निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
🇮🇳 इस पृष्ठ पर प्रत्येक अनुच्छेद के नीचे उसका हिन्दी अनुवाद है (भावार्थ-प्रधान; मूल पाठ के अस्पष्ट/अशुद्ध स्थलों में अर्थ प्रसंगानुसार लिया गया है)।
अथ समुद्रस्नानम्। आश्वलायनः– 'समुद्रे पर्वसु स्नायादमायां च विशेषतः। पापैर्विमुच्यते सर्वैरमायां स्नानमाचरन्॥ भृगौ भौमदिने स्नानं नित्यमेव विवर्जयेत्॥' भारते– 'अश्वत्थसागरौ सेव्यौ न स्प्रष्टव्यौ कदाचन। अश्वत्थं मन्दवारे तु सागरं पर्वणि स्पृशेत्॥' पृथ्वीचन्द्रोदये स्कान्दे– 'पुनाति पर्वणि स्नानात्तर्पणैः सरितां पतिः। कदाचिदपि नैवात्र स्नानं कुर्यादपर्वणि॥' अस्यापवादस्तत्रैव प्रभासखण्डे– 'पर्वकाले च सम्प्राप्ते नदीनां च समागमे। सेतुबन्धे तथा सिन्धौ तीर्थेष्वन्येषु संयुते। एवमादिषु सर्वेषु मेध्योऽन्ये तु स्वकर्मणि॥” तथा– विना मत्रं विना पर्व क्षुरकर्म विना नरैः। कुशाग्रेणापि देवेशि न स्प्रष्टव्यो महोदधिः॥' तथा– 'न कालनियमः सेतौ समुद्रस्नानकर्मणि।' तद्विधिश्च तत्रैव– 'पिप्पलादसमुत्पन्ने कृत्ये लोकभयङ्करे। पाषाणस्ते मया दत्त आहारार्थे प्रकल्प्यताम्॥' इति पाषाणं प्रक्षिप्य– 'विश्वाची च घृताची च विश्वयोने विशां पते। सान्निध्यं कुरु मे देव सागरे लवणाम्भसि॥ नमस्ते विश्वगुप्ताय नमो विष्णो अपाम्पते। नमो जलधिरूपाय नदीनाम्पतये नमः॥ समस्तजगदाधार शङ्खचक्रगदाधर। देवदेहि ममानुज्ञां तव तीर्थनिषेवणे॥ त्रितत्त्वान्तकमीशानं नमो विष्णुमुमापतिम्। सान्निध्यं कुरु देवेश सागरे लवणाम्भसि॥ अग्निश्च योनिरनिलश्च देहो रेतोधा विष्णुरमृतस्य नाभिः। एतद्भुवन्पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम्॥” इति भारतोक्तमत्रान्पठित्वा विधिवत्स्नात्वा -'सर्वरत्नो भवान् श्रीमान् सर्वरत्नाकरो यतः॥ सर्वरत्नप्रधानस्त्वं गृहाणार्घ्यं महोदधे॥' इत्यर्घ्यं दत्त्वा तर्पयेत्। यथोक्तं पृथ्वीचन्द्रोदये स्कान्दे–पिप्पलादं विकण्वं च कृतान्तं जीविकेश्वरम्। वसिष्ठं वामदेवं च पराशरमुमापतिम्॥ वाल्मीकिं नारदं चैव वालखिल्यांस्तथैव च। नलं नीलं गवाक्षं च गवयं गन्धमादनम्॥ जाम्बवन्तं हनूमन्तं सुग्रीवं चाङ्गदं तथा। मैन्दं च द्विविदं चैव ऋषभं शरभं तथा॥ रामं च लक्ष्मणं चैव सीतां चैव यशस्विनीम्। एतांस्तु तर्पयेद्विद्वान् जलमध्ये विशेषतः॥ आब्रह्मस्तम्बपर्यन्तं यत्किञ्चित्सचराचरम्। मया दत्तेन तोयेन तृप्तिमेवाभिगच्छतु॥' इति॥
इति श्रीमीमांसकनारायणभट्टसूरिसूनुरामकृष्णभट्टा- त्मजदिनकरभट्टानुजकमलाकरभट्टकृते निर्णय- सिन्धौ प्रथमः परिच्छेदः समाप्तः॥
अथ शुद्धाविद्धादिभेदेन स्मार्तवैष्णवयोः स्फुटज्ञानार्थं
श्रीवासुदेवोपाध्यायविरचितो धर्माब्धिस्थोदाहरणसहितश्च
श्री काशिनाथोपाध्यायैरेकादश्या विनिर्णयः।
कृतोऽष्टादशभेदात्मा स्मार्तवैष्णवयोः पृथक्॥ १॥
संलक्ष्योदाहृतेः सिद्धिं संशोध्य ग्रन्थपट्टयोः।
विभाव्यैक्यं च पट्टेऽस्मिन्स यथामति लिख्यते॥ २॥
श्रीरामचन्द्रनामा नामप्रागर्धघृष्टजिह्वाग्रः।
स ब्रह्मवित्पिता मे जयतितरामेष जानकीजानिः॥ ३॥
नामस्मृत्या यस्य च विबोधितो धर्मशास्त्रदुर्बोधम्।
निर्णयमेकादश्या निःसन्दिग्धं सुखेन विलिखामि॥ ४॥
अत्र समत्वं सूर्योदयाद्यक्षणाव्यवहितपूर्वक्षणान्ततिथिसत्त्वं षष्टिघटिकारूपम्। न्यूनत्वं तु किञ्चिन्यूनषष्टिघटिकावधि शुद्धाविद्धाभेदेषु तिथिक्षयवृद्धिभ्यां विलक्षणम्। यथा वैष्णवशुद्धैकादशीप्रथमभेदे दशमी ५५/५९, एकादशी ४९।५९, द्वादशी ४३।५९। एवं परमक्षये पलोनचतुश्चत्वारिंशद्धटीमितं न्यूनत्वम्, एवमेव स्मार्तवैष्णवयोः शुद्धाविद्धाभेदैविलक्षणत्वमूह्यम्।
अत्रारुणोदयवेधरहिता शुद्धा सा चतुर्विधा, सा चोदाहरणेषु प्रदर्श्यते—
इति वैष्णवानां शुद्धैकादशीभेदाः।
अत्र विद्धत्वमरुणोदये दशमीसत्त्वम्। अरुणोदयस्तु सूर्योदयात्प्राक् चतुर्घटिकात्मकः।
इति वैष्णवानां विद्धैकादशीभेदाः।
नि॰ सिं॰ ८
शुद्धत्वं नाम सूर्योदये दशम्यसत्त्वम्। सा चतुर्विधा, सा चोदाहरणैः प्रदर्श्यते-
इति स्मार्तानां विद्धैकादशीभेदाः।
रामचन्द्रतनूजेन वासुदेवेन विन्मुदे।
धर्माब्धिशेषपट्टोऽयमशोध्येकादशीभिदाम्॥ १॥
श्रीसीतारामचन्द्रार्पणमस्तु।
इति श्रीवासुदेवोपाध्यायविरचितो धर्माब्धिस्थोदाहरणसहित एकादशीनिर्णयपट्टः समाप्तः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा