निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ विधवाधर्माः। मदनरत्ने स्कान्दे– 'विधवाकबरीबन्धो भर्तृबन्धाय जायते। शिरसो वपनं तस्मात्कार्यं विधवया सदा॥ एकाहारः सदा कार्यो न द्वितीयः कदाचन। मासोपवासं वा कुर्याच्चान्द्रायणमथापि वा॥ पर्यङ्कशायिनी नारी विधवा पातयेत्पतिं नैवाङ्गोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित्॥ गन्धद्रव्यस्य सम्भोगो नैव कार्यस्तया पुनः। तर्पणं प्रत्यहं कार्यं भर्तुस्तिलकुशोदकैः॥ तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम्॥' –इदमपुत्रापरमिति मदनपारिजातः। 'नाधिरोहेदनड्वाहं प्राणैः कण्ठगतैरपि। कञ्चुकं न परीदध्याद्वासो न विकृतं वसेत्॥ वैशाखे कार्तिके माघे विशेषनियमं चरेत्॥ ‘प्रचेताः –'ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम्। यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्॥' श्राद्धादौ तु विशेषः प्रागुक्तः। यत्तु–बौधायनः 'संवत्सरं प्रेतपत्नी मधु मासं विवर्जयेत्॥ अधः शयीत षण्मासानिति मौद्गल्यभाषितम्॥' इति,– तदसवर्णापरमित्यपरार्कः॥
अथ सन्न्यासः। याज्ञवल्क्यः– 'वनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम्। प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि॥ अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान्। शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा॥' - एतदाश्रमसमुच्चयपक्षे। जाबालश्रुतौ त्वन्येऽपि पक्षा उक्ताः– 'यदि चेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा। अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्' इति। अङ्गिराः– 'प्रव्रजेद्ब्रह्मचर्याद्वा प्रव्रजेद्वा गृहादपि। वनाद्वा प्रव्रजेद्विद्वानातुरो वाऽथ दुःखितः॥' आतुरः = मुमूर्षुः, दुःखितः = चौरव्याघ्रादिभीतः। भारते– 'आतुराणां तु सन्न्यासे न विधिर्नैव च क्रिया। प्रैषमात्रं समुच्चार्य सन्न्यासं तत्र पूरयेत्॥' जाबालश्रुतावपि– 'यद्यातुरः स्यान्मनसा वाचा वा सन्न्यसेत्' इति। अत्र विप्रस्यैवाधिकारः; 'ब्राह्मणाः प्रव्रजन्ति' इति जाबालश्रुतेः। 'आत्मन्यग्नीन्समारोग्य ब्राह्मणः प्रव्रजेगृहात्।' इति मनूक्तेश्चेति विज्ञानेश्वरादयः। वृद्धयाज्ञवल्क्योऽपि– 'चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुतिचोदिताः। क्षत्रियस्य त्रयः प्रोक्ता द्वावेको वैश्यशूद्रयोः॥” इति। माधवस्तु– 'ब्राह्मणः क्षत्रियो वाऽथ वैश्यो वा प्रब्रजेद्गृहात्।' इति कौर्माद्युक्तेर्वर्णत्रयस्याप्यधिकारः। पूर्ववाक्यं तु काषायदण्डादिनिषेधार्थम्, 'मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। राजन्यवैश्ययोर्नति दत्तात्रेयमुनेर्वचः॥' इति बौधायनोत्तेरिति पक्षान्तरमाह। तत्त्वं तु– कुटीचकादिपरमेव तदिति। योऽपि 'सन्न्यासं पलपैतृकम्' इति कलौ निषेधः, सोऽपि त्रिदण्डादिपर इत्युक्तं प्राक्।
स च सन्न्यासश्चतुर्धेत्याह हारीतः– 'कुटीचको बहूदको हंसश्चैव तृतीयकः। चतुर्थः परमो हंसो यो यः पश्चात्स उत्तमः॥' आद्यः पुत्रादिना कुटीं कारयित्वा तत्र गृहे वा वसन् काषायवासाः शिखोपवीतत्रिदण्डवान् बन्धुषु स्वगृहे वा भुञ्जान आत्मज्ञो भवेत्। –एतदत्यन्ताशक्तपरम्। द्वितीयस्तु बन्धून् हित्वा सप्तागाराणि मैक्षं चरन् पूर्वोक्तवेपः स्यात्। हंसस्तु पूर्वोक्तवेषोऽप्येकदण्डः; 'एकं तु वैणवं दण्डं धारयेन्नित्यमादरात्।' इति स्कान्दात्। विष्णुरपि– 'यज्ञोपवीतं दण्डं च वस्त्रं जन्तुनिवारणम्। तावान् परिग्रहः प्रोक्तो नान्यो हंसपरिग्रहः॥' चतुर्थोऽपि स्कान्दे– 'परहंसत्रिदण्डं च रज्जुं गोवालनिर्मिताम्। शिखां यज्ञोपवीतं च नित्यं कर्म परित्यजेत्॥' अयमप्येकदण्ड एव। ये तु शिखोपवीतादित्यागनिषेधास्ते कुटीचकादिपराः। यत्तु– मेधातिथिः 'यावन्न स्युस्त्रयो दण्डास्तावदेकेन वर्तयेत्।' इति,– तदपि तत्परमेव– यच्चात्रिः 'चतुर्धा भिक्षवः प्रोक्ताः सर्वे चैव त्रिदण्डिनः।' इति– तद्वाग्दण्डादिपरं न यष्टिपरम्; 'वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्तथैव च। यस्यैते नियता दण्डाः स त्रिदण्डीति चोच्यते॥” इति मनूक्तेः। तस्मात्परमहंसस्यैकदण्ड एव। सोऽप्यविदुषः। विदुषस्तु सोऽपि नास्ति; 'न दण्डं न शिखां नाच्छादनं चरति परमहंसः' इति महोपनिषदुक्तेः, 'ज्ञानमेवास्य दण्डः' इति वाक्यशेषाच्च। यत्तु –यमः 'काष्ठः-दण्डो धृतो येन सर्वाशी ज्ञानवर्जितः। स याति नरकान् घोरान् महारौरवसञ्ज्ञितान्॥' इति,– तत् वैराग्यं विना जीवनार्थसन्न्यासपरम्; 'एकदण्डं समाश्रित्य जीवन्ति बहवो नराः। नरके रौवे घोरे कर्मत्यागात्पतन्ति ते॥” इति स्मृतेः। यच्चाश्वमेधिके– 'एकदण्डी त्रिदण्डी वा शिखी मुण्डित एव वा। काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिरः ॥' इति,– तस्यापि पूर्वोक्तव्यवस्था ज्ञेया।
अथ तद्विधिः। बौधायनः– 'कृत्वा श्राद्धानि सर्वाणि पित्रादिभ्योऽष्टकं पृथक्। वापयित्वा च केशादीन् मार्जयेन्मातृका इमाः॥' सर्वाणीति स्वस्य नवश्राद्धषोडशश्राद्धादि कृत्वेत्यर्थः। स्मृत्यर्थसारेऽपि–' एकोद्दिष्टविधानेन कुर्याच्छ्राद्धानि षोडशः। अग्निमान्पार्वणेनैव विधिना निर्वपेत्स्वयम्॥' इति। कात्यायनः–'कृच्छ्रांस्तु चतुरः कृत्वा पावनार्थमनाश्रमी। आश्रमी चेत्तप्तकृच्छ्रं तेनासौ योग्यतां व्रजेत्॥' बौधायनः– 'सदैवमार्षकं दिव्यं पित्र्यं मातृकमानुषे। भौतिकं चात्मनश्चान्ते अष्टौ श्राद्धानि निर्वपेत्॥' अत्र क्रममाह हेमाद्रौ शौनकः– 'देवश्राद्धे ब्रह्मविष्णुमहेश्वरा देवताः। आर्षे देवर्षिब्रह्मर्षिक्षत्रर्षयः, देवर्षिक्षत्रर्षिमनुष्यर्षयो वा।' मरीच्यादिऋषय इति सन्न्यासपद्धतौ,– तच्चिन्त्यम्; दिव्ये वसुरुद्रादित्याः। मानुषे सनकसनन्दनसनातनाः। भूतश्राद्धे पृथिव्यादिभूतानि चक्षुरादिकरणानि चतुर्विधो भूतग्रामश्चेति तिस्रः। पित्र्ये पित्रादित्रयो मातामहाश्च। मातृके मात्रादयस्तिस्रः। आत्मश्राद्धे आत्मपितृपितामहा देवताः। आत्मश्राद्धं परमात्मदैवत्यमिति सन्न्यासपद्धतौ,– तच्चिन्त्यम्। सर्वत्र च नान्दीमुखत्वं विशेषणं ज्ञेयम्। सर्वत्र पिण्डदानम्। युग्मा विप्राः। दक्षक्रतू सत्यवसू वा विश्वेदेवौ। अन्यन्नान्दीश्राद्धवदिति हेमाद्रिः॥स्मृत्यर्थसारे– 'केशश्मश्रुलोमनखं वापयित्वोपकल्पयेत्। दण्डं जलं पवित्रं च शिक्यं पात्रं कमण्डलुम्॥आसनं कौपीनमाच्छादनं कन्थां पादुके इति दश पञ्च वा। एतच्च पूर्वेद्युर्नान्दीमुखं कृत्वा परेद्युः पुण्याहवाचनं कृत्वा कार्यमिति शौनकः।
बौधायनः– 'त्रीन्दण्डानङ्गुलीस्थूलान्वैणवान् मूर्धसम्मितान्। एकादश नव द्वित्रिचतुः—सप्तान्यपर्वकान्॥ वेष्टितान्कृष्णगोवालरज्ज्वा तु चतुरङ्गुलान्। एको वा तादृशो दण्डो गोवालसदृशो भवेत्॥ अनग्निरग्निमुत्पाद्य नित्येन विधिना ततः॥' पृष्टोदिविविधानेनेत्यर्थः। ‘स्वाग्नावेवाग्निमान् कुर्यादपवर्गोक्तमादितः। आज्यं पयो दधीत्येतत्रिवृद्वा जलमेव वा। ॐभूरित्यादिना प्राश्य रात्रिं चोपवसेत्ततः। अथादित्यस्यास्तमयात्पूर्वमग्नीन्विहत्य सः॥ आज्यमग्नौ गार्हपत्ये संस्कृत्यैतेन च स्रुचा। पूर्णयाहवनीये तु जुहुयात्प्रणवेन तत्॥ ब्रह्मान्वाधानमेतत्स्यादग्निहोत्रे हुते ततः। संस्तीर्य गार्हपत्यस्य दर्भानुत्तरतोऽत्र तु॥ पात्राण्यासाद्य दर्भेषु ब्रह्मायतन एव तु। जागृयाद्रात्रिमेतां तु यावासो मुहूर्तकः॥ अग्निहोत्रं स्वकाले तु हुत्वा प्रातस्तनं ततः। इष्टिं वैश्वानरीं कुर्यात्प्राजापत्यामथापि वा॥' जाबालश्रुतौ–'तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति तदु तथा न कुर्यादामेयीमेव कुर्यात्पश्चात् त्रैषातवीयामेव कुर्यात्' इत्युक्तम्। तेनात्र विकल्पः। अत्राहुः– 'त्रेताग्नेः प्राजापत्या।' तद्वाक्यशेषेऽग्नी निति बहुत्वश्रुतेः। 'एकाग्नेस्त्वाग्नेयी' इति। अनाहिताग्नेरिष्टिस्थाने वैश्वानर आग्नेयो वा चरुरिति माधवः। कात्यायनः–'आत्मन्यग्नीन्समारोप्य वेदिमध्ये स्थितो हरिम्। ध्यात्वा हृदि त्वनुज्ञातो गुरुणा प्रैषमीरयेत्॥' कपिलः– 'विधिवत्प्रैषमुक्त्वाथ त्रिरुपांशु त्रिरुच्चकैः। अभयं सर्वभूतेभ्यो मत्तः स्वाहेत्यपो भुवि॥ निनीय दण्डशिक्यादि गृहीत्वाथ बहिर्व्रजेत्॥ ' बौधायनः– 'सखे मेत्यादिना दण्डं येन देवाः पवित्रकम्। यदस्य पारे शिक्यं तु पात्रं व्याहृतिभिस्तथा॥ युवासुवासाः कौपीनं गृहीत्वा बान्धवांस्त्यजेत्।'
अथ क्रमः। तत्र सन्न्यासेऽधिकारसिद्ध्यर्थं स्वस्य नवश्राद्धषोडशश्राद्धसपिण्डनानि साग्निः पार्वणान्यनग्निस्त्वेकोद्दिष्टविधिना कृत्वाऽनाश्रमी चेत्कृच्छ्रचतुष्टयम्, अन्यस्तु तप्तकृच्छ्रं कृत्वोदगयने एकादश्यां द्वादश्यां वा साग्निरमावास्यायां पौर्णमास्यां चतुर्दश्यां वा यथा पर्वणि प्राजापत्या स्यात्। तत्र देशकालौ स्मृत्वा परमहंसादिसन्न्यासग्रहणं करिष्य इति सङ्कल्प्य गणेशं सम्पूज्य पुण्याहं वाचयित्वा मातृकापूजां वृद्धिश्राद्धं च कृत्वाऽस्तमयात्प्रागौपासनं समिध्य, आहिताग्निस्तु गार्हपत्यं, विधुरोऽग्निहोत्री तु त्रिकाण्डमण्डनोक्तदिशा कुशपत्न्या सह पवमानेष्ट्यन्तं पूर्णाहुत्यन्तं वाधानं कुर्यात्। ब्रह्मचारी चेल्लौकिके विधुरश्चेद्द्व्याहृतिभिः प्रणवेन चाग्निमादायान्वग्निरुषसामित्यानीय पृष्टोदिवीति निधाय तेनैव समिध्य ‘तत्सवितुः’, ‘तां सवितुः’, 'विश्वानि देव' इति तिस्रः समिधोऽभ्यादध्यात्। एवमग्नौ सिद्धे कक्षोपस्थवर्ज्य वपनं कृत्वा पयोदधियुतमाज्यमपो वा 'ॐ भूः सावित्रीं प्रविशामि तत्सवितुर्व रेण्यम्' इति प्राश्याचम्य, पुनरादाय –'ॐ भुवः सावित्रीं प्रविशामि भर्गो देवस्य धीमहि' इति द्वितीयम्, ‘ॐस्वः सावित्री प्रविशामि धियो यो नः प्रचोदयात्' इति तृतीयम्, समस्तया चतुर्थ, 'ॐ भूर्भुवःस्वः सावित्रीं प्रविशामि। तत्सवितु॰ यात्' इति। सन्न्यासपद्धतौ तु त्रिवृदसीति प्रथमं, प्रवृदसीति द्वितीयं, विवृदसीति तृतीयं प्राश्यापः पुनन्त्विति जलं प्राश्य सावित्रीप्रवेश उक्तः। तत आहवनीयं विहृत्य ब्राह्मणमुपवेश्याज्यं संस्कृत्य चतुर्द्वादश वा गृहीत्वा समित्पूर्वमों स्वाहा परमात्मन इदमिति हुत्वोपवसेत्। इदं ब्रह्मान्वाधानम्। ततः सायंहोमं वैश्वदेवं च कृत्वा अग्नेरुदकुशानास्तीर्य दण्डादीनि दश पञ्च वाऽऽसाद्य ब्रह्मासने कृष्णाजिनोपविष्टो रात्रौ जागरणं कृत्वा प्रातर्होमानन्तरं प्राजापत्यां वैश्वानरीं वा कृत्वा ऋत्विग्भ्यः सर्वस्वं ब्रह्मणे च मधुपूर्णं तैजसपात्रं दत्त्वा दारुपात्राण्याहवनीयेऽश्ममृन्मयानि च जले क्षिपेत्। कृष्णाजिनं त्वाददीत॥ अनाहिताग्निस्तु वैश्वानरमाग्नेयं वा चरुं हुत्वा पात्राण्यग्नौ क्षिप्त्वा भूर्भुवः स्वरित्यपः स्पृष्ट्वा 'तरत्समन्दी' इति सूक्तं जप्त्वा विप्रान्सम्भोज्य पुण्याहं वाचयित्वा अत्र वा वपनं कृत्वा हैमरूप्यकुशजलैः स्नात्वा पुरुषाय चरुं कृत्वा प्राणाय स्वाहेति पञ्चाज्याहुतीर्हुत्वा पुरुषसूक्तेन प्रत्यृचमाज्यं चरुं च जुहुयात्।
१ अस्याग्रे - 'अभयमिति - मन्त्रेणापां पूर्णमञ्चलि निनीयेत्यर्थः।' इत्यधिकं क्वचित्।
अत्र विरजाहोमं केचिदाहुः। यथोक्तं शिवगीतासु— 'जुहुयाद्विरजामन्त्रैः प्राणापानादिभिस्ततः। अनुवाकान्तमेकाग्रः समिदाज्यचरून्पृथक्॥ आत्मन्यग्नीन्समारोप्य यातेअग्नेति मन्त्रतः। भस्मादायाग्निरित्याद्यैर्विमृज्याङ्गानि संस्पृशेत्॥ पापैर्विमुच्यते सत्यं मुच्यते नात्र संशयः॥' यथा - 'प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास स्वाहा॥' सर्वत्र लिङ्गोक्तदेवताभ्य इदमिति त्यागः। वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिसङ्कल्पा मे शुध्यन्तां ज्योति॰। त्वक्चर्ममांसरुधिरमेदोमज्जास्नायवोऽस्थीनि मे शुध्यन्तां ज्योति॰। शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्घशिश्नोपस्थपायवो मे शुध्यन्तां ज्योतिरहं॰। उत्तिष्ठ पुरुष हरितपिङ्गललोहिताक्षि देहि देहि ददापयिता मे शुध्यन्तां र्ज्योति॰। पृथिव्यापस्तेजोवायुराकाशो मे शुध्यन्तां ज्योति॰। शब्दस्पर्शरूपरसगन्धा मे शुध्यन्तां ज्योति॰ । मनोवाक्कायकर्माणि मे शुध्यन्तां ज्योति॰। अव्यक्तभावैरहङ्कारैर्ज्योति॰। आत्मा मे शुध्यन्तां ०। अन्तरात्मा मे शुध्यन्ताम्। परमात्मा मे शुध्यन्तां॰॥ क्षुधे स्वाहा। क्षुत्पिपासाय स्वाहा। विविध्यै स्वाहा। ऋग्विधानाय स्वाहा। कषोत्काय स्वाहा। क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्। अभूतिमसमृद्धिं च सर्वान्निर्णुद मे पाप्मानँ स्वाहा। अन्नमयप्राणमयमनोमय विज्ञानमयानन्दमय आत्मा मे शुध्यन्तां ज्योति॰॥ ततः स्विष्टकृदादि हुत्वा ब्रह्मणे हिरण्यमाज्यपात्रं धेनुं च दत्त्वा 'सम्मासिञ्चतु' इत्युपतिष्ठेत। अत्र केचिदनग्नेः सावित्रीप्रवेशं पूर्णाहुतिं चाहुः।
ततो ‘या ते अग्ने यज्ञिया तनूः' इति त्रिस्त्रिरेकैकं जिघ्रन्नात्मन्यग्नीन् समारोप्य गुरवे सर्वस्वं दत्त्वा 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै। तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये॥' इत्युपस्थाय दक्षिणं जान्वाच्य पादावुपसङ्गृह्याधीहि भगवो ब्रह्मेति वदेत्। ततो गुरुरात्मानं ब्रह्मरूपं ध्यात्वा शङ्खं द्वादशप्रणवैर भिमध्य तेन शिष्यमभिषिच्य 'शन्नो मित्रः' इति शान्तिं पठित्वा तच्छिरसि हस्तं दत्त्वा पुरुषसूक्तं जप्ता 'मम व्रते हृदयं ते दधामि' इति च जप्त्वोदङ्मुखः प्रणवार्थमनुसन्दधदक्षिणे कर्णे प्रणवमुपदिश्य तदर्थं च पञ्चीकरणाद्यवबोध्य 'अयमात्मा ब्रह्म, तत्त्वमसि, प्रज्ञानं ब्रह्म' इत्यायुपदिशेत्। तदर्थं च वदेत्। ततो नाम दद्यात्। ततः शिष्यस्तेनोपदिष्टो हरिं स्मरन्नूर्ध्वबाहुस्तिष्ठन् देवान्साक्षिणः कृत्वा ॐ भूर्भुवः स्वः सन्न्यस्तं मयेति त्रिरुपांशु त्रिरुच्चैस्त्रिरत्युच्चैश्चोक्त्वा, जलसमीपं गत्वा स्नात्वा अभयं सर्वभूतेभ्यो मत्तः स्वाहेति त्रिरञ्जलिं क्षिप्त्वा, 'युवा सुवासाः' इति काषायं कौपीनं वासश्च परिधाय, सखे मा गोपायेति मुख्यं वैणवं पालाशं बैल्वमौदुम्बरं वा दण्डं गृह्णीयात्। अत्र पुत्रकामो गृहस्थः शङ्खेन पुरुषसूक्तेन दण्डमभिषिच्य दद्यादित्याचारः। ततः शिखामुत्पाट्य ॐ भूः स्वाहेत्यग्नौ जले वा हुत्वा, तथैवोपवीतं हुत्वा, 'येन देवाः पवित्रेण' इति जलपवित्रं, 'यदस्य पारे' इति शिक्यं, सावित्र्या कमण्डलुं, सप्तव्याहृतिभिर्भोजनपात्रम् 'इदं विष्णुः' इत्यासनं बृसीं वा गृहीत्वा, 'ॐ भूस्तर्पयामि' इति 'व्यस्तसमस्ताभिर्महर्नमः' इति तर्पयित्वा, 'ॐ भूः स्वधों भुवः स्वधों स्वः स्वधोम्भूर्भुवःस्वर्महर्नमः स्वधा' इति पिस्तर्पयित्वा, 'उदुत्यं' 'चित्रं' 'तच्चक्षुः' 'हंसः शुचिषत्' 'नमो मित्रस्य' इति स्नात्वा सुरभिमतीभिरापोहिष्ठेति हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिश्च मार्जयित्वा अष्टोत्तरशतवारमघमर्षणं प्राणायामांश्च कृत्वा, 'ॐ भूर्भुवः स्वः' इति च पठित्वा, 'नमः सवित्रे' इति सूर्यं चोपस्थाय, पुनः स्नात्वा जङ्घे क्षालयित्वा, 'ओमिति ब्रह्मोमितीदं सर्वमोमिति ब्रह्म वा एष ज्योतिर्य एष वेदो य एष तपति वेद्यमेवैतद्य एष वेदो यदवनमस्ति' इति जपित्वा, अष्टसहस्रं गायत्रीं जपेदिति॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा