निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ यतिधर्माः। प्रातरुत्थाय 'ब्रह्मणस्पते' इति जपित्वा, दण्डादीनि मृदं च निधाय मूत्रपुरीषयोर्गृहस्थचतुर्गुणं शौचं कृत्वाऽऽचम्य पर्वद्वादशीवर्ज्य प्रणवेन दन्तधावनं कृत्वा तेनैव मृदा बहिः कटिं प्रक्षाल्य जलतर्पणवर्ज्य स्नात्वा जद्धे प्रक्षाल्य वस्त्रादीनि गृहीत्वा मार्जनान्तं कृत्वा केशवादिनमोन्तनामभिस्तर्पयित्वा, 'ॐ भूस्तर्पयामि' इत्यादिव्यस्त - समस्तव्याहृतिभिर्महर्जनस्तर्पयामीति तर्पयेत्। ॐ भूःस्वाहेति स्वाहाशब्दान्तैः स्वधाशब्दान्तैश्चैभिरेव पुनस्तर्पयेदिति केचित्। तत आचम्याञ्जलिना प्रणवेन जलमादाय व्याहृतिभिरुद्धृत्य गायत्र्या त्रिः क्षिप्त्वा गायत्री जपेत्। उदिते सूर्ये प्रणवेन व्याहृतिभिर्वार्ध्यं त्रिर्दत्त्वा मित्रस्य चर्षणीत्याद्यैः पूर्वोक्त सौरीभिरिदं विष्णुत्रिदेवो ब्रह्मजज्ञानमिति चोपस्थाय, सर्वभूतेभ्यो नम इति प्रदक्षिणमावर्तते। ततो नत्वा, 'आदित्याय विद्महे सहस्राक्षाय धीमहि। तन्नः सूर्यः प्रचोदयात्' इति त्रिर्जपेत्। एवं त्रिकालं विष्णुपूजां ब्रह्मयज्ञं च कुर्यात्॥
अथ भिक्षा। 'विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने। कालेऽपराह्ने भूयिष्ठे नित्यं भिक्षां यतिश्चरेत्॥' इत्युक्ते काले उद्वयमिति चतसृभिरादित्यमुपस्थाय तेनैक्यं ध्यात्वा आकृष्णेनेति प्रदक्षिणं कृत्वा 'ये ते पन्थानः' इति जप्त्वा, 'योऽसौ विष्ण्वाख्य आदित्ये पुरुषोऽन्तर्हदि स्थितः। सोऽहं नारायणो देव इति ध्यात्वा प्रणम्य तम्॥ त्रिदण्डं दक्षिणे त्वङ्गे ततः सन्धाय बाहुना। पात्रं वामकरे क्षिप्त्वा श्लेषयेद्दक्षिणेन तु॥' इति बौधायनोक्तदिशा त्रीन्पञ्च सप्त वा गृहान् गत्वा भवत्पूर्वां भिक्षां याचित्वा, 'पूर्णमसि पूर्ण मे भूयाः' इत्यागत्य शुचिरन्नं प्रोक्ष्य, 'ॐ भूः स्वधा नमः' इत्यादिव्यस्तसमस्तव्याहृतिभिः सूर्यादिदेवेभ्यो भूतेभ्यश्च भूमौ क्षिप्वा भुक्त्वा प्रणवेन षोडशप्राणायामान्कुर्यादिति सङ्क्षेपः॥ गौतमव्याख्यायां भृगुः— 'यतिहस्ते जलं दत्त्वा मैक्ष्यं दद्यात्पुनर्जलम्। भैक्ष्यं पर्वतमात्रं स्यात्तज्जलं सागरोपमम्॥' अत्र सर्वत्र मूलं माधवाऽपरार्क-मदनरत्न-स्मृत्यर्थसारादौ ज्ञेयम्।
कण्वः— 'एकरात्रं वसेद्धामे नगरे पञ्चरात्रकम्। वर्षाभ्योऽन्यत्र वर्षासु मासांस्तु चतुरो वसेत्॥' जाबालश्रुतौ—'शून्यागारदेवगृहतृणकुटीवल्मीकवृक्षमूलकुलालशालाग्निहोत्रगृहनदीपुलिनगिरिकुहरनिर्झरस्थण्डिलेष्वनिकेतनः' इति। मात्स्ये— 'अष्टौ मासान्विहारः स्याद्यतीनां संयतात्मनाम्। एकत्र चतुरो मासान्वार्षिकान्निवसेत्पुनः॥ अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते॥' अत्रिः—'भिक्षाटनं जपं स्नानं ध्यानं शौचं सुरार्चनम्। कर्तव्यानि षडेतानि सर्वथा नृपदण्डवत्॥ पञ्चकं शुक्लवस्त्रं च स्त्रीकथां लौल्यमेव च। दिवास्वापो च यानं च यतीनां पतनानि षट्॥ आसनं पात्रलोभश्च सञ्चयः शिष्यसङ्ग्रहः। दिवास्वापो वृथाजल्पो यतेर्बन्धकराणि षट्॥' दक्षः— 'नाध्येतव्यं न वस्तव्यं न श्रोतव्यं कथञ्चन। यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च॥' मदनरत्ने अत्रिः— 'पित्रर्थं कल्पितं पूर्वमन्नं देवादिकारणात्। वर्जयेत्तादृशीं भिक्षां परबाधाकरीं तथा॥' बृहस्पतिः— 'न तीर्थवासी नित्यं स्यान्नोपवासपरो यतिः। न चाध्ययनशीलः स्यान्न व्याख्यानपरो भवेत्॥' एतद्वेदार्थभिन्नपरम्। अत्रिः— 'स्नानं सुरार्चनं ध्यानं प्राणायामो बलिः स्तुतिः। भिक्षाटनं जपः सन्ध्या त्यागः कर्मफलस्य च॥ एते यतिधर्मा इत्यर्थः। अन्येऽपि माधव-मिताक्षरादौ ज्ञेयाः। यतिधर्मसमुच्चये– 'न स्नानमाचरेद्भिक्षुः पुत्रादिनिधने श्रुते। पितृमातृक्षयं श्रुत्वा स्नात्वा शुद्ध्यति साम्बरः॥'
अथ यतिसंस्कारः स्मृत्यर्थसारे— [सन्न्यसेद्ब्रह्मचर्याद्वा सन्न्यसेच्च गृहादपि। वनाद्वा प्रव्रजेद्विद्वानातुरो वाऽथ दुःखितः॥ आतुराणां च सन्न्यासेन विधिनैव च क्रिया। प्रैषमात्रं च सन्न्यास आतुराणां विधीयते॥ उत्पन्ने सङ्कटे घोरे चौरव्याघ्रादिगोचरे। भवभीतस्य सन्न्यासमङ्गिरा मनुरब्रवीत्॥ यद्यातुरः स्यान्मनसा वाचा वा सन्न्यसेहिजः॥' इति जाबालश्रुतिः। 'आतुराणां च सन्न्यासे न विधिनैव च क्रिया। प्रैषमात्रं समुच्चार्य सन्न्यासं तत्र कारयेत्॥ सन्न्यस्तोऽहमिति ब्रूयात्सवनेषु त्रिषु क्रमात्। त्रिवारं च त्रिलोकात्मा शुभाशुभसुधाद्रवे॥ यत्किञ्चिद्वाधकं कर्म कृतमज्ञानतो मया। प्रमादालस्यदोषाद्यत्तत्तत्सन्त्यक्तवानहम्॥ एवं सन्त्यज्य भूतेभ्यो दद्यादभयदक्षिणाम्। पद्ध्यां कराभ्यां विहरन्नाहं वाक्कायमानसैः॥ करिष्ये प्राणिनां हिंसां प्राणिनः सन्तु निर्भयाः॥' इत्यातुरस्य स्वशक्त्याऽवस्थानुरूपमङ्गलभूतप्रैषोच्चारणादियथाशास्त्रं मनसा वाचा वा कुर्वतस्तावतैव कृच्छ्रचान्द्रायणनान्दीश्राद्धनखकृन्तनादीनि कृत्वा सन्न्यासपूर्तिरिति प्रतीयते। अङ्गिराः— 'षष्टिः कुलान्यतीतानि षष्टीनामधिकानि च। कुलान्युद्धरते प्राज्ञः सन्न्यस्तमिति यो वदेत्॥' विष्णुः—'एकरात्रोषितस्यापि यतेर्या गतिरुच्यते। न सा शक्या गृहस्थेन आतुरोऽपि च सन्न्यसेत्॥ सन्न्यस्तमिति यो ब्रूयात्प्राणैः कण्ठगतैरपि। न तत्क्रतुशतैः पुण्यं प्राप्तुं शक्नोति मानवः॥ मनुः— 'यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात्। तस्य तेजोमया लोका भवन्ति ब्रह्मव— दिनः॥' अथ श्रौतातुरस्य विलम्बितस्य–'प्रैषमात्रं समुच्चार्यं सन्न्यासं तत्र पूजयेत्' इति। अत्र मात्रत्वोपसम्भवादङ्गकलापाव्यापकत्वेनाप्युपपत्तौ कर्तुर्यागत्यागकलापव्यावृत्तस्यैकत्वानुपपत्तेः कृच्छ्रनन्दीश्राद्धविरजाहोमादिकर्तुमशक्तस्यातुरस्य विद्यमानाग्नेरिष्टदेवतायै पूर्णाहुतिं हुत्वा 'असौ स्वर्गाय लोकाय स्वाहा' इति आहवनीये दारुमयानि पात्राणि प्रज्वाल्य मृण्मयान्यप्सु प्रक्षिप्य सम्मासिञ्चतु मरुत इत्युपस्थाय 'या ते अग्ने ' इत्यनेन हस्तं प्रताप्य आत्मन्यग्निं समारोप्य सर्वप्रायश्चित्तपूर्वकं सप्तपञ्चकेशान विसृज्य वापयित्वा यथाविधि स्नात्वा आतुरसन्न्यासम् आतुरसन्न्यासं कुर्यात्॥
अथातुरसन्न्यासविधिः। अपां समीपे गत्वा तिथ्याः स्मरणपूर्वकं स्नानसन्ध्यावन्दनादि कृत्वादेशकालौ सङ्कीर्त्य 'ममाशेषदुःखनिवृत्तिनिरतिशयानन्दप्राप्तिपरमपुरुषार्थप्राप्तये च परमहंससन्न्यासं करोमि' इति सङ्कल्पयेत्। तत्र प्रधानानि प्रैषोच्चारप्रणवोपदेशमहावाक्यानि। ततः सन्न्यासोचितं क्षौरं कृत्वा पूर्ववत्सप्तपञ्चकेशान् विसृज्य स्नात्वाचम्य पात्रेण तोयमादाय उपस्पृश्य दक्षिणेन पाणिनाऽप्सु जुहोति। 'एष वोऽग्नेर्योनिर्यः प्राणं गच्छ स्वाहा' इति प्रथमाहुतिः। 'आपो वै सर्वा देवताः सर्वाभ्य एवैनं देवताभ्यो जुहोमि स्वाहा' इति द्वितीया। ततो हुतशेषं 'आशुः शिशान' इत्यनुवाकेनाभिमत्र्य 'पुत्रेषणा वित्तेषणा लोकेषणा मया त्यक्ताः स्वाहा' इति प्रथमां पिबेत्।'ॐ ॐ भूर्भुवःस्वरोम् मया सन्न्यस्तं स्वाहा' इति द्वितीयां पिबेत्। 'अभयं सर्वभूतेभ्यो मत्तः स्वाहा' इति तृतीयां पिबेत्। ततोऽन्यत्तोयमञ्जलिपूर्णमादाय प्रागादिदिक्षु प्रत्येकं निनयेत्। 'ॐ भूः सावित्रीं प्रवेशयामि, ॐ भुवः सावित्रीं प्रवेशयामि, ॐ स्वः सावित्रीं प्रवेशयामि, ॐ भूर्भुवः स्वः सावित्रीं प्रवेशयामि' इति सावित्री प्रवेशं कृत्वा अथोर्ध्वबाहुः सूर्याभिमुखो भूत्वा 'ॐ भूः सन्न्यस्तं मया, ॐ भुवः सन्न्यस्तं मया, ॐ स्वः सन्न्यस्तं मया, ॐ भूर्भुवः स्वः सन्न्यस्तं मया' इति प्रैषोच्चारं ब्रूयात्। एवं मन्द्रमध्योच्चैस्त्रिरुक्त्वा तूष्णीं शिखां निकृत्य स्नात्वाचम्य यज्ञोपवीतमुद्धृत्याञ्जलिना गृहीत्वा ‘भूःस्वाहा' इति अप्सु हुत्वा दिगम्बरो भूत्वा 'पुत्रेषणावित्तेषणा लोकेषणातो मुक्तोऽहम्' इति ब्रूयात्। अत ऊर्ध्वं न पुत्रगृहं गच्छेत्। मृते च पुरुषसूक्तेन विष्णुबुद्ध्याभिषिञ्चीत संस्कारमेव कुर्यात्। एवं विरक्तस्यातुरस्य स्वस्थस्य सन्न्यास विहिताङ्गेषु यन्मत्रानुष्ठाने शक्तिर्यथाविधिस्तदनुष्ठानपूर्वकं प्रधानं प्रैषोच्चारणमात्रं मत्वा सन्न्यासयुक्तिरिति श्रवणात्। तदुत्तरकालमेव मृतस्योपदेशविकलस्यापि खननसंस्कारमेव कुर्यात्। जीवतश्चेच्छिखां यज्ञोपवीतं च नित्यक्रियाविधिवद्विसृज्य दण्डकाषायवस्त्रादीनि चादाय यतिधर्मानेवानुतिष्ठेत्। सद्गुरुमन्विष्य तदुपदेशं गृहीत्वा स्वधर्मनिष्ठो भवेत्। अयमर्थो विद्वत्सम्मतः प्रयोक्तव्यः। इत्यातुरसन्न्यासः। ] 'सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च। न तस्य दहनं कार्ये नाशौचं नोदकक्रिया॥' तथा 'कुटीचकं तु प्रदहेत्पूरयेत्तु बहूदकम्। हंसो जले तु निक्षेप्यः परहंसं प्रपूरयेत्॥' पालाशमूले नदीतीरेऽन्यत्र वा गन्धपुष्पालङ्कृतं शवं वाद्यघोषेण नीत्वा दण्डमात्रं व्याहृतिभिः खात्वा सप्तव्याहृतिभिस्त्रिः प्रोक्ष्य दर्भानास्तीर्य नवघटे पञ्चरत्नोदकं क्षित्वा 'नारायणः परं ब्रह्म' इत्यभिमन्य तेनैव सन्त्राप्याष्टाक्षरेण वस्त्रगन्धपुष्पधूपदीपान् दत्त्वा, 'विष्णो हव्यं रक्षस्व' इति शवं गर्ते निधाय 'इदं विष्णुः' इति दक्षिणहस्ते दण्डं, 'यदस्य पारे' इस शिक्यं, 'येन देवाः पवित्रेण' इति मुखे जलपवित्रं, सावित्र्योदरे भिक्षापात्रं, 'भूमिः श्वभ्रे' इति गुह्ये कमण्डलुं निधाय, 'चित्तिः स्रुक्' इति दशहोत्राभिमायेदिति विश्वादर्शटीकायां स्मृत्यर्थसारे च। बृहच्छौनकस्तु— 'यतिं पुरुषसूक्तेन स्नापयित्वाऽवटं ततः। प्रणवेनाष्टवारं तं प्रोक्षयेदथ सर्वतः॥ विष्णो हव्यं रक्षस्वेति यजुषा प्रणवेन च। गर्ते प्रेतं विनिक्षिप्य चेदं विष्णुर्विचक्रमे॥ इति मन्त्रेण दण्डं तु दद्या दक्षिणहस्तके। मूर्धानं भूर्भुवः स्वश्चेत्युक्त्वा शङ्खेन भेदयेत्॥ गर्त पुरुषसूक्तेन लवणेन प्रपूरयेत्। सृगालश्वादिरक्षार्थं सम्यग्गतं प्रपूरयेत्॥' इति। कुटीचकस्य तु दाहः कार्यः। यथा सर्वं प्राग्वत्कृत्वाऽग्निं प्रज्वाल्य साग्नेर्दक्षिणकरे उपावरोहेत्यवरोह्य निर्मथ्य वा गर्ते चितिं कृत्वा 'अग्निनाग्निः समिध्यते' इत्यग्निं दत्त्वा सावित्र्या प्रणवेन वा दहेत्। ततोऽष्टशतं प्रणवं 'नारायणः परं ब्रह्म' इति जप्त्वा सशिरःप्रणवव्याहत्या गायत्र्या तद्भस्मास्थीनितीर्थे क्षित्वा स्नानाच्छुचिः। नास्यान्यदौर्ध्वदेहिकम्; 'त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते।' इति उशनःस्मृतेः। 'एकादशेऽह्नि पार्वणं तदपि त्रिदण्डिनः। हंसपरमहंसादीनां पार्वणादिकमपि न कार्यम्' इति शूलपाणिः। श्राद्धचिन्तामणौ दत्तात्रेयः— ‘एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रियाम्। न कुर्याद्वार्षिकादन्यद्रीभूताय भिक्षवे॥' प्रेतक्रिययैकोद्दिष्टनिषेधे सिद्धे पुनस्तग्रहणमाब्दिकपरम्। तेन तत्पार्वणमेव। त्रिदण्डिनां द्वादशे नारायणबलिः। तद्विधिरन्यश्च विशेषः प्रागुक्त इत्यलं बहुना॥
ग्रन्थकृत्प्रशस्तिः
एवं निरूपितमिदं गहनं तु धर्मतत्त्वं विचार्य वचनैश्च नयैश्च सम्यक्।
तद्दोषदृष्टिमपहाय विवेचनीयं विद्वद्भिरित्यविरतं प्रणतोऽस्मि तेषु॥१॥
मया सद्वाऽसद्वा यहि गदितं मन्दमतिना किमेतच्छक्यं वाध्यवसितमपि स्वल्पमतिना।
तदेवं यत्किञ्चिद्भदिर्तमिह विख्यात महिमा प्रतापोऽयं सर्वो विकसति तु पित्रोश्चरणयोः॥२॥
यो भाट्टतन्त्रगणनार्णवकर्णधारः शास्त्रान्तरेषु निखिलेष्वपि मर्मभेत्ता।
योऽत्र श्रमः किल कृतः कमलाकरेण प्रीतोऽमुनाऽस्तु सुकृती बुधरामकृष्णः॥३॥
श्रीभट्टरामेश्वरसूरिसूनुश्रीभट्टनारायणसूरिसूनोः।
श्रीरामकृष्णस्य सुतः कृतीमं व्यधान्निबन्धं कमलाकराख्यः॥४॥
नानानिर्णयवत्वान्निर्णयसिन्धुः प्रोच्यतां विबुधाः।
निर्णयसरोजवत्त्वान्निर्णयकमलाकरोऽप्यस्तु॥५॥
वसुऋतुऋतुभूमिते १६६८ गतेऽब्दे नरपतिविक्रमतोऽथ याति रौद्रे।
तपसि शिवतिथौ समापितोऽयं रघुपतिपादसरोरुहेऽर्पितश्च॥६॥
जगति सकलविद्यासिन्धुमुष्टिन्धयानां परभणितिपरीक्षा युज्यते सज्जनानाम्।
तदिह मम निबन्धे दूषणं भूषणं वा यदि भवति विदग्वैस्तद्ध्यवश्यं विमृश्यम्॥७॥
इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणश्रीमद्रामेश्वरभट्टसूरिस्नुनारायणभट्टसुतविद्वन्मुकुटहीराकुर श्रीरामकृष्णभट्टात्मज दिनकरभट्टानुजकमलाकर— भट्टकृते निर्णयसिन्धौ तृतीयः परिच्छेदः॥
समाप्तोऽयं निबन्धः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा