश च गवां दत्त्वा त्वहःक्रमात्॥ विप्राणां वचनाच्छुद्धा समारोहेद्धुताशनम्। नारीणां सरजस्कानामियं शुद्धिरुदाहृता॥' अत्र श्राद्धादौ निर्णयः पूर्वमुक्तः॥

इति श्रीभट्टकमलाकरकृते निर्णयसिन्धावन्त्यकर्मनिर्णयः।

अग्निप्रवेशाशक्तौ तु विष्णुः - 'मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा' इति। ब्रह्मवैवर्ते– 'सहानुगमनं शस्तं वैधव्यस्याथ पालनम्।' यत्तु– तत्रैव 'कलौ नान्या गतिः स्त्रीणां सहानुगमनादृते।' इति, –तद्ब्रह्मचर्याशक्यत्वपरम्। तथा च मनुः– ब्रह्मचर्यं चरेद्वापि प्रविशेद्वा हुताशनम्।' काशीखण्डेऽपि– 'पत्यौ मृतेऽपि या योषिद्वैधव्यं पालयेत्क्वचित्। सा पुनः प्राप्य भर्तारं स्वर्गलोकं समश्निुते॥ अनुयाति न भर्तारं यदि दैवात्कथञ्चन। तत्रापि शीलं संरक्षेच्छीलभङ्गात्पतत्यधः॥ तद्वैगुण्यादपि स्वर्गात् पतिः पतति नान्यथा। तस्याः पिता च माता च भ्रातृवर्गस्तथैव च॥'

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬